महाकाव्य प्रस्तावना, विकास, परिचय

 महाकाव्य प्रस्तावना, विकास, परिचय :-

महाकाव्यानां विकासः :-

         संस्कृतकाव्यस्योदयो यद्यपि प्रशान्तपावने तपोवनेऽजायत , तथापि तस्य विकासो राज्ञां प्रासादेष्वभूदिति कथनं सत्यादपेतम् । कालिदासो विक्रमादि त्यमन्तरा दुराप एवास्थास्यत् । हर्षवर्धनं विना बाणस्य सम्भवो नासीत् । कविसमादरो राजभिः क्रियमाण एव तानुत्तमकाव्यनिर्माणाय प्रेरयत् । राजानो हि कवीनाद्रियन्त । राज्ञामाश्रये कवित्वं प्रस्फुटति स्म । राज्ञामेव रङ्गशालासु तेषां कृतयोऽभ्यनीयन्त । राज्ञामाश्रयमवाप्यैव संस्कृतकाव्यं सर्वांशतो विकासमभजत । 

महाकाव्य प्रस्तावना, विकास, परिचय


    संस्कृतकाव्यानि पुराणं रामायणं भारतं च बीजभावेनाश्रयन्ति । यद्यपि वेदेषु वर्णनपराणां मन्त्राणामुपलब्धिरिति तदपि परोक्षभावेन काव्यबीजत्वं भजते परन्तु रामायणादीनि तु प्रत्यक्षभावेनैव काव्यस्य बीजानि वक्तुं शक्यन्ते । वेदेषु वर्णितानां कथानामाधारेण यद्यपि लौकिककाव्यप्रणयनं प्रायो नाजायत , तथापि कालिदासो विक्रमोर्वशीये वेदवणितामेवोर्वशीपुरूरवसोः स्नेहकयां संदृब्धवान् । 

       राज्ञामाश्रयेषु स्थिता अपि संस्कृतभाषाकवयः केवलं तेषामेव वर्णनानि प्रस्तुतवन्त इति यदाधुनिका आलोचका आक्षिपन्ति तदसारमेव , यतो मेघदूते कालिदासः साधारणभृत्यस्य यक्षस्यैव प्रणयकथाममरतामनयत् , दरिद्रचारुदत्ते भासोऽपि तथैव दरिद्राश्रयकथामुपस्थापितवान् , शूद्रकोऽपि मृच्छकटिके तथैव दरिद्रवृत्तमुपस्थापितवान् । 

       संस्कृतभाषाकाव्यानां विकासस्यालोचनायां प्रक्रान्तायामिदं न विस्मर्तव्यं यदत्र साहित्ये प्रथमं रसं बन्धुमध्यवसायः प्रवर्तते स्म । वाल्मीकिना हि काव्या नामादिकाव्ये स्वरामायणे करुणरसस्य या धारा प्रवाहिता सा सततं स्यन्दमाना  एव स्थास्यति । वर्णनप्रवृत्तावनुदिनमुपचीयमानायामपि कालिदासप्रभृतयो महाकवयो रसबन्धायैव व्याप्रियमाणाः प्राप्यन्ते । 

     अनन्तरकालोत्पन्नाः पुनः कवयो रससापेक्षाः सन्तोऽपि ज्ञानगरिमाणमुप दर्शयितुं कवितामरचयन् , तादृशानां कवीनां मध्ये श्रीहर्षः प्रधानम् । यद्यपि हर्षस्य काव्ये ज्ञानगरिमाऽन्तर्लीनः प्रतिभाति , तथापि रसपेशलता सर्वत्र प्राप्यत एव । 

कतिपये पाश्चात्त्वविद्वांसः संस्कृतकाव्यानां मूलं प्राकृतकाव्यमाहुः , तदनु चितम् , नहि संस्कृतकाव्यानि प्राकृतमूलानि , प्राकृतकाव्यानां तावत्प्राचीनानामश्रवणात् । नाप्यनुवादरूपत्वे संस्कृतकाव्यस्रोतसि एतावती प्रखरता समागन्तुमशक्ष्यत । 

       संस्कृतकाव्यधाराया रामायणादिहिमवत्प्रसूतत्वेऽपि प्रथमे काव्यग्रन्थाः कतम इति चिन्तायां श्रूयमाणनामधेयाः पाणिनिवररुचिप्रभृतयो यानि काव्यानि रचितवन्तस्त एव ग्रन्थास्तथेति प्रतिपत्तुं शक्यन्ते । 

      यद्यपि आलोचका वैयाकरणस्य पाणिनेः काव्यप्रणेतृत्वं प्रति सन्दिहन्ति , तथापि भूयांसो विद्वांसो वैयाकरणप्रवरं पाणिनिमेव काव्यप्रणेतारमाहुः । राजशेखरोज्यत्रार्थे कृतसाक्ष्यः प्रतीयते --

'नमः पाणिनये तस्मै येन रुद्रप्रसादतः । 
आदी व्याकरणं प्रोक्तमनु जाम्बवतीजयम् ।। '

 वररुचे : काव्यं यद्यपि नोपलभ्यते तथापि पतञ्जलिप्रामाण्येन भ्राजाख्य श्लोकरचयितृत्वं वररुचेः प्रमाण्यते ।

 पाणिनेः जाम्बवतीजयम् :-

            पाणिनेः परत्तिनो विद्वांसः पाणिनेः कृते ' दाक्षीपुत्र ' ' शालातुरीय ' इति विशेषणे प्रयुक्तवन्तः । शालातुरशब्दस्य स्थानवाचकता । जेनरल कनिङ्घम महोदयः शालातुरस्य वर्तमानं नाम ' लाहुर ' इत्यातिष्ठते । ' लाहुर ' नामको ग्रामः पेशावरस्य समीपे विद्यते । उत्तरभारतस्य भौगोलिकज्ञानं यदष्टाध्याय्या प्रकाशितं पाणिनिना तेनापि तस्योत्तरभारतत्तित्वं प्रमाणीक्रियते । 

      तक्षशिलानामके प्रसिद्ध विश्वविद्यालये पाणिनिना विद्याभ्यासः कृतः । पाटलिपुत्रेऽपि वर्षनामकाद्विदुषस्तस्य विद्याध्ययनं प्रथते -- 

' अत्रोपवर्षवर्षाविह पाणिनिपिङ्गलाविह व्याडिः । 
वररुचिपतञ्जली इह परीक्षिताः ख्यातिमुपजम्मुः ।। 

भट्टसोमेश्वरराजशेखरौ विषयेऽत्र साक्षिणी भवतः । आदौ मन्दमतिरपि पाणिनिस्तपःप्रभावात् प्रतिभाप्रकर्षमापत् । 

      कतिपये पाश्चात्यलेखकाः चतुर्थ ई ० पू ० पाणिनिकालमाहुः । डा ० गोल्डन स्टकर डा ० भाव्हारकरमहोदयौ तु पाणिनेर्बद्धतः पूर्वत्तित्वमातिष्ठमानौ अन्ततः सप्तम ई ० पू ० समुत्पन्नतामाहुः । 

    पातालविजयं जाम्बवतीजयं जाम्बवतीकल्याणं वेति समानार्थं पाणिनि काव्यानाम् । 

पाणिनेः कवित्वं सरसं सरलं च । दृश्यताम् - 

' गतेऽधरात्रे परिमन्दमन्दं गजन्ति यत्नावृषि कालमेघाः । 
अपश्यतो वत्समिवेन्दुविम्बं तच्छवरी गौरिव हुङ्करोति । '
' उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । 
यथा समस्तं तिमिरांशुकं तथा पुरोऽपि रागाद्गलितं न लक्षितम् ॥ ' 
' विलोक्य सङ्गमे रागं पश्चिमाया विवस्वतः ।
 कृतं कृष्णं मुखं प्राच्या नहि नार्यो विनेष्यंया । ' 
' अथाससादास्तमनिन्द्यतेजा जनस्य दूरोज्झितमृत्युभीतेः । 
उत्पत्तिमद्वस्तु तथा विनाश्यं यथाऽहमित्येवमिवोपदेष्टुम् ।। '
 ' शरदि रविरश्मितप्ता बिभ्राणाः शोषमतिशयग्लपिताः ।
 ज्वरिता इव लक्ष्यन्ते लधनयोग्या महासरितः ॥ '
 ' निरीक्ष्य विद्युन्नयनैः पयोदो मुख निशायामभिसारिकायाः । 
धारानिपातैः सह किन्नु वान्तश्चन्द्रोऽयमित्यार्त्ततरं ररास । ' 
' ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानानखक्षताभम् । 
विनोदयन्तो सकलङ्कमिन्दुं तापं रखेरभ्यधिकं चकार ।"

          तदयं महावेयाकरणः काव्यनिर्माणेऽपि प्रथमपथप्रदर्शकत्वं गत इति बोध्यम् । 

       वत्सभट्टिस्तु कालिदासात्परवत्तितया मत इति पाणिनेः परिवत्तिषु कविषु कालिदास एवं प्रसिद्धः कविः ।

       यद्यपि सुभाषितावलौ शाङ्गघरपद्धती सदुक्तिकर्णामृते च वररुचेः पद्यानि प्राप्यन्ते , किन्तु पतञ्जलिनाऽपि वररुचेः पद्यानि स्मर्यन्ते स्म , यतोऽसौ वारश्चं काव्यमित्युदाजहार । तत्र वात्तिककार एवार्य कविवररुचिरिति बहूनामास्था । वररुचेः काव्यस्य नाम ' कण्ठाभरणम् ' इत्यासीत् । यथोक्तं राजशेखरेण --

' यथार्थता कथं नाम्नि मा भूद्वररुचेरिह । 
व्यधत्त कण्ठाभरणं यः सदारोहणप्रियः ॥ ' 

        वररुचिः पाटलिपुत्रस्थस्य नन्दस्य महामन्त्री चतुर्थ ई ० पू ० समुद्भूत  शाभवदिति भाण्डारकर-महोदयोऽभिप्रेति । तदेवं संस्कृतकविताधाराऽविच्छिन्न प्रवाहाऽवतंत ।