महाभारत का सम्पूर्ण परिचय हिंदी व संस्कृत में
महाभारतस्य नामकरणम् :-
इदं प्रायः सर्वे भारतोया विद्वांसो मन्यन्ते यत् महाभारतं प्राग् जयनाम्ना ततो भारतनाम्ना ततः परतश्च महाभारतनाम्ना प्रसिद्धम् ।
' नारायणं नमस्कृत्य नर व नरोत्तमम् ।
देवी सरस्वतीञ्चैव ततो जयमुदीरयेत् ॥ '
इति पद्यं महाभारतस्य जयशब्दव्यवहार्यतामाह । मौलिकं जयनाम्ना व्यवहृतञ्च महाभारतमल्पपरिमाण स्वरूपत ऐतिहासिककथाप्रधानञ्चावर्तत नोपदेश प्रधानम् । जय इति नामैव तस्य ग्रन्थस्य पाण्डवविजयमात्रबोधनाय निर्मित त्वमाह । अमुमेव जयनामानं ग्रन्थं व्यासो निजशिष्यं वैशम्पायनमध्यापयामा त सेति सा प्रथमावस्था महाभारतस्य ।
वैशम्पायनश्च गुरोासादधीते जये स्वरचितसंवादादि योजयित्वा नाग वज्ञावसरे जनमेजयं श्रावयामासेति तस्यामवस्थायां चतुर्विंशतिसहस्रश्लोकपरि माणतां गतं भारतसंज्ञया प्रथमानञ्चेदं जातम् । सेयं द्वितीयाऽवस्था ।
अथायमेव चतुर्विशतिसाहस्रीपरिमाणो भारतग्रन्थः शौनकाय सौतिना श्रावणकाले तत्पृष्टप्रतिवचनैः समुपबृंहितो भूत्वा लक्षश्लोकपरिमाणो महाभारत संज्ञया प्रथितोऽभवत् । सेयं तृतीया पूर्णतावस्था ।
तृतीयावस्थायां मनु नाम्नाऽपि व्यवहारविषयतां गतोऽयं ग्रन्थो महाभारतमिति तस्य संज्ञा सौतिकृता ।
महाभारत कुत्र शास्त्रेऽन्तर्भवति
प्रथमं महाभारतमितिहासः पुराणमाख्यानकञ्चति नामभिराख्यायते स्म । साम्प्रतिकास्तु महाभारतम् आचारशास्त्रम् नीतिशास्त्रम् धर्मार्थकाममोक्षाख्य चतुर्वर्गसाधनम् चामनन्ति । भारत पञ्चमो वेदः इति सर्वत्र प्रचारितम् । सर्वजास्मिन् ग्रन्थे वैष्णवसिद्धान्तानां प्रमुखत्वेन प्रतिपादनान् महाभारत वैष्णवस्मृतिरप्याख्यायते । महाभारतस्य अशीतिप्रतिशतभागोऽनेकविधोपदेशमयः , विशतिप्रतिशतभाग एवेतिहासप्रतिपादक इति अस्य नीतिशास्त्रेषु गणनोचिता ।
महाभारतस्य रचनाकालः :-
सम्प्रत्युपलभ्यमानं महाभारतं मूलमहाभारतात परतो बहुषु शतकेषु व्यतीतेष्वेव निर्मितं स्यादतो मूलमहाभारतस्त जयाभिधानस्य वर्तमानमहा भारतात् पूर्वकालिकत्वं निश्चितम् । अत्र वर्तमानमहाभारतस्य रचनाकाल सम्बन्ध विचारणीयमस्ति , तत्र -
१. खोप्टकादशशतके जातेन क्षेमेन्द्रेण कृतो भारतमजरीनामा ग्रन्थः कथायां वर्तमानमहाभारतमनुहरतीति वर्तमानमहाभारतस्य एकादशशतकपूर्व कालिकत्वं सर्वथा सिद्धम् ।
२. अष्टमशतकोत्तरार्धे जाता आद्यशङ्कराचार्या महाभारतं स्त्रीभिर्धर्म ज्ञानायाध्येयत्वेनादिशन्ति , तेन महाभारतस्य ततः पूर्वकालिकत्वं सिद्धम् ।
३. अष्टमशतकोत्पन्नाः कुमारिलभट्टाः महाभारतस्य बहूनि पर्वाणिस्मरन्ति ।
४. सप्तमशतकोत्पन्ना बाणसुबन्धुप्रभृतयः कवयो महाभारतस्याष्टादशापि निर्दिष्टानि दृष्टानि । पर्वाणि हरिवंश च स्मरन्ति ।
५. कम्बोडियानामके भारतस्य प्राचोनोपनिवेशे षष्ठशतकसमीपे उत्कीर्णात शिलालेखात् ज्ञायते यत् तत्रत्याय कस्मैचिन्मन्दिराय रामायणमहाभारतग्रन्थौ भारतेन प्रहितौ । तत्कथाप्रबन्धोऽपि भारतेन कुतः ।
६. यववालिप्रभृतिषु द्वीपेषु षष्वशतके महाभारतमवर्तत , ततोऽपि पूर्व तिब्बतभाषायां महाभारतस्यानुवादो जातः ।
७. चतुर्वपञ्चमशतलिखितेषु दानपत्रकेषु स्मृतिरूपेण महाभारतवचनानि
८. ४६२ स्त्रोष्टोत्कीर्णे एकत्र शिलालेखे पाराशर्यव्यासस्य लक्षश्लोकात्मक- महाभारतप्रणेतृत्वमुल्लिस्यते ।
९ . सीरियादेशभाषायाम् उपलभ्येमानस्य शान्तिपर्वाध्यायत्रयस्य साक्ष्येण इटलमहोदयः प्रमाणयति यत् प्रचलितं महाभारतम् ई ० पू ० पञ्चमशतक निवदात् महाभारतात् न भिद्यते ।
१०. इयोन काइसोस्तोम ( Dion Chyrsostom ) महोदयस्य साक्ष्येण प्रतीयते यत् ५० खोटाब्दकाले लक्षपद्यात्मक महाभारत दक्षिणपथे लब्ध प्रचारमासीत् ।
११. खीष्टप्रथमशतके स्थितेन वचसूचीकृत्ताश्वघोषेण हरिवंशस्थ पद्यमेक मुदतम् । एभिः सर्वेः समुदितरेतत् सिद्धं यत् स्त्रोष्टशतकप्रारम्भे महाभारतम वश्यमवर्तत । अपि च
( क ) पाणिनिः महाभारतं जानाति स्मेति डल्हमैन ( Dalhmann ) साक्ष्येण प्रतीयते ।
( ख ) ख्रीष्टपूर्वपञ्चमशतकप्रणीते आश्वलायनगृह्यसूत्रे महाभारतस्यो ल्लेखो दृश्यते ।
( ग ) ४०० ई ० पू ० समये निमिते बौधायनधर्मसूत्रे महाभारतस्यो ल्लेखोऽस्ति ।
( घ ) बौधायनगृह्यसूत्रे महाभारतोयं विष्णुसहस्रनामोद्धियते स्म ।
( ङ ) महाभारतीयशान्तिपर्वणि विष्णोर्दशावतारगणनाकाले बुद्धस्य नाम नायाति ।
( च ) मेगास्थनीजप्रणीते भारतवर्णने याः कथास्ता महाभारत एवं प्राप्याः ।
( छ ) ब्रह्मा सर्वदेवज्येष्ठतया महाभारते प्रतिपादितः । पालिभाषासाहि त्येन ज्ञायते यद् ब्रह्मणो ज्येष्ठत्वं खीष्टपूर्वपञ्चमशतकात् प्रागेव प्ररूढ प्रचारमासीत् ।
( ज ) ज्यौतिषप्रमाणः अपि कतिपये विद्वांसः कल्पयन्ति यत् वर्तमानं महाभारतम् ५०० ई ० पू ० समयात् प्रागेव निर्मितं न ततः परम् ।
अतः सर्वसमोक्षया महाभारतम् ५०० ई ० पू ० समयतः परतो न निर्मितं किन्तु कदाचित् पूर्वमेव निर्मितमिति प्रतीयते ।
महाभारतस्यादरः :-
रामायणस्य तुलनायां यद्यपि महाभारतस्य प्रचारादौ अल्लौ , तथापि महत्वदृष्ट्या महाभारतं विश्वस्य कुतोऽपि ग्रन्थान्न हीयते । महाभारतं तदानीन्तनभारतीयसमाजनीतिराजनीतिप्रभृतिज्ञातव्यं बोधयति , महाभारत तदानीन्तनीं भारतीयां सभ्यतां प्रकाशयति । प्रमाणान्यतयवास्य पञ्चमवेद संज्ञा जाता । यथा रामायणाधारण बहवो ग्रन्था अरच्यन्त तथैव महाभारता धारेणापि । एतत् सर्वमस्य ग्रन्थस्य महत्त्वे साक्षिभूतम् ।
महाभारतस्य संस्करणानि :-
महाभारतं शाखाद्वयशालि , देवनागराक्षरशाखाकम , दाक्षिणात्यशाखाकञ्च । अस्य प्रथमं मुद्रित संस्करण १८३४-३९ वर्षसमये जातम् , पुनश्चेदं १८५ ई ० समये टीकाहयेन सह प्रकाशितम् । १८५५ ई ० वर्षे मद्रासतः तैलङ्गाक्षरैरेक संस्करणं प्रकाशितम् ।
महाभारतस्य विभागाः :-
महाभारतमष्टादशसु पर्वसु विभक्तं वर्तत , तस्मिश्च आदि - सभा - वन - विराट वासि - महाप्रास्थानिक स्वर्गारोहणपर्वाणि सन्ति । उद्योग - भीष्म द्रोण - कर्ण - शल्य सौप्तिक - स्त्री - शान्ति - अनुशासन - अश्वमेध - आश्रम २० सा ० कथा प्रसिद्धा । अनुषङ्गतः शकुन्तलोपाख्यान - मत्स्योपाख्यान - रामोपाख्यान - शिविकथा - सावित्रीकथा - नलोपाख्या नादीनि वणितानि ।
युद्धवर्णनमात्रं न व्यासस्य लक्ष्यमपि तु भौतिकजीवनस्यासारतां प्रकाश्य प्राणिनां मोक्षमार्ग प्रवर्तनमेव व्यासस्य महाभारतप्रणयने उद्देश्यमासीत् अत्त एवात्र शान्तो रसः प्रधानभूतः , बीरस्तु रसोऽङ्गभावं गतः ।
महाभारतस्य विशिष्टता :-
व्यासस्य कृतिरियं सर्वेरितिहास इत्युच्यते यतोऽत्र वोराणां पुण्या गाथ वणिता । अयं ग्रन्थो धार्मिक ग्रन्थो येन लोकः स्वकल्याण गवेषयति ।
अत्रैव ग्रन्थे गोतारत्नं विद्यते या दुग्धेव प्रतीयतेऽनवरतं दुह्यमानाऽपि गोताग्रन्थस्यादरो महाभारतस्यैव विशिष्टतां प्रमापयति । स्वयमेव व्यासेर महाभारतस्य प्रशंसायां यदुक्तं तदक्षरशः सत्यम्
' यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः ।
न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ॥
श्रुत्वा त्विदमुपाख्यानं धाव्यमन्यन्न रोचते ।
पुस्कोकिलागरं श्रुत्वा रुक्षा ध्वांक्षस्य वागिव ।। '
महाभारतीया कविताशैली
' मुहूर्त ज्वलित थेयो न च धूमायितं चिरम् ।
मा तुषाग्निरिवानचिः धूमायस्व जिजीविषुः ॥
'यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम् ।
राशिवद्धनमात्र स नैव स्त्री न पुनः पुमान् ।
' निरमर्ष निरुत्साह निर्वीर्यमरिनन्दनम् ।
मा स्म सोमन्तिनी काचिजनयेत्पुत्रमीदृशम् ॥ '
' यासांसि जीर्णानि यया विहाय नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जोर्णान्यन्यानि संयाति नवानि देही ।। '
' हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥
महाभारतस्य कतिचिवुपदेशाः
व्यासो धर्म भारतीयसंस्कृतेः प्राणभूतं मन्यमानः धर्मस्यात्याज्यतामाह--
' न जातु कामान्न भयान्न लोभाद्
धर्म जह्याज्जीवितस्यापि हेतो: ।
धर्मों नित्यः सुखदुःसे वनित्ये
जीवो नित्यो हेतुरस्य त्वनित्यः ॥ '
मनुष्यैः कर्मपरायणैर्भाव्यम् , कर्मविमुखा मानवा मानवपदवीं नाहन्ति
' प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः । '
आधुनिकाः समाजशास्त्रिणः कथयन्ति यत् - मनुष्या एव श्रेष्ठजीवास्तेषामेव कल्याणाय सर्वे नियमव्यवहाराः प्रवर्त्यन्ते । इदं वस्तु व्यासेन पूर्वतरमेवोक्तम्
'गुह्यं ब्रह्म तदिदं ब्रवीमि नहि मानुषात् श्रेष्ठतरं हि किञ्चित् । '
व्यासेन करशालिनः प्रशंसां कुर्वता स्वावलम्बिताया मन्त्र एवोक्तः-
' अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः । '
रामायणमहाभारतयोस्तुलना :-
रामायणं पूर्व निर्मितं महाभारतं वा पूर्व निर्मितमिति प्रश्ने मतभेदेन समाधयो भवन्ति । वेबरनामा पाश्चात्त्यो विद्वान् भारतीयोऽपि कतिपयबुधव ! रामायणे सुन्दरतरं पदविन्यासं दृष्ट्वा महाभारतं पूर्वनिर्मितमुक्तवान् । परन्तु नैतद्युक्तम् , यतो वाल्मीकिरादिकविरिति भारतीया परम्परा रामायणस्य पूर्वनिर्मितत्व माह । युगदृष्ट्याऽपि रामायणं महाभारतात्पूर्वतनं सिद्धयति , यतस्त्रेतायुगे रामः , द्वापरे च पाण्डवाः । अन्यान्यपि प्रमाणानि रामायणस्य पूर्वनिर्मितत्वे सन्ति । यथा
( क ) रामायणेऽव्यावहारिक्यो वार्ताः लिखिताः यथा पुत्रार्थ यागः , वानरैः सख्यम् , पर्वतशिलासन्तरणादि च । महाभारते व्यावहारिक्य एव वार्ता उक्ताः , यथा द्यूतं , तत्र पराजयः राज्याथं युद्धञ्च ।
( ख ) रामायणे आर्यसभ्यता शुद्धा चित्रिता म्लेच्छसम्पर्को नोक्तः , महा भारते तु दुर्योधनस्य मित्रं लाक्षागृहनिर्माता पुरोचनः म्लेच्छ एव आसीत् महाभारतकाले म्लेच्छभाषाऽपि लोके यते स्म ।
( ग ) रामायणानुसारेण दक्षिणभारतमनार्यवासस्थलम् , आर्याणां सभ्यता विन्ध्यपर्वतपर्यन्तमेव प्रसृता , परन्तु महाभारतानुसारेण दक्षिणभारतं राज नीतिकृतव्यवस्थं सुसभ्यं च वयते यतो लोका यज्ञे उपहारानादाय आगता
( घ ) महाभारते युद्धकला विकसिता दृश्यते , सर्वेऽपि अस्त्रसम्प्रदायाः शिक्षिताः प्रतीयन्ते , ब्यूहरचना क्रियमाणा वयते , रामायणे परं वृक्षः शिला यास्त्रचालना ज्ञायते । भिश्च प्रह्रियते , अधिकाधिकरूपेण कायिकबलप्रयोगः क्रियते , कतिपयरेव शिक्ष 1 उक्काः ।
( ङ ) रामायणकालिकः समाज आदर्शवादमवलम्बते , पितुराज्ञां पुत्रो मनुते , ज्येष्ठनातरं भ्राता कनिष्ठ आद्रियते , परं महाभारते पितुधृतराष्ट्रस्येच्छां दुर्योधनो नानुवर्तते , भीमो वा युधिष्ठिरस्य सन्धिचर्चा नाभिनन्दति ।
( च ) रामायणीया कथा महाभारते प्राप्यते महाभारतीया कथा रामायणे न प्राप्यते । तदेभिः पूर्वोक्तः प्रमाणे रामायणस्य महाभारतात् पूर्वकालनिर्मितत्वं स्थिरीक्रियत इति ।