अथर्ववैदिक राष्ट्राभिवर्धनम् ओर काल सूक्त
अथर्ववैदिक राष्ट्राभिवर्धनम् ओर काल सूक्त
राष्ट्राभिवर्धनम् (1-29)
ऋषि- वसिष्ठ, मन्त्र- 6
अभीवर्तेन मणिना येनेन्द्रो अभिवावृधे ।
तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय ॥ 1 ॥
अभिवृत्य सपत्नान् अभि या नो अगतयः ।
अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥ 2 ॥
अभि त्वा देवः सविताभि सोमो अवीवृधत् ।
अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥3॥
अभीवर्तो अभिभवः सपत्नक्षयणो मणिः ।
राष्ट्रीय मह्यं बध्यतां सपत्त्रेभ्यः पराभुवे ॥4॥
उदमौ सूर्यो अगादुदिदं मामकं वचः ।
यथाहं शत्रुहोऽमान्यसपत्रः सपत्नहा ॥5॥
सपत्रक्षयणो वृषाभिरष्ट्रो विषासहिः ।
यथाहमेषां वीराणां विराजानि जनस्य च ॥6॥
काल (10-53)
ऋषि- भृगु, मन्त्र - 10
कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः ।
तमा रोहन्ति कवयो विपश्चित स्तस्य चक्रा भुवनानि विश्वा ॥ 1॥
सप्तचक्रान वहति काल एष, सप्तास्य नाभीरमृतं न्वक्षः ।
स इमा विश्वा भुवनान्यञ्जत, कालः स ईयते प्रथमो नु देवः ॥ 2 ॥
पूर्ण: कुम्भोऽधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तः ।
स इमा विश्वा भुवनानि प्रत्यङ्ग, कालं तमाहुः परमे व्योमन् ॥3॥
स एवं सं भुवनान्याभरत, स एव सं भुवनानि पर्यंत
पिता सन्नभवत् पुत्र एषां तस्माद वै नान्यत् परमस्ति तेजः ॥4॥
कालोऽमूं दिवमजनयत काल इमाः पृथिवीरुत।
कालो ह भूतं भव्यं, चेषितं हवि तिष्ठते ॥5॥
कालो भूतिमसृजत, काले तपति सूर्यः ।
काले ह विश्वा भूतानि, काले चक्षुर्विपश्यति ॥6॥
काले मनः काले प्राणः, काले नाम समाहितम् ।
कालेन सर्वा नन्द-, त्यागतेन प्रजा इमाः ॥ 7 ॥
काले तपः काले ज्येष्ठं, काले ब्रह्म समाहितम् ।
कालो ह सर्वस्येश्वरो, यः पितासीत् प्रजापतेः ॥ 8 ॥
तेनेषितं तेन जातं, तदु तस्मिन् प्रतिष्ठितम्।
कालो ह ब्रह्म भूत्वा, बिभर्ति परमेष्ठिनम् ॥९॥
कालः प्रजा असृजत, कालो अग्रे प्रजापतिम् ।
स्वयम्भूः कश्यपः कालात्, तपःकालादजायत ॥ 10 ॥
निम्नलिखित सूक्तों का अध्ययन :-
UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस
ऋग्वेदः -- ऋग्वैदिक अग्नि सूक्त (1.1),
- ऋग्वैदिक वरुण सूक्त (1.25),
- ऋग्वैदिक सूर्य सूक्त (1.125).
- ऋग्वैदिक इन्द्र सूक्त (2.12),
- ऋग्वैदिक उपस् सूक्त (3.61),
- ऋग्वैदिक पर्जन्य सूक्त (5.83),
- ऋग्वैदिक अक्ष सूक्त (10.34)
- ऋग्वैदिक ज्ञान सूक्त (10.71),
- ऋग्वैदिक पुरुष सूक्त ( 10.90),
- ऋग्वैदिक हिरण्यगर्भ सूक्त (10.121),
- ऋग्वैदिक वाक् सूक्त (10.125),
- ऋग्वैदिक नासदीय सूक्त (10.129)
अथर्ववेदः -