"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

रामायण का सम्पूर्ण परिचय हिंदी व संस्कृत में

full-intro-of-ramayana in hindi and sanskrit, रामायण का सम्पूर्ण परिचय हिंदी व संस्कृत में
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

 रामायण का सम्पूर्ण परिचय हिंदी व संस्कृत  में 

 रामायणस्य काव्यत्वम् :-

        संस्कृतसाहित्ये रामायणपदेन वाल्मीकिविरचितं रामायणमेव प्रसिद्धयति । भारतीयैै रामायणमादिकाव्यं वाल्मीकिश्च तत्प्रणेतृतयाऽऽदिकविरभिधीयते । रामायणात् प्राचीनः संस्कृतभाषानिबद्धः काव्यलक्षणोपपन्नः कोऽपि ग्रन्थो न श्रूयते , दृश्यत इति कथैव का ? यतो रामायणे न केवलं युद्धमेव वणितमपि तु रूपकोपमाद्यलङ्कारयुतायां भाषायां प्रकृतेरपि वर्णनं कृतमतो रामायणं काव्यमिति स्वीक्रियते न वीरगाथामात्रम् न वा शुष्केतिहासमात्रम् ।
रामायण का सम्पूर्ण परिचय हिंदी व संस्कृत  में


 रामायणस्य रचनाकालः :-

१. रामायणे महाभारतवणितस्य कस्यापि पात्रस्य नाम नोपलभ्यते , महाभारते तु रामकथा वर्णिता लभ्यते । महाभारतस्य सप्तमपर्वणि लङ्काकाण्डगतं पद्यद्वयमवाप्यते ( अतो रामायणं महाभारतात् प्राचीनम् ) । 
२. रामायणीया रामकथा कियता परिवर्तनेन दशरथ जातकनाम्ना जातक ग्रन्थाङ्गभावं गता यत्र पालिभाषयानूदितं रामायणीयं पद्यं प्राप्यते ।
 ३. मृगयायां दशरथेन श्रवणकुमारोऽन्धतापससूनुर्हत इति रामायणकथा सामजातके वयं ते कियता परिवर्तनेन समम् ।
 ४. बौद्धसाहित्यस्य विशेषज्ञः सिल्वालेविमहोदयः स्पष्टमभिति यत् सद्धर्मस्मृत्युपस्थाननाम्नो बौद्धग्रन्थविशेषस्य मूलेन रामायणेनावश्यं भवितव्यम् । सद्धर्मस्मृत्युपस्थाने वत्तमानं जम्बूद्वीपवर्णनं रामायणस्थितदिग्वर्णनमनुहरति । 
५. याकोबिमहोदयो भाषाविज्ञानद्वारा बौद्धकालपूर्वभवत्वं रामायणस्याह । 
   एभिः सर्वरपि प्रमाण रामायणस्य बुद्धपूर्वकालिकता सिद्धयति । यच्च क्वचिद्रामायणपुस्तके एकत्र बुद्धपदोपादानं तत्प्रक्षिप्तश्लोकाङ्ग मन्तव्यम् । 
६. रामायणे द्वयोरेव स्थलयोर्यवनपद श्रूयते , तयोरेवोपलब्ध्या वेबरमहा शयो यद्रामायणस्य यवनसकाशाद् गृहीतकथामूलकत्वमुक्तवास्तद्यवनपदघटितयो स्तयोः पद्ययोः प्रक्षिप्ततां समर्थयमानेन याकोबिमहोदयेन निपुणं दूषितमेव ।
७. रामायणे कोसलराजधानी अयोध्या आख्यायते । बौद्धजनेः यवनः पतञ्जलिना चापि कोसलराजधानी साकेत इत्युच्यते , अतः सिद्धचति यत् अयोध्याया अभ्युदये वर्तमाने साकेतेति नामकरणात् पूर्वमेव रामायणं व्यरच्यत । 
८. जैनकविना विमलसूरिणा प्राकृतभाषानिबद्धे स्वीये ' पउमचरिआ ' नामके ग्रन्थे ' रामचरितं ' वणितम् । ' पउमरिआ ' ६२ ई ० समयेऽरच्यतातो रामायणं ततः प्राचीनम् । 
९ . पाटिलपुत्रस्य प्रतिष्ठापनमजातशत्रणा ५०० ई ० पू ० समये कृतम् , रामायणे शोणगङ्गासङ्गममतिक्रम्य पुरः सरत्यपि रामे पाटलिपुत्रस्य नामापि न श्रूयते , तेन स्पष्टं प्रतीयते यद् रामायणं ५०० ई ० पू ० समयतः पूर्वकालिकम् ।
 १०. बालकाण्डे विशाला मिथिला च इति द्वे नगर्यो पृथक् पृथक् राजदया धिकृते वयेते । ऐतिहासिकाः कथयन्ति यत् उभे प्रागुक्ते नगयौं बुद्धकालात् प्रागेव वशालोति नाम्ना एकनगरोत्वं गते , अतोऽप्यस्य रामायणस्य बुद्धपूर्वका- लिकत्वमायातम् ।
 ११. रामायणे भारतस्य नानानरपतिशासितानेकलघुराज्यविभक्तत्वं वष्यते इयं च दशा भारतस्य बुद्धपूर्वकाल एवावर्त्ततातोऽपि रामायणस्य बुद्धपूर्वकालि- कता समायाता ।
 १२. रामस्य सम्बन्धे बेलफूर नामा पाश्चात्त्यपण्डितः " Cyclopaedia of Indin " Vol . III a waafa - Rama of the Solar line of Hindu Chronology is, however, placed by brahmins 867-102 B. C, between the silver and brazen ages. But ' has been variously supposed to have lived 2022 B. C. Jones, 950 Hamilton, and 1100 Todd, and according to Bently he was one year old is 960 B. C. born in sixth April 961 B. C, Ram preceded Krishna but as their historians Valmiki and Vyasa, who wrote events they witnessed, they were contemporaries, it could not have bec many years. 
" एभिः सर्वे रवि प्रमाणेरिदं सिद्ध यद्रा मायण खोष्टपूर्वपञ्चमशतकापूर्वमेव कदाचित् प्रणात न तु ततोऽर्वाम् । पाणिनिकृतव्याकरणलक्षणहीनभाषादिः तत्वमपि रामायणस्य सिद्धान्तमिम पोषयति ।

 रामायणस्य प्रचारः :-

                 संसारे किमपि काव्य लोकप्रियताया रामायणस्य समतां कर्तुं न क्षमते . अत एव चास्य प्रवारोऽपि पूर्णतया जातः । निर्माणकालादेव खल्वेतद् रामायण काव्यरूपकादिनिर्माण प्रवृत्ताना विदुषा हदयावाचकर्ष । महाभारते तृतीय पर्वणि रामकथा रामायणाधारेण वणिता । अग्निविष्णुगरुडभागवतब्रह्मा ण्डपुराणेषु च रामायणानुसारेण रामस्य चरितं न्यबध्यत । भासकालिदासादयः प्राचीनाः कवयो रामायणस्याधमण्यं स्वीकृतवन्तः । 
               अश्वघोषप्रभृतयो बौद्ध कवयोऽपि स्वकाव्यानि रामायणानुकृतिवारिभिरसिञ्चन् । ख्रीष्टप्रथमशतके जैन कविना विमलसूरिणा रामायणमुपजीव्य ' पउम चरिआ'नामको ग्रन्थो रचितः । खोष्टीयतृतीयशतकं तिब्बतचीनदेशयोर्भाषयोरनूदितेषु बौद्धग्रन्थेष्वपि रामस्थ वीर्याणि वणितानि । वर्मा ( Indo China ) -प्राच्यद्वीपादिभूभागेष्वपि रामायणं लोकप्रियत्वं प्रापत् । यव ( Java ) द्वीपे लाराजांनाङ् - पमबनन - पनतरन - नामक स्थानेषु शिवमन्दिरेषु देवगढ़स्थे विष्णुमन्दिरे च शिलासु रामायणवृत्तान्ताः शतद्वयाधिकसंख्यका उत्कीर्णाः प्राप्यन्ते । यवद्वीप - मलयद्वीपयोः साहित्येषु रामस्य चरितं वयंमानं दृश्यते । रामायणस्य पात्राणि नायकीकृत्य श्यामबाली प्रभृतिदेशेषु साहित्यसृष्टिरक्रियत । 
                आस्तां पुराणीकथा , भारतीयाधुनिकभाषासु सर्वप्रथमं रामायणं तामिलभाषायां खीष्टकादशशतकेनूदितम् । तुलसीदासेनापि वाल्मीकिरामायणमेवाश्रितम् । भारतस्य काप्येतादृशी भाषा नास्ति यत्र रामा यणस्यानुवादो न जातः स्यात् । वैदेशिक्यो भाषा अपि रामायणस्यानुवादे नात्मानं धन्यं मन्यते ।
        किञ्च रामायणस्य प्रचारे इदमपि प्रमाणं यदत्र वर्णिता विजयदशमी देशे पर्वतां गमिता , एवमेव दीपावलो अपि रामायणवर्णिता सर्वत्र समादृता । तदित्यं रामायणस्य प्रचारेण तदीया लोकप्रियता प्रतीयते ।

 रामचरितस्यादर्शता :-

       वाल्मीकिना स्वकाव्यकलायाः प्रदर्शनाय यत्पात्रमाधारीकृतं तस्य रामस्य चरितमेव तादृशं यत्तदाधारोकृत्य कोऽपि कविः साफल्यमासादयेत् , यथोक्तं साकेते
 ' राम तुम्हारा चरित स्वयं ही काव्य है
 कोई कवि बन जाय सहज संभाव्य है ' 
   अतो रामाधारकं वाल्मीकिकाव्यं रामायणं नितान्तहृद्यं सातिशयशिक्षाप्रद प्रयोजनमुच्यते । च च भूत्वा रसास्वादसुखपिण्डप्रदानद्वारेण विनेयान्विनयति यत्काव्यस्य मुख्यं प्रयोजनमुच्याते ।
      रामचन्द्र आदर्शभ्राता आदर्शपतिः आदर्श पुत्रः आदर्शशासकः आदर्श मनुष्याचासोदिति समर्थयितुमेव रामायणं निरमीयत , यत्र लक्ष्ये तत्सफलमभूत् । रामो वनं गत्वाऽपि भरतोपरि सन्देहं न कृतवान् , लक्ष्मणोपरि विपदुपनिपाते स्वप्राणांस्तृणाव मेने इत्यादिना तदादर्श भ्रातृता , सीतां परित्यज्यापि तदनुरा गानो तिलशः स्वमजुहोदिति तस्थादर्शपतित्वं , पितुराज्ञयोपनतं प्रकृतिभिरनुमोदितमपि राज्यं तत्याजेति तस्यादर्शपुत्रता , रामराज्यपदमधुनाऽपि आदर्श राज्य पर्यायतामापन्नमिति तस्यादर्शशासकता व्यवहारमात्रेण च तस्यादर्शमनुष्यता प्रतीतेति सर्वथा विस्मयावहं चरित्रं रामचन्द्रस्य । तादृशं चरित्रं स्वीये काव्ये | सृष्टवतः कवेर्वाल्मीकेन प्रथमोद्भूततामात्रेणादिकवित्वमपि तु सर्वोत्कृष्टकाव्य प्रणयनसौभाग्यवत्तयाऽपि तदीयमादिकवित्वं प्रतिपन्नं भवति ।

रामायणस्य स्वरूपम् :-

     रामायणे चतुर्विंशतिः सहस्राणि श्लोकानामिति तत् चतुर्विंशतिसाहस्री संहितापदेनाभिधीयते । यावन्ति अक्षराणि गायत्रीमन्त्रे तावत्सहस्रपरिमाणं रामायणमिति दृढम् । इदमपि प्रत्यक्षसिद्धं यत् प्रतिसहस्रतमश्लोकादौ गायत्री मन्त्रस्य एकैकमक्षरं प्राप्यते । एतच्च पाठभेदादिकं नापतेदिति बुद्धया कृतं स्यादिति संभाव्यते ।
      बहवो विद्वांसः उत्तरकाण्डं बालकाण्डस्य कियन्तशं च प्रक्षिप्तमाचक्षुते । बालकाण्डस्य प्रथमे तृतीये च सर्गे या विषयसूची वर्तते तत्रोत्तरकाण्डणिता बालकाण्डगततदंशवणिताश्च विषया नायान्तीति च तेषां तादृशोक्तौ हेतु रुच्यते ' याकोबि'महोदयस्तु अयोध्याकाण्डमारभ्य युद्धकाण्डान्तं काण्डपञ्चकमेव वाल्मीकिकृत मन्यते । लङ्काकाण्डस्यान्ते ग्रन्थः समाप्त इव प्रतिभाति । उत्तर काण्डवणितार्थानां सूचना च प्राक्तनकाण्डेषु नायातीति ' जैकोबी ' महोदयस्य कथाकथने मूलम् । अथापि उत्तरकाण्ड तृतीय ई ० पू ० शतकात् प्राक्तनमेव सम्भवति , यतोऽत्रत्य एकः श्लोकः ई ० पू ० तृतीयशतकनिमिते दशरथजातके पालिभाषयानूदितरूपेण प्राप्यते । 
रामायणस्य अनेकानि संस्करणानि प्राप्यन्ये - प्रचरितम् । 
१. बम्बईतः प्रकाशितं देवनागरी संस्करणम् , उत्तरभारते विशेषतः 
२. वङ्गीयं संस्करणम् , लोकनाथीटीकासहितम् , जी ० गोरेसियो - महाशयः | संस्करणमिदं प्रकाशितवान् , इटालियनभाषायां रामायणस्यानुवादं च कृतवान् । समयः - १८४८-१८६७ ई ० ।
 ३ काश्मीर संस्करणम् , डी ० ए ० वी ० कालेज - लाहौरस्यानुसन्धानकार्या लयात् प्रकाशितम् । अस्य प्रचारो भारतस्य पश्चिमोत्तरभागे विशिष्य वर्तते ।
 ३ दक्षिणभारतसंस्करणम् , इदं संस्करणं देवनागरीसंस्करणेन सह मिलतीव ।
     प्रथमसंस्करणत्रये पर्याप्तभेदो लभ्यते , तत्र कतम संस्करण मूलरामायणा नुकूलमिति कथयितुं न शक्यते । 

रामायणे रसः :-

काव्यानामादशंभूतं रामायणम् कवीनामादर्शभूतश्च वाल्मीकिरिति कथनं सत्यादनपेतम् । यदि वाल्मीकि भविष्यत्तदा कवयः कीदृशा भवन्तोति निर्णयो दुष्करोऽस्थास्यदेवमेव रामायणाभावे काव्यस्वरूपमपि दुरवधारमस्थास्यत् । 
      कवयः कान्तदर्शिनो भवन्ति , ते यन्मनोरमं तत्त्वं पश्यन्ति , तदेव शब्दद्वारा लोकानुपदेष्टुं रञ्जयितुं च चित्रयन्ति । स्वानुभूतवस्तुजातस्य शब्दचित्रोप स्थापनमेव काव्यम् ।
     रामायणात् पूर्वमुपनिषदादौ यद्यपि पद्यान्यासन् परं तेषु लौकिकं छन्दो नासीत् , वाल्मीकिहि सर्वप्रथमं लौकिकं छन्दोऽवतारितवान् ।
      यावत् पर्यन्तं कवेः समक्षे वर्णनीयं वस्तु नागतं तावदयं मौनमादधी , यदेव क्रौञ्चवधं करुणरसं दृष्टवान् , तदैवाकस्मादेवास्य मुखात् काव्यप्रवाहो निर्गतः , तदस्य काव्ये करुण रस एव प्रधानत्वं भजते । रस एव काव्यास्यात्मा स च बाल्मीकेः काव्ये करुणएव संभवति । तथा चोक्तं तौतभट्टेन 
 ' दर्शनाद् वर्णनाच्चाथ रूढा लोके कविश्रुतिः । 
तथा हि दर्शने स्वच्छे नित्याप्यादिकवेर्मुनेः ।
 नोदिता कविता लोके यावज्जाता न वर्णना । ' 
  यावदसौ रस नानुभूतवान् तावद् रामायणकथां जानन्नपि तां न निबद्ध वान् । कवयो हि रसं बन्धुमध्यवस्यन्ति न कथामात्रम् ।
 रामायणे हि करुणो रसः स्वयमादिकविना सूचितः " श्लोकत्वमागत " इत्येवंवादिना । नियूंढश्च स एव सीताऽत्यन्तवियोगपर्यन्तमेव स्वप्रबन्धमुप रचयता । " इति ध्वन्यालोकः ।
 भवभूतिरपि एको रसः करुण एवेति ब्रुवाणः काव्ये करुणरसस्य प्राधान्यं स्वीकरोति । वाल्मीकिरपि स्वकाव्ये तथैव स्वीकृतवान्स्यादिति नाश्चर्यजनकम् । 
       रामसीतयोनिमलचरित्रता वाल्मीकेः कवित्वस्य चूडान्तं निदर्शनम् । रामस्य चरित्रं कविनाऽतिसावधानतया चित्रितम् । रामस्य महात्मत्वमनेन श्लोकेन प्रकाश्यते --
' कञ्चिदुपकारेण कृतेनैकेन तुष्यति । 
न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥ ' ( २।१ । ११ ) 
रामस्यावन्ध्याभिलाषा बोधयितुमिदमेकं पद्यमेव पर्याप्तम्--
 ' नास्य क्रोधः प्रसादो वा निरर्थोऽस्ति कदाचन ।
 हन्त्येष नियमाद् बन्ध्यानवध्येषु न कुप्यति ॥ ' 
    रामस्य सीताविषयकानुराग एव न रावणवधं प्रयोजितवान् , अपि तु कर्तव्यबुद्धिरेव तथा कारितवतो--
 ' स्त्री प्रणष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः ।
 पत्नी नष्टेति शोकेन प्रियेति मदनेन च ।। '
स्त्रीसामान्यकृतं दयालुत्वं , स्वाश्रितपोडेत्यक्रूरत्वं , पत्नीति शोकः , प्रियेति कामश्चेति सर्व संभूयैव रावणवधप्रयोजकतामागमत् न केवलोऽनुरागः । तथा सति तदीयं महत्त्वं किञ्चिदपकृष्येत ।
 लक्ष्मणे शक्त्याहते सति तदुद्गारा रामस्य भ्रातृप्रेम व्यञ्जन्ति -
 ' देशे देशे कलत्राणि देशे देशे च बान्धवाः ।
 तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥ ' 
   रामस्य महत्त्वं तदाऽतीव स्फुटतां गच्छति यदाऽसौ हतस्य रावणस्यसंस्काराय स्वाश्रितान् प्रेरयति  
' मरणान्तानि वैराणि निवृत्तं नः प्रयोजनम् । 
क्रियतामस्य संस्कारो ममाप्येष यथा तव ।। ' 
रामायणस्य कविताशैली 
     सर्वप्रथमं रामायणं काव्यं वर्तते तदन्तरमेव धर्मग्रन्थ इतिहासोऽन्यद्वा किश्चिदिति वस्तुतत्त्वं कविना कदापि न विस्मृतमत एव चासौ सर्वत्र कवित्वं व्यञ्जयितुमचेष्टत । 
   हेमन्तवर्णने काव्यच्छटा दृश्यताम् --
' सेवमाने दुर्ट सूर्ये दिशमन्तकसे विताम् । 
विहीनतिलकैब स्त्री नोत्तरा दिक् प्रकाशते ।। 
प्रकृत्या हिमकोशाक्यो दूरसूर्यश्च साम्प्रतम् । 
यथार्थनामा सुव्यक्तं हिमवान् हिमवान् गिरिः ।। 
रविसङ्कान्तसौभाग्यस्तुपारावृतमण्डलः ।
 निश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।। ' 
रावणेन बहुशः प्रार्थ्यमाना सीता यदाह तदतिरमणीयं काव्यमिति निदश्यते--
 ' नाहं शक्या त्वया स्पष्टुमादित्यस्य प्रभा यथा ।
 सिंहस्य खादतो मांसं मुखादादातुमिच्छसि ।। 
यो रामस्य प्रियां भार्या बलात्त्वं हर्तुमिच्छसि ।
 त्वं क्षुरं जिह्वया लेक्षि सूच्या स्पृशसि लोचने ।।
 यो रामस्य त्रियां भार्या पापबुद्धधा निरीक्षसे । ' 
अशोकवाटिकास्थायाः सीतायाः स्वरूपम्पमाभिः प्रकाशितं यथा --
' अभूतेनापवादेन कीति निपतितामिव । 
आम्नायानामयोगेन विद्या प्रशिथिलामिव ।। 
सन्नामिव महाकीति श्रद्धामिव विमानिताम् । 
पूजामिव परीक्षीणामाशा प्रतिहतामिव ।।'
कविताया लोकहितमुद्देश्यं स्यादिति वाल्मीकिना कदापि न विस्मृतम् । अत एव चरित्रसृष्टौ वर्णने वा सर्वत्र कविरुच्चमादर्श विचारं च व्यञ्जितवान् । 
' कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ।
 एति जीवन्तमानन्दो नरं वर्षशतादपि ।। ' 
ईदृशा उपदेशाः काव्यस्य महत्त्वं वर्धयन्ति ।
      एभिरेव साहित्यगुणैर्वाल्मीकिर्भारतीयकाव्यधाराया हिमवान् मन्यते । 
' कूजन्तं राम रमेति मधुरं मधुराक्षरम् ।
 आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ ' 

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.