मृदपि च चन्दनम् संस्कृत गीत :-
मृदपि च चन्दनमस्मिन् :-
मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्राम : सिद्धवनम् ।
यत्र च बाला देवीस्वरूपा बालाः सर्वे श्रीरामाः ।।
हरिमन्दिरमिदमखिलशरीरम्
धनशक्ती जनसेवायै
यत्र च क्रीडायै वनराजः
धेनुर्माता परमशिवा ॥
नित्यं प्रातः शिवगुणगानं
दीपनुतिः खलु शत्रुपरा ॥ ।। मृदपि ॥
भाग्यविधायि निजार्जितकर्म
यत्र श्रमः श्रियमर्जयति ।
त्यागधनानां तपोनिधीनां
गाथां गायति कविवाणी
गङ्गाजलमिव नित्यनिर्मलं
ज्ञानं शंसति यतिवाणी ॥ ।। मृदपि ।।
यत्र हि नैव स्वदेहविमोहः
युद्धरतानां वीराणाम् ।
यत्र हि कृषक : कार्यरत :
सन् पश्यति जीवनसाफल्यम्
जीवनलक्ष्यं न हि धनपदवी
यत्र च परशिवपदसेवा ।। ।। मृदपि ।।
- श्री जनार्दन हेगडे
चिरनवीना संस्कृता एषा
चिरनवीना संस्कृता एषा , गीर्वाणभाषा
चिरनवीना संस्कृता एषा ।।
महतो भूतस्य निःश्वसितम्
अस्ति यस्याम् , अतिपुरातन - वेदसाहित्यम्
शास्त्रपूरैः स्मृतिविचारैः
वरकवीनां काव्यसारैः
चित्रिता मञ्जुला मञ्जूषा , मञ्जुला भाषा ॥ चिरनवीना ।। वाल्मीकि - व्यास - मुनिरचितं ,
रामायणं महाकाव्यं महाभारतं
क्लैब्यकिल्बिष - कलित - पार्थं
कार्यविषये योजयन्ती
अस्ति यस्यां भगवती गीता , भगवता कथिता ॥ चिरनवीना ।।
मातृभाषा मातृभाषाणाम् , भवितुमर्हा
राष्ट्रभाषा भारतीयानाम् ,
भवतु भाषाद्वेषनाशः
सर्वथा उद्घोषयामः
भारतीया भारती एषा , अनुपमा सरसा ॥ चिरनवीना ।।
-श्री नारायणभट्टः
धीवरगानम् :-
नायकः - आयाहि रेऽऽ ! आयाहि रेऽऽ ! आयाहि रेऽऽ !
विहायसि सराग - रश्मि - चन्द्रमाः
तनोति सान्द्र - रोचि - मञ्जु - चन्द्रिकाः
सिन्धुरावघोषिता : रोदसीकन्दराः
यान्तु यानपात्रचालकाः सधीवरा : ॥आयाहि ।।
अनुयायिन : - याहि रे ! याहि रे ! याहि रे ! याहि रे ! याऽऽहि ।।
नायकः- चन्द्रहासमज्जिता तामसी प्रिया
सर्व - देह - कान्ति - पुञ्ज - मञ्जु - वल्गना ।
निश्चला विभासते तारलोचना
यान्तु यानपात्रचालकाः सधीवराः ॥ आयाहि ।।
अनुयायिन : - याहि रे ! याहि रे ! याहि रे ! याहि रे ! याऽऽहि ॥
नायक : - सागरेण चुम्बिता चन्द्रिका मुदा
राजते विलास - हास - लास्य - चित्रिता
रागिणीव भासते रागरञ्जिता
यान्तु यानपात्रचालका : सधीवराः ।। आयाहि ॥
अनुयायिनः - याहि रे ! याहि रे ! याहि रे ! याहि रे !
याऽऽहि ॥
- श्री परीक्षित् शर्मा
सादरं समीहताम् :-
सादरं समीहताम् वन्दना विधीयताम्
श्रद्धया स्वमातृभू - समर्चना विधीयताम् ।
आपदो भवन्तु वा , विद्युतो लसन्तु वा
आयुधानि भूरिशोऽपि मस्तके पतन्तु वा
धीरता न हीयतां , वीरता विधीयतां
निर्भयेन चेतसा पदं पुरो निधीयताम् ।। ।। सादरं ।।
प्राणदायिनी इयं त्राणदायिनी इयं
शक्तिमुक्तिभक्तिदा सुधाप्रदायिनी इयम्
एतदीयवन्दने सेवनेऽभिनन्दने
साभिमानमात्मनो जीवनं प्रदीयताम् ।। ।। सादरं ।।
-श्री वासुदेव द्विवेदी शास्त्री