ऋग्वैदिक पुरुष सूक्त

ऋग्वैदिक पुरुष सूक्त

 पुरुष सूक्त (10.90)

ऋषि - नारायण ।

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । 

 भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥1॥ 

पुरुष एवेद सर्वं यद्भूतं यच्च भाव्यम् । 

उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥2॥ 

एतावानस्य महिमातो ज्यायाँश्च पूरुषः । 

पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥3॥ 

त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः । 

ततो विष्वङ्यक्रामत्साशनानशने अभि ॥4॥ 

तस्माद्विराळजायत विराजो अधि पूरुषः । 

स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ 5 ॥ 

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।

वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ 6 ॥

तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः ।

तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ 7 ॥

तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।

पशून ताँश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये ॥8॥ 

तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । 

छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥9॥ 

तस्मादश्वा अजायन्त ये के चोभयादतः ।

गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥10॥ 

यत्पुरुष व्यदधुः कतिधा व्यकल्पयन् ।

मुख किमस्य को बाहू का ऊरू पादा उच्यते ॥11॥ 

ब्राह्मणोऽस्य मुखमासीद्वाहू राजन्यः कृतः ।

 ऊरू तदस्य यद्वैश्य पद्भ्या शूद्रो अजायत ॥12॥ 

चन्द्रमा मनमो जातश्चक्षो सूर्यो अजायत । 

मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥13॥ 

नाभ्या आसीदन्तरिक्ष शीणों द्यौ समवर्तत । 

पद्भ्या भूमिर्दिश श्रोत्रात्तथा लोकाँ अकल्पयन ॥14॥ 

सप्तास्यासन्परिधयस्त्रि सप्त समिधः कृताः । 

देवा यद्यज्ञ तन्वाना अबधन्पुरुष पशुम ॥15॥ 

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन । 

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्या सन्ति देवाः ॥16॥


 पुरुष सूक्त शब्दार्थ- 

पुरः- शरीर, 

इध्मः - ईधन, 

पृषदाज्यम्- दही से युक्त घी, 

नाकम्- दिव्य स्वर्ग

UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस

ऋग्वेदः