कौशिकगोत्रोत्पन्नस्य नारायणस्वामिनः पुत्रो भारविः । भारवेः पूर्वजाः पूर्वम् उत्तरपश्चिम-भारतान्तर्गतम् आनन्दपुरं नाम नगरमध्यवात्सुः , परतश्च ते नासिकनामकं दक्षिणभारतनगरमायाताः । एकदा स्वसमसामयिकेन राज कुमारेण विष्णुवर्धनेन समं मृगयायां घोरं काननमुपेतो भारविः मांसं सिषवे , यत्पापानोदनाय स तीर्थानि बभ्राम । तदीयं काव्यं श्रुत्वा काञ्चीनृपः सिंह विष्णुस्तमात्मराजधानीमानाययत् । सिंहविष्णुतनयेन राजकुमारमहेन्द्रविक्रमेण स तत्र सानन्दमुवास । तस्य पुत्रो मनोरथनामाऽऽसीत् । तस्य प्रपौत्रः दण्डी बभूव । इयं कथाऽवन्तिसुन्दरीकथायां लिखिता । भारवेरेव नामान्तरं दामोदर इत्यथवा दामोदरभारवी भिन्नौ पुरुषावितिसन्देहो दुरपासः ।
भारविः शैव आसीत् । भारविरिति नाम एल्होल् शिलालेखे ( Ailhola inscription ) निम्नलिखितरूपेण प्राप्यते --
' येनायोजि न वेश्म स्थिरमर्थविधी विवेकिना जिनवेश्म ।
स विजयतां रविकीत्तिः कविताश्रितकालिदासभारविकोतिः ।। '
अयं पुलकेशिनो द्वितीयस्य ६३४ ई ० सामयिकः शिलालेखः , अतो भारवि स्तत्पूर्वतनः सम्भवति ।
किञ्च काशिकावृत्ती भारवेः काव्यमुदाहृतं दृश्यते ।
अपि च स्वहर्षचरिते बाणेन भारविनामास्मरणात् बाणसमयपर्यन्तं न भारवेः प्रसिद्धिरजायतेति तर्कवितुं शक्यते ।
अतः भारवेः समयः षष्ठेशवोयशतकं नन्तुं युज्यते ।
शिवार्जुनयुद्धमवलम्ब्य निर्मितं भारवेरेकमेव किरातार्जुनीयाभिधं काव्यं प्राप्यते । अष्टादशसर्गनिबद्धेऽत्र महाकाव्ये महाभारताधारकं सुन्दरमुपाख्यानं चित्रितम् ।
द्यूते पराजितो युधिष्ठिरो भ्रातृभिः पन्या च सह द्वैतवने वसति स्म । स दुर्योधनस्य शासनपद्धति ज्ञातुमेक बनेचर गुप्तचररूपेण प्रेषितवान् । सर्वं ज्ञात्वा प्रतिनिवृत्तो वनेचरो दुर्योधनस्य नीतिपूर्णा शासनपद्धति युधिष्ठिराय निवेदया मास । भीमद्रौपद्यौ युधिष्ठिरं बहूत्तेजयाँमासतुः परं प्रतिज्ञामुल्लङ्घय युधिष्ठिरो युद्धार्थ न प्रावर्त्तत । अत्रान्तरे वेदव्यासस्तत्रायातः ।
स पाशुपतास्त्रमासादयितु मर्जुनं तपस्यार्थमिन्द्रकीलं नाम पर्वतं प्रेषयामास । तपस्यतोऽर्जुनस्य ब्रतभङ्गाय देवबाला आगत्य विफलप्रवासा अभवन् । इन्द्रः स्वयं तदाश्रममागत्य तं प्रोत्साहयामास । अर्जुनस्य तपोबलं परीक्षितुं शिवः किरातवेषमाधायागतः । मायावी शूकरोऽर्जुनस्याश्रमपाश्वेऽदृश्यत । अर्जुनकिरातौ सहैव तत्र शुकरे बाणं प्रचिक्षिपतुः । इदमेव युद्धकारणमजायत । युद्धयमानयोः किरातार्जुनयोर्गा पडीवो भुजाभ्यामाजघ्ने कनकशिलानिभं विषमविलोचनस्य वक्षः । अर्जुनपरा क्रमदर्शनतुष्टः शिवोऽर्जुनाष पाशुपतास्त्रं ददौ ।
भारवेरर्थगौरवं प्रसिद्धम् । अतएव मल्लिनायोऽपि टीकाप्रारम्भे - नारिकेल फलसम्मितं वचो भारवेरित्याह । बहोरप्पाराशेरल्पेन शब्देनाभिधाने भार विरभ्यस्त कौशल इति सर्वेषां विदुषां विचारः । भीमभाषणस्य प्रशंसायां युधिष्ठिरेण प्रोक्तम् '--
' स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् ।
रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहतं क्वचित् ।। '
वस्तृत इयमेवोकि रविकवित्वप्रशसायायप्युपयुज्यते ।
ऋतूनां जलक्रीडायाश्चन्द्रोदयस्य च वर्णने महती कवित्वप्रतिभा प्रदर्शिता भारविणा । अलङ्काराणां यथावसरोपन्यासे चित्रकाव्यनिर्माणे च परं साफ ल्यामासादितमनेन कविवरेण । भारविणा नीतयो निपुणमुपन्यस्ताः--
' बरं विरोधोऽपि समं महात्मभिः । '
' न बच्चनीयाः प्रभवोऽनुजीविभिः । '
' हितं मनोहारि च दुर्लभं वचः । '
' विश्वासयत्वाशु सतां हि योगः । '
' सुदुर्लभाः सर्वमनोरमा गिरः । '
' गुरुतो नयन्ति हि गुणा न संहतिः । '
' गुणाः प्रियत्वेऽधिकृता न संस्तवः । '
' पाड्गुण्यप्रभवा नीतिवंशस्थेन विराजते '
इति क्षेमेन्द्रोक्तिवंशस्थोपनिबद्धां भारवेनीतिचर्चामालोक्यैव प्रवृत्ता स्थादित्ति सम्भाव्यते ।
भारवे . कवितानां समीक्षया ज्ञायते तदस्याभिमानधनताऽसीत् । भारवि कवितायां तर्कात्मकमोजः प्रबलम् । कवित्वनिदर्शनाय कतिचन पद्यान्यु नियन्ते ।
' अथ क्षमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम् ।
विहाय लक्ष्मीपतिलक्ष्मकार्मुक जटाधरः स धोह पावकम् ॥
' अपवजितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे ।विमला तब विस्तरे गिरां मतिरादर्श इवाभिलक्ष्यते ।। '' तुषारलेखाकुलितोत्पलाभे पर्यधुणी मङ्गलभङ्गभीरुः ।अगूढभावापि विलोकने सा न लोचने मीलयितुं विषहे ।।' मृणालिनीनामनुरञ्जितं श्रिया विभिन्नमम्भोजपलाशशोभया ।पयः स्फुरच्छालिशिखापिशङ्गितं द्रुतं धनुः खण्डमिवाहिविद्विषः "
इति ||