श्री मद्भागवत सामान्य परिचय हिंदी व संस्कृत में -
श्रीमद्भागवतम् :-
' विद्यावतां भागवते परीक्षा '
इत्युक्तेर्भागवतस्य काठिन्यं श्रुतचरम् । अस्य भागवतस्य पुराणत्वे लोकाः सन्दिहते , ते हि देवीभागवतमेवाष्टादशपुराणा न्तर्गतं मन्यन्ते न श्रीमद्भागवतम् । त्रयोदशशतकोत्पन्नो वोपदेवनामा वङ्गीयो विद्वान् श्रीमद्भागवतं प्रणोतवानिति कथनमपि श्रीमद्भागवतस्य पुराणत्वं सन्देहे पातयतां केषाञ्चनावस्तुतत्त्वविदामेव ।
वस्तुतस्तु पुराणेषु अपेक्षितस्य ग्रन्थविस्तरस्य ' सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ' इति स्वरूपनिर्देशस्य च भागवते सत्त्वेन तदीयं महापुराणत्वं न सन्देहदोलाधिरूढम् श्रीमद्भाग वतं गायत्रीमन्त्रेणारभ्यते तेनैव च समाप्तिमाप्नोतीति मन्ये महामन्त्रसम्पुटितः मिदं न केवलं पुराणमेवापि तु महापुराणम् । अष्टादशपुराणेषु गणनाऽपि भागवतशब्दसाधारण्यादुभयोः प्राप्नोति , तत्र श्रीमद्भागवतमुत्कृष्टगुणशालितया प्राथम्यमहंति |
वोपदेवेन त्रयोदशशतकोत्पन्नेन भागवतं रचितमिति कथनं निर्मूलम् तत्र कारणान्यधो निदिश्यते --
१ द्वेतमतानुयायो मध्वाचार्यो भागवतोपरि भागवतताप्पयंनिर्णय नाम टीकाग्रन्थं व्यरचयत् , मध्वाचार्यः ११ ९९ ई ० वर्षे जन्माग्रहीत , अतस्त्रयो । सम्भवति । दशशतकात् पूर्वकालिकं भागवतं त्रयोदशशताब्द्यामुत्पन्नेन वोपदेवेन प्रणीतं न तु नितान्त
२. एकदशशतकोत्पन्नो रामानुजाचार्यों वेदान्ततत्वसारनामके स्वग्रन्थे भागवतवत्तिवेदस्तुतेः पद्यमुख़्तवान् ।।
३. चित्सुखाचार्येण नवमशतकसम्भूतेन विरचिताया भागवतव्याख्याया निर्देशो मध्वाचार्यश्रीधरस्वामिविजयध्वजैः स्वग्रन्थेषु कृतः ।
४. दशमशतकोत्पन्नः प्रत्यभिज्ञादर्शनाचार्योऽभिनवगुप्तः स्वीयायां गीता टोकायां भागवतस्यैकादशस्कन्धतः कतिपयपद्यानि उद्धृतवान् ।
५. साङ्ख्यकारिकासु माठरवृत्तिनाम्नी व्याख्या विद्यते , यस्याः अनुवाद चीनदेशभाषायां ५५७-५६९ मध्ये कदाचिदजायत , तत्र भागवतस्य श्लोकदर्य निर्दिष्टम् ।
६. अष्टमशतकोत्पन्नः शङ्कराचार्यः गोविन्दाष्टक - प्रबोधसुधाकरनामकयोः स्वस्तोत्रयोः स्तुतिप्रसङ्ग यासां घटनानां चर्चामकृत ता भागवत इव स्थिताः ।
७. शङ्कराचार्यस्य परमगुरवः गौडपादाचार्याः पञ्चीकरणव्याख्यां ' जगृहे पौरुषं रूपम् ' इति भागवतस्य पद्यं भागवतनामोपादानपूर्वकमुद्धृतवान् । अयं गौडपादाचार्यः षष्ठशतकात् परतो नैव सम्भावयितुं शक्यते ।
इमानि प्रमाणानि सभेरीनादं साधयन्ति भागवतस्य षष्ठशतकात्प्राचीन ताम् , तथा सति त्रयोदशशताब्दीजातेन वोपदेवेन निर्मितत्वं वक्तुरुपहासायैव केवलम् ।
पद्मपुराणान्तर्गतभागवतमाहात्म्यानुसारेण तु कलियुगप्रारम्भ एव भागव तस्य निर्माणं सिद्धयति ।
वोपदेवेन यदि भागवतं कृतं तदा हरिलीलामृतं मुक्ताफलं चेति ग्रन्थद्वयं कथं कृतम् ? हरिलीलामृते भागवतानुक्रमणी विद्यते , मुक्ताफलं च भागवतस्थसरस श्लोकानां संग्रहः , वोपदेवस्य भागवतरचयितृत्वे मुक्ताफलसदृशस्य ग्रन्थस्य तेनैव प्रणयनं व्यर्थमेव स्यात् ।
भागवतस्य कवितासौष्ठवम् :-
भागवतस्य पद्येषु गद्येष्वपि तादृशं चमत्कारकं सौष्ठवं प्राप्यते यत् तेन विदुषां मनांसि हठादाकृष्यन्ते । नवेषु काव्येषु जातेष्वपि भागवतगता काव्य माधुरी नापकृष्टतां गता । तत्पठतां मनांसि भागवतं काव्यमेव प्रथमं मन्यन्ते ततोऽनन्तरं पुराणादि किञ्चिदन्यत् । भागवते समायातानि मथुराद्वारकाप्रभृति नगरीवर्णनानि यथा कलायुतानि तथैव यथार्थान्यपि । केशिनो विकरालस्य रूपस्य जरासन्धभीमयोर्भीषणस्य गदायुद्धस्य च वर्णनमेकतो यदि रोमाञ्चमुद चयति तदा गोपीगीतभ्रमरगीतादि पठ्यमानमेव हृदयं स्तिमितयति नयने उदनयति च । दृश्यताम् -
' रत्नप्रदोपनिकरद्युतिभिनिरस्त
ध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग ।
नृत्यन्ति यत्र विहितागुरुधूपमक्षे
निर्यान्तमीक्ष्य धनबुद्धय उन्नदन्तः ।।
द्वारकावर्णनपद्येऽस्मिन् मयूराणां भ्रमस्य वर्णन नितान्तमनोहरमिदम् । भागवतस्थितेषु वर्णनेषु चमत्कारस्तदाऽतिशयमाप्नोति यदा तत्र वर्णनेष्वपि आत्महिताधायका आध्यात्मिका उपदेशा रसवृष्टि कुर्वते -'
गिरयो वर्षधाराभिहंन्यमाना न विव्यथुः ।
अभिभूयमाना विषयैर्यथाऽधोक्षजचेतसः ॥ ( १०।२०।१५ )
भागवतस्य टीकासम्पत् :-
' सरिद्भिः संगतः सिन्धुः चुक्षुभे श्वसनोमिवान् ।
अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग्यथा ।। ' ( १०१२०१४ )
रासपञ्चाध्यायी भागवतस्य काव्यकलायाः पराकाष्ठाया निदर्शनम्
' शरदुदाशये साधुजातसत्सरसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्कदासिका वरद विघ्नतो नेह कि वधः ? ॥ '
' चरसि यद् व्रजाच्चारयन् पशून नलिनसुन्दरं नाथ ते पदम् ।
तृणकुशाङ्करैः खिद्यतीति नः कलिलतां मनः कान्त गच्छति ॥ '
ईदृशं सङ्गीतमयं हृदयोद्गारप्रकाशनक्षमं च सरसं काव्यं वस्तुतः संस्कृत- साहित्येऽपरत्र दुर्लभमिति कथनं भूतार्थकथनमेव ।
वैष्णवदार्शनिकैः सर्वेरेव भागवतस्य व्याख्या कृता , तदयं भागवतग्रन्थो ब्रह्मसूत्रसमतां गतः । अस्य ग्रन्थस्य टीकासम्पदेवादसीयं गौरवं गमयितुमलम्
१. चित्सुखाचार्यकृता टीका , नोपलभ्यते , केवलं निर्दिश्यते ।
२. श्रीधरकृता टीका , इयं प्रामाणिकी , ' श्रीधरः सकलं वेत्ति श्रीनृसिंह
३. सुदर्शनसूरिणः शुकपक्षीया टीका , श्रीवैष्णवमतपोषिका । प्रसादतः ' इति श्रुतेः ।
४. वीरराघवाचार्यस्य भागवतचन्द्रचन्द्रिकाटीका , श्रीवैष्णवमतपोषिका ।
५. विजयध्वजकृता पद रत्नावली , माध्वमतपोषिका ।
६. सनातनगोस्वामिनः बृहद्वैष्णवतोषिणी , दशमस्कन्धस्य ।
७. जीवगोस्वामिनः क्रमसन्दर्भः ।
८. विश्वनाथचकत्तिनः सारदर्शिनी ।
९ . जीवगोस्वामिनः षट्सन्दर्भः , तत्वविवेचनग्रन्थः ।
१०. वल्लभाचार्यस्य सुबोधिनी , वल्लभसम्प्रदायस्य ।
११. शुकदेवाचार्यस्य सिद्धान्तप्रदीपः , निम्बार्कसम्प्रदायस्य ।
१२. श्रीहरेः हरिभक्तिरसायनं नाम पद्यमयो टीका ।
एवं वयं पश्यामो यदाचार्याः भागवतं स्वमतपोषणाय सादरं व्याचल्यु । अतोऽस्य ग्रन्थस्य सारत्वं प्रतीमः ।
' निगमकल्पतरोगलितं फलं शुकमुखादमृतद्रवसम्मितम् ।
पिवत भागवत रसमालयं मुहुरहो रसिका भुवि भावुकाः ।।