महाकवि कालिदास का सम्पूर्ण परिचय संस्कृत व् हिंदी में :-
कालिदासस्य समयः :-
भारतीयकवीनां समयनिर्धारणमतिकष्टसाध्यं कार्यम् , यतस्तैः स्वविषये किमपि न लिखितम् । अस्या स्थिती अन्यकृतरुल्लेखैः अनुमानेन च प्राचां कवीनां समयो व्यवस्थापनोयो भवति । अस्मादेव हेतोः कालिदासस्य समय सम्बधेऽपि मतभेदा वर्तन्ते--
१. सर विलियम् जोन्स - महोदयः विक्रमसंवत्प्रवर्तकस्य ईसवीयसंवत् पूर्ववत्तिनः कस्यापि विक्रमादित्यस्य राज्ञः कल्पनां कृत्वा तत्सभामण्डनं कालि दासं मत्वा ई ० पू ० प्रथमशताब्दीसमुद्भवत्वं कालिदासस्य मन्यते ।
२ डा ० वेबर लोसन , याकोबि , मॉनियर विलियम , महानुभावानां सम्म तिषु ई ० द्वितीयशतकयोर्मध्यकालिकत्वं कालिदासस्य स्वीक्रियते ।
३. डा ० भाऊदाजी महाशयस्तु - उज्जयिनीनरेशा हर्षविक्रमादित्योऽयं मातृगुप्तनामानं काश्मीरान् शासितुं प्रेषितवान् स मातृगुप्तः कालिदास एवेति मत्वा कालिदासस्य षष्ठशतकोद्भवत्वं स्वीकरोति
४. वत्सट्टिमहोदयस्पैकः शिलालेखः प्राप्यते , यत्र ५२ ९ मालवसंवदुल्लेखो विद्यते , स च ई ० ४७३ तः संवदति । तस्य शिलालेखस्य भाषा कालिदासीयां भाषामनुहरति एतदेवाधारीकृत्य मैक्डोनलमहोदयः कालिदासस्य पञ्चमशत- कोद्भवतामाहुः ।
५. डा ० हानले - प्रभृतयस्तु विद्वांसः कालिदासस्य काव्येषु गोप्ता - गोप्ने- कुभार - गुप्त - स्कन्ध प्रभृतिशब्दैः गुप्तवंश्यनृपाणां स्मरणं मन्यमानाः कालिदासस्य समयं पञ्चमं षष्ठं वेशवीयशतकमाहः ।
६. ए ० सी ० चटर्जीमहोदयस्तु कालिदासं मालबनरेशयशोधर्मसमकालिक मत्वा षष्ठशतकवत्तिनमाह ।
७. रामचन्द्रविनायकपटवर्धनस्तु ' आषाढस्य प्रथमदिवसे ' , ' प्रत्यासन्ने नभसि ' इत्यादि पद्याधारेण ज्यौतिषानुसारिणीं गणनां कृत्वा १८०० वर्षपूर्व- वत्तिनं कालिदासमातिष्ठते ।
८. आर ० कृष्णमाचारियर - महाशयो मेघसन्देशविमर्शनामकग्रन्थे लिखति यत् ' दिङ्नागानां पथि परिहरन् ' इति श्लोकस्य साक्ष्येण दिङ्नागसमकालिका कालिदासः ई ० षष्ठशतकेऽवत्तंतेति ।
९ म ० म ० रामावतारशर्मा महोदयः कालिदास द्वितीय चन्द्रगुप्तसमकालिक मत्वा ३७५ तः ४५० ई ० मध्यवत्तिनं सप्रमाणे साधयति ।
विचारकास्तु -
प्राचीनसमये मालवनामकगणस्य प्रामुख्यमवर्त्तत , ई ० पूर्वतृतीयशतके क्षुद्रकगणेन सह मिलित्वा मालवगणः सिकन्दरेण सह युयुधे , सहाय काभावात् पर पराजीयत । अयमेव मालवगणो ग्रीकाणां सतताक्रमणात पीडितः सन् राजस्थानमागत्य ई ० प्रथमशतके मालवदेश स्वायत्तीचकार । गणराज्येऽस्मिन् विक्रमादित्यो मुल्योऽवर्तत । शकान् पराजित्यायं शकारि पदवोमभजत् एतत्प्रतितसंवत्सरस्य गणनाम्ना मालवसंवत् नाम्ना व्यवहारः प्रवलितः । अतः ई ० पू ० प्रथमशतके विक्रमादित्यस्य सत्तया तत्सभायां स्थितस्य कालिदासस्य स एव समयः संभवति ।
किच्च - निश्चितः समयोऽश्वघोषस्य स हि कुषाणनरेशकनिष्कसमकालिक प्रथमशताब्दीस्थितः । तत्काव्ये कालिदासस्य काव्यमनुक्रियमाणं वीक्ष्यते । रघुवंशे कुमारे च विद्यमानं पद्यं बुद्धचरितेऽश्वघोषेण किञ्चिदेव विपर्यस्योपन्य स्तम् , अतोऽश्वघोषात्पूर्ववर्ती सम्भवति कालिदासः ।
तदाभ्यां सम्भवप्रमाणाभ्यां कालिदासस्य ई ० पूर्वप्रथमद्वितीयशतकसम्भवत्वं स्वीकतु समर्थयन्ते |
कालिदासस्य देशः :-
कालिदासस्य को देश इति विषये महान् मतभेदः । केचन काश्मीरान् , अपरे वङ्गान , तदन्ये मिथिलां च तद्देशमाहुः । वयन्तु पश्यामः - मालवगण मुख्यविक्रमादित्यसभास्थस्य कालिदासस्य मालवमुख्यनगरी उज्जयिनी एव स्थानम् । कालिदासस्योज्जयिनीवर्णनपक्षपातोऽपि पक्षमिमं समर्थयते । कालि दासेन यथा सूक्ष्मेक्षिकयावन्तीनां भौगोलिकी स्थितिर्मेघदूते निबद्धा सा तद्देश वासित्वे एव सम्भवति । हिमालयादिवर्णनमपि वङ्गमिथिलादिवासिनः कालि दासस्य कृते न तथानुकूलं यथा मालववासिन इत्यपि पूर्वोक्तसमर्थकम् ।
कालिदासस्य रघुवंशमहाकाव्यम् :-
रघुवंशम् १ ९ सर्गात्मकं महाकाव्यम् । अत्र रघोवंशस्य कथा निबद्धा । दशमसर्गादारभ्य पञ्चदशसर्गपर्यन्तं रामस्य कथा वणिता । तदुत्तरं रामवंश्यानां तत्तन्नृपाणां चरितान्युपन्यस्तानि । अन्तिमः सर्गो गर्भान्धस्याग्निवर्णस्याभिषेकेण समाप्यते
' तस्यास्तथाविधनरेन्द्रविपत्तिशोकादुष्णेविलोचनजलैः प्रथमाभितप्तः ।
निर्वाषितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः ॥ '
कालिदासोऽग्निवर्णपरवत्तिनां राज्ञामपि वर्णनं चिकीर्षति स्म , परमसौ कालेन कवलीकृत इत्येके । अन्ये पुनः ' कालिदासेन परतोऽपि रघुवंशस्य सर्गा लिखिताः परन्तु ते न प्राप्यन्ते ' इत्याहुः । बहवस्तु कालिदासस्याग्निवर्णसमका लिकतया ग्रन्थस्य तत्पर्यन्ततां समर्थयन्ते । क्षेत्रेशचन्द्रचट्टोपाध्यायास्तु स्वीये ' डेट ऑफ कालिदास ' ( Date of Kalidasa ) नामके निबन्धे रघुवंशमग्नि वर्णावसानमेवाहूः , किन्च ते इदमपि कथयन्ति यत् अग्निवर्णः प्रायो देवभूमिः शुङ्गवंश्य एवासोद्यो ब्राह्मणेन मन्त्रिणा वासुदेवेन हतः ।
रघुवंशे येषां राज्ञां वर्णनानि सन्ति , तेषां रामायणणितनृपेः सह भेद आप भूयसा सामञ्जस्यं धारयति । तति , परन्तु वायुपुराणवणितरामवंशावल्या सह रघुवंशवणितरामवंशावली भूयसा सामञ्जस्य धारयति ।
कालिदासस्य कुमारसंभवम् :-
इदमपि महाकाव्यं १७ सर्गसमाप्यम् । अत्र कुमारजन्मवर्णनम् । रामायण गतं निम्नलिखितं पद्यं पठित्वैव कालिदासेन स्वकाव्यस्य नामकरणं कृतं स्यादिति विद्वांसस्तयन्ति
' एष ते राम गङ्गाया विस्तारोऽभिहितो मया ।
कुमारसंभवश्चैव धन्यः पुण्यस्तथैव च ।। ' ( बालकाण्डे ३७।३२ )
अन्ये - नवमसर्गादारभ्य सप्तदशसर्गपर्यन्तस्य भाषा न तथा प्रौढा विद्यते यथाऽऽदिमस्य सर्गाष्टकस्य , किञ्च मल्लिनाथप्रभृतयष्टीकाकृतो नवमसर्गात व्याख्यां न कृतवन्तः किन्तु अष्टमसर्गपर्यन्तमेव व्याख्यातवन्तः , अतः अष्टम सर्गपर्यन्तमेव कुमारसंभवं कालिदासेन कृतमिति हेतोरष्टमसर्गात् परतः काव्यं केनाप्यन्येन योजितम् । केचित्तु शृङ्गारप्रधानस्याष्टमसर्गस्यापि परकृतत्वं कल्पयन्ति । यथोक्तम् आर ० बी ० कृष्णमाचार्यमहोदयेन --
' नवमादयस्तु सर्गा येन केनापि विरचिताः स्युरिति भाति । नवमादिषु किल सर्गेपु क्वचिच्छन्दतो वर्णनादिभिश्च पूर्वतरसंवाददर्शनेऽपि भूयसा विसंवाद एव समुपलभ्यते । किञ्च तत्र प्रायेण विसंस्थुलानि परस्परसौहार्दविरहितानि शिथिलशिथिलानि क्वचित् क्वचिदश्लीलप्रायाणि अपप्रयुक्तानि पुनरुकल्पानि पदजातानि नियतमकालिदासीयत्वमेव नवमादीनां सर्गाणामाबेदयन्ति इति ।
कालिदासस्य कविताशैली :-
कालिदासस्य काव्यमाधुरी तथा प्रसिद्धा यथा नाहंति प्रस्तावनाम् । आलोचकानां सम्मती कलापक्षापेक्षया हृदयपक्षस्य चमत्कार्युपन्यसनं यस्य काव्ये संभवत्ति स कविः श्रेष्ठः । एतदनुकूलं हृदयपक्षस्य चमत्कारि चित्रणं कालिदासस्य काव्येषु सर्वत्र प्राप्यते । कालिदासो निजे काव्ये वस्तुवर्णनावसरे रसस्य प्राञ्जलमुपस्थापन तथा मनोरमपद्धत्या विधत्ते यथा स नातिमन्थर चपलः कामपि विचित्रों कमनीयतामावन्नास्वादः पाठकानां हृदयानिहर्ष स्ति मितवृत्तीनि विधत्ते ।
मानवजीवनस्य सर्वाङ्गसम्पूर्ण चित्रमुपस्थापयितुमसौ रघुवंशं प्रणीतवान् , प्रेम्णः परं प्रकर्ष प्रकाशयितुच कुमारसम्भवं निर्ममे । महाकाव्ययोरनयोर्या रमणीयता सा वचसा पथि न पदं धत्तं ।
रघुवंशे द्वितीयसमें आधितपालनाय स्वं वपुरुत्स्रष्टकामस्य राजश्चित्रणे कविना महानादर्शः स्थापितः रपोविजययात्रावर्णने तेषां देशानां तद् रम्य चित्रणं कृतं यज्ज्ञातं सन्मनो विनोदयति , स्वयंवरवर्णने मनोभावज्ञानस्य प्रकृष्टः परिचयः प्रदत्तः , दशरथस्यानपत्यतादशायां मुनिशापावसरोत्थाभिरुक्तिभिरन
पत्यताक्लेशस्य वर्णनं कृतम् , सीतात्यागावसरे रामस्योक्तिषु कर्तव्य प्रेम्णोविवादे प्रेम्णः पराजयं प्रकाश्य नैतिकस्तर उन्नमितः , अवसानेऽतिकान्ता सक्तेरनिष्टफलकत्वं च प्रदर्शितम् । तदित्थं रघुवंशकाव्यमारम्भादवसानं यावद तिरमणीयं रचितम् ।
उपमा कालिदासस्येति कथनं तु न प्रमाणमपेक्षते --
' अयोधनेनाय इवाभितप्तं वैदेहि बन्धोर्हदयं विद्रद्रे । '
' सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पर्तिवरा सा |
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ '
इत्यादि निदर्शनोपस्थापनं तु स्वबुद्धिवैभवप्रकाशनमेवेति विरम्यते । शब्दविन्यासोऽपि कवेरस्य कव्यन्तरविलक्षण एव , दृश्यताम् -
' ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः ।
जाताभिषङ्गो नृपतिनिषङ्गादुद्धत्तु मैच्छत् प्रसभोघृतारिः ॥ '
' तमार्यगृह्यं निगृहीतधेनुमनुष्यवाचा मनुवंशकेतुम् ।
विस्मावयन् विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिहः ॥ '
' इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण ।
एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः ॥ '
किमीदृशो शब्दसज्जा क्वचिदपरकविकृतावपि दृष्टा श्रीमभिः ? कुमार सम्भवप्रथमसर्गे हिमालयवर्णने या वास्तविकवस्तूपन्याससहकृता काव्यकला सा नितान्तहया । तृतीयसर्गे शृङ्गारोढोधकसामग्रीसङ्कलने कालिदासेन प्रथम वसन्तत्तु : प्रकटीकृतस्तदनन्तरं काननशोभा समुद्भाविता , तदनन्तरं वसन्त पुष्पाभरणं वहन्ती , आजिता किञ्चिदिव स्तनाभ्यां बसाना तरुणार्करागं स्थावरराजकन्या अवश्यंत । एतादृशसामग्रीसमवधाने सत्येव
' हरस्तु किञ्चित्परिलुप्तधेयंश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ।। '
महादेवे पार्वतोवदनं पश्यन्ति सत्येव
' कानस्तु वाणावसरं समीक्ष्य पतङ्गवह्निमुखं विविक्षुः ।
उमासमक्ष हरबद्धलक्ष्यः शरासनज्या मुहुराममर्श ।। '
तदियता सम्भारेण समुपपादितः शृङ्गाररसः पाठकेभ्यः स्वदते ।