महाकवि कालिदास का सम्पूर्ण परिचय संस्कृत व् हिंदी में :- कालिदासस्य समयः :- भारतीयकवीनां समयनिर्धारणमतिकष्टसाध्यं कार्यम् , यतस्तैः स्वविषये किमपि न लिखितम् । अस्या स्थिती अन्यकृतरुल्लेखैः अनुमानेन च प्राचां कवीनां समयो व्यवस्थापनोयो भवति । अस्मादेव हेतोः कालिदासस्य समय सम्बधेऽपि मतभेदा वर्तन्ते-- १. सर विलियम् जोन्स - महोदयः विक्रमसंवत्प्रवर्तकस्य ईसवीयसंवत् पूर्ववत्तिनः कस्यापि विक्रमादित्यस्य राज्ञः कल्पनां कृत्वा तत्सभामण्डनं कालि दासं मत्वा ई ० पू ० प्रथमशताब्दीसमुद्भवत्वं कालिदासस्य मन्यते । २ डा ० वेबर लोसन , याकोबि , मॉनियर विलियम , महानुभावानां सम्म तिषु ई ० द्वितीयशतकयोर्मध्यकालिकत्वं कालिदासस्य स्वीक्रियते । ३. डा ० भाऊदाजी महाशयस्तु - उज्जयिनीनरेशा हर्षविक्रमादित्योऽयं मातृगुप्तनामानं काश्मीरान् शासितुं प्रेषितवान् स मातृगुप्तः कालिदास एवेति मत्वा कालिदासस्य षष्ठशतकोद्भवत्वं स्वीकरोति ४. वत्सट्टिमहोदयस्पैकः शिलालेखः प्राप्यते , यत्र ५२ ९ मालवसंवदुल्लेखो विद्यते , स च ई ० ४७३ तः संवदति । तस्य शिलालेखस्य भाषा कालिदासीयां भाषामनुहरति एतदेवाधारीकृत्य मैक्डोनलमहो