संस्कृत भाषा का महत्व और इतिहास :-
संस्कृतभाषा देवभाषा कही जाती है । संस्कृत भाषा मैं मानव संस्कृति का इतिहास सुरक्षित है । और यह भाषा अन्य भाषाओं से प्रकार ओर विस्तार मैं समृद्ध है । सुंदरता , मधुरता , विचारो की पवित्रता मैं उत्तम है । संस्कृत भाषा अमर भाषा है क्योंकि मानव इतिहास का प्रमुख भाग इस भाषा के साथ हैं और प्राचीन सभी ग्रंथ , शास्त्र आदि इसी भाषामें निहित है । रामायण , महाभारत आदि लौकिक धर्मग्रंथ भी इसी भाषामे है ।
भाषा विज्ञानिको के मत से आर्य भाषा, ओर सेमेटिक भाषा इन दोनों भाषा उपयोग कर्ताओ के द्वारा सभ्यता एवम् संस्कृति की रचना हुई है । आर्य भाषा भी पाश्चात्य ओर पौरस्त्य भेद से दो प्रकार की है । यहा पाश्चात्य भेद मैं युरोपदेशिय प्राचीन और आधुनिक ग्रीक-लेटिन-फ्रेंच-जर्मन-इंग्लिश आदि भाषाओ का समावेशन होता है । और आर्य भाषा के पौरस्त्य भेद मैं ईरानी ओर संस्कृत भाषा आती है ।
संस्कृत शब्द की व्युत्पत्ति :-
" सम्+कृ+क्त "= "संस्कृतम्"
ईस प्रकार से होती है। संस्कृत भाषा के दो रूप है 1 . लौकिक ,ओर 2. वैदिक । महाभारत के समय से पहले वैदिक भाषा और उसके बाद के समय मैं लौकिक भाषा के रूप में । लौकिक ओर वैदिक भाषा का भेद इस प्रकार है ---
लोके - वेदे-
देवैः देवेभिः
देवाः देवासः
विश्वानि विश्वा
परमे व्योमनि। परमेव्योमन्
तनुम् तन्वम् वा तनुवम्
युष्मभ्यम् अस्मभ्यम् युष्मे अस्मे
तन्मः। तन्मसि
शृणुत शृणोति
जीविसुम जीवसे
पातुम् पिबध्ये
गत्वा गत्वाय
पीत्वा पीत्वो
तारय ( लोट् ) तारिषत् ( लेट् )
किन्तु केचन विद्वान मानते है कि पहले भी संस्कृत लोक व्यवहार की भाषा ही थी समय बितने पर क्रमशः संस्कृत भाषा का व्यवहारिक प्रचलन संकुचित हुआ और शिष्ट लोग ही संस्कृत भाषा बोलने लगे ।
संस्कृत भाषा बहु विशाल साहित्य युक्त भाषा है , इसके महत्व को प्रतिपादित करने के लिए उदाहरण स्वरूप प्रमाण प्रस्तुत करता हु ।
संस्कृतभाषा महत्व के प्रमाण :-
- संस्कृतसाहित्य न केवल भारतीय जनता का अपि तु चीन , कोरिया, जापान, लंका, मलय द्वीप तक विस्तृत है । इसका प्रभाव इन देसो के इतिहास के साथ जुड़ा है और यह इतिहास विद के लिए स्वाध्याय का विषय बना हुआ है ।
- द्रविड भाषा परिवार को छोड़कर अन्य सभी भारतीय भाषाओ ओर यूरोपियन भाषाओ के साथ येन केन प्रकारेण संबंधित है और सभीके मत से इन सभी भाषाओं में ज्येष्ठ माता समान है ।
- धर्मविज्ञान आदि संस्कृत भाषा से परिचित होते है।
- भारत मे न केवल राजनीति, आयुर्वेद, गणितफलितज्योतिष, अंकगणित, ज्यामिति परंतु तंत्र, मंत्र, कला आदि बहोत कुछ साहित्य शिखाया जाता है और यह सब संस्कृत भाषामे निहित है।
- सूत्र साहित्य अन्य किसीभी भाषामे नही मिलता यह संस्कृत भाषा का ही महत्व है कि केवल चंद कुछ शब्दों में विशाल ओर गुढ अर्थ को सूत्र रूप में कह देना, यह संस्कृत भाषामे ही संभव है
इस तरह से संस्कृत भाषा का बहोत ही महत्व है जिसका मैं जितना भी वर्णन कर दु वह कम ही होगा । आगे संस्कृत भाषा मे संस्कृत का सम्पूर्ण इतिहास लिख रहा हु...
संस्कृत भाषायाः महत्वं :-
संस्कृतभाषा देवभाषा कथ्यते । संस्कृतभाषायां मानवसंस्कृतेरितिहासः सुरक्षितोऽस्ति । इयं संस्कृतभाषाऽन्याभ्यः सर्वाभ्योऽपि भाषाभ्यः प्रकारे विस्तारे च महती , सौन्दर्ये विचारपवित्रतायां चान्यूना विद्यते । सत्यपि मन्दतमे विकासक्रमे क्रमोपनते च बाधासमुदये इतिहासारम्भ समयत एवं संस्कृतभाषा विश्वस्यान्यासां भाषाणां समतां कुर्वती समायाति । अन्यामिविश्वस्य भाषा भिरस्याः प्रतिस्पर्धा गुणगणकृतेव । भारतेजायन्त विविधानि सामाजिकपरि वर्तनानि , धार्मिकाण्युत्यानपतनानि , वैदेशिकानामाक्रमणानि च , तथापि संस्कृतं सर्वदा समभावेन सर्वत्र व्यवहारवत्मन्यवर्तत ।
संस्कृतं सर्वदा जीवितभाषा भावमभजत यतोऽत्रैव पूर्वतनाः सर्वेऽपि ग्रन्था अलिख्यन्त । आस्तां पुराणी कथा , संस्कृतस्य सम्प्रत्यपि जीवितभाषात्वे प्रमाणमिदं यदधुनाऽपि संस्काराः प्रायोऽधिकसंख्यकभारतीयानां संस्कृत एव सम्पाद्यन्ते , महाभारतप्रभृतयो धर्मग्रन्था अघीयन्ते , स्वीया विचारा लोकविशेषेः संस्कृते प्रकाश्यन्ते , कविता विरच्यन्ते च ।
भाषाविज्ञानपण्डितानां मते आर्यभाषा सेमिटिकभाषा चेति द्वयोरेव भाषयोर्व्यवहर्तारः सभ्यता संस्कृतिश्च सृष्टवन्तः । आर्यभाषाऽपि पाश्चात्त्य पौरस्त्यभेदेन द्विविधा । अस्मिन्नार्यभाषायाः पाश्चात्त्यप्रभेदे यूरोपदेशस्य प्राचीना आधुनिक्यश्च ग्रीक - लैटिन - फेश - जर्मन - इङ्गलिशप्रभृतयो भाषाः समायान्ति । आर्यभाषायाः पौरस्त्यप्रभेदे ईरानीभाषा संस्कृतभाषा च समागच्छतः । ईरानीभाषा ' जेन्दअवेस्ता ' नाम्ना व्यवह्रियते यत्र पारसीकानां धर्मग्रन्था निबद्धाः , संस्कृतभाषायां भारतीयानां धर्मग्रन्था निबद्धा इति प्रतीतमेव ।
संस्कृत शब्दस्य व्युत्पत्ति :-
' संस्कृतम् ' इति पदं सम् + कृ + क्त इति व्युत्पादितम् । भाषारूपार्थेऽस्य शब्दस्य प्रयोगः प्रथमतो वाल्मीकिरामायणे एव प्राप्यते......
यदि वाचं प्रदास्यामि
द्विजातिरिव संस्कृताम् ।
रावणं मन्यमाना मां
सीता भीता भविष्यति ।।
ततः पूर्व तत्रार्थे भाषाशब्द एव व्यवह्रियते स्म । यास्केन पाणिनिना चापि लोकव्यवहृतभाषार्थे भाषाशब्द एव व्यवहृतः ......
' भाषायामन्वध्यायञ्च ' निरुक्त -१।४
' भाषायां सदवसभुवः ' पा ० सू ० ३।२।१०८
' प्रथमायाश्च द्विवचने भाषायाम् ' पा ० सू ० ७।२।८८
मन्ये , यदा प्राकृतभाषायाः प्रचारो बहुलीभूतस्तदा ततो भेदं बोधयितुं लोके व्यवहृतपूर्वा तदानीं क्षीयमाणप्रचारा चेयं भाषा विद्वद्भिः संस्कृतपदेन व्यवहृता जाता ।
संस्कृतभाषाया रूपद्वयं , लौकिकं वैदिकञ्च । महाभारतकालात् पूर्वतनभाषा वैदिकभाषा , ततः परस्तात् प्रचारिता च लौकिकभाषा ।
लौकिकभाषाऽपेक्षया वैदिकभाषाया भेदं गमयितुं निम्नलिखितप्रयोगावलिः क्षमा
लोके - वेदे-
देवैः देवेभिः
देवाः देवासः
विश्वानि विश्वा
परमे व्योमनि। परमेव्योमन्
तनुम् तन्वम् वा तनुवम्
युष्मभ्यम् अस्मभ्यम् युष्मे अस्मे
तन्मः। तन्मसि
शृणुत शृणोति
जीविसुम जीवसे
पातुम् पिबध्ये
गत्वा गत्वाय
पीत्वा पीत्वो
तारय ( लोट् ) तारिषत् ( लेट् )
तदेवं लौकिकी वैदिकी च संस्कृतभाषा परिचेतुं शक्यते । उदाहरणार्थमत्र वैदिकी भाषा प्रदश्यते ..........
' मानो वधाय हन्तवे जिहोडानस्यरीरधः।
माहृणानस्य मन्यवे ।।
' कदा क्षत्रश्रियं
नरमावरुणं करामहे । मृडीकायोरुचक्षसम् ॥
' ' अतो विश्वान्यद्भुता
चिकित्वाँ अभिपश्यति ।
कृतानि या च का ॥
' ' सनो विश्वाहा सुक्रतु
रादित्यः सुपथाकरत् ।
प्रण आयूंषि तारिषत् ॥
' इमं मे वरुण श्रुधी
हवमद्या च मृडय ।
त्वामवस्युराचके ।।
' इदं निदर्शनं वैदिकयुगस्य प्रथमामवस्थामाथयन्ती
भाषां प्रकाशयति ।
ब्राह्मणग्रन्था मध्यमामवस्थामाश्रयन्तींं भाषा प्रकाशयन्ति , तत्र कतिचन प्रयोगाः संहितानुकूलाः कलिचन च लोकभाषानुकूलाः ।
संस्कृतभाषायाः स्वरूपे विचार्यमाणे इदं प्रागवधार्य यदीयं लोकभाषा व्यवहारभाषा वा आसीदथवा केवलशास्त्रभाषा एव अवर्तत ? अत्र मतद्वयम् , केचन कथयन्ति यत् प्राकृतमेव लोकभाषाऽऽसीत् , संस्कृतं शास्त्रभाषा साहित्यिक भाषा वाऽवर्तत , व्यवहारभाषा नासीत् ।
अपरे पुनः संस्कृतभाषैव पुरा लोकभाषा आसीदिति समर्थयन्ते , तेषामय माशयः - पुराकाले भारतीया अनया संस्कृतभाषायैव स्वं मनोभावं प्रकटयन्ति स्म , क्रमशः शनैः शनैः प्राकृतोदये जाते संस्कृतभाषाया व्यवहारक्षेत्र सङ्कोचमापत् , परन्तस्यामपि दशायां शिष्टाः संस्कृतभाषामेव व्यवहरन्ति स्म । अत एव रूपकेषु शिष्टानां संस्कृत भाषा तदन्यपात्राणाञ्च प्राकृतम् ।
संस्कृतस्य व्यवहारभाषात्वे निम्नलिखिता युक्तय उपस्थाप्यन्ते.....
- वैदिकसंस्कृतभाषातो भिन्ना भाषा , तात्कालिकजनताया भाषा , ' भाषा ' पदेन निरुक्तग्रन्थे यास्केन व्यवहृता । तेन हि वैदिककृदन्तशब्दानां सिद्धिः लोकप्रचलितधातुभ्यः प्रदर्शिता । ' भाषिकेभ्यो धातुभ्यो नैगमाः कृतो भाष्यन्ते ' इति हि तदुक्तिः । तस्मिन् समये भिन्नभिन्नप्रान्तेषु संस्कृतशब्दानां यानि रूपान्तराणि प्राप्यन्ते स्म , ये विशिष्टप्रयोगा भवन्ति स्म , तेषां समेषा मुल्लेखोऽपि यास्केन कृतः , यथा - " - ' शवतिर्गतिकर्मा कम्बोजेष्वेव भाषितो भवति , विकारमेव त्वेनमार्या भाषन्ते शव इति ' दातिलवनकर्मा प्राच्येषु प्रयुज्यते , दात्रमुदीच्येषु " एभिः साक्षिभिर्यास्कसमये संस्कृतस्य भाषितभाषात्वं सिद्धयति । यास्कस्य समयो ६०० ई ० पू ० कथ्यते ।
- पाणिनिरपि संस्कृतस्य व्यावहारिक स्वरूपं भाषापदेनैव व्यवहृतवान् , किञ्च दूराद्धूते प्लुतमनुशासता पाणिनिना संस्कृतस्य भाषित - भाषात्वं स्पष्टमुक्तम् , यदि संस्कृतं भाषितभाषा नाभविष्यत्तदा दूरात्सम्बोधनावसरस्यैवाभावात्तत्र प्लुतत्वानुशासनमनर्थकं स्यात् । अपि च पाणिनिः भाषितभाषायामेव व्यवहार्तुं योग्यान् ' दण्डादण्डि ' , ' उदरपूरं भुङ्क्ते ' इत्यादीन् शब्दाननुशशास , तदप्यस्याः संस्कृतभाषाया भाषितभाषात्वं गमयति ।
- पाणिनेः परतो जातः कात्यायनः लोके व्यवहृतान् नवान् शब्दान् दृष्ट्वा तेषां सिद्धये नियमानुक्तवान् । अतः प्रतीयते यत्तदा संस्कृतं व्यवहार भाषासीत् ।
- महाभाष्यकृता पतञ्जलिना देशभेदेन क्रियाभेदमाख्याय संस्कृतस्य भाषितभाषात्वमुच्यते स्म , तथाहि - हम्मतिः सुराष्ट्र , प्राच्येषु रंहतिः , आर्यस्तु गच्छतिः प्रयुज्यत इति तेनोक्तम् । महाभाष्यकृता - वैयाकरणरथवाहकयोरेको रुचिरः संवाद उक्तः – ' एवं हि रश्चिद्वैयाकरण आह - कोऽस्य रथस्य प्रवेता ? सूत आह - अहमायुष्मानस्य रथस्य प्राजिता । वैयाकरण आह - अपशब्द इति । सूत आह - प्राप्तिज्ञो देवानांप्रियो न तु इष्टिज्ञः । इष्यत एतद्रूपमिति । वैयाकरण आह - अहो खल्वनेन दुरुक्तेन बाध्यामहे इति । सूत आह -- न खलु वेञः सूतः , सुवतेरेव सूतः , यदि सुवतेः कुत्सा प्रयोक्तव्या , दुःसूतेनेति वक्तव्यम् ॥ २।४।५६ सूत्रभाष्ये । अतो यां वाचं रथकवाहकोऽपि व्यवहरति सा भाषितभाषा मन्तव्यैव ।
- भोजस्य समये विक्रमादित्यस्य समये च संस्कृतस्य प्रचुरप्रचार आसीत् । एभिः प्रमाणैः संस्कृतस्य भाषितभाषात्वं सिद्धम् । यद्यपि सम्प्रति साहित्यशब्दो वाङ्मयमित्यर्थे प्रयुज्यते यत्रार्थे ' लिटरेचर ' ( Literature ) शब्दो वैदेशिकः प्रयुज्यते , परन्तु संस्कृतभाषायां साहित्यशब्दस्य ' शब्दार्थों ' इत्यर्थः , सहितयोर्भावः साहित्यम् - सहितयोः कयोः ? शब्दार्थयोः , तच्च साहित्यं क्वचिदन्यत्र शास्त्र न भवति किन्तु काव्यशास्त्र एव । तत्र हि शब्दः अर्थश्च इत्युभयं मिलितं सदेव कमप्यालादं जनयति , न केवलः शब्दो नापि वा केवलोऽर्थः , तथा चोक्तमपि - ' न च काव्ये शास्त्रादिवत् अर्थप्रतीत्यर्थ शब्दमात्रं प्रयुज्यते , सहितयोः शब्दार्थयोस्तत्र प्रयोगात् । साहित्यं तुल्यकक्षत्वेन अन्यूनानतिरिक्तवृत्तित्वम् ' इति व्यक्तिविवेकटीका । एतेन साहित्यशब्दस्य काव्यस्वरूपमर्थ इति सङ्कोचः कृतो वेद्यः । अपि च राजशेखरेण ' पञ्चमी साहित्यविद्येति यायावरीयः ' इति काव्यमीमांसायामुक्तम् , आधुनिकप्रथानुसारेण तु सर्वासासामपि विद्यानां साहित्यपदाभिलप्यत्वे काव्यमात्रपरकत्वेनात्र साहित्य शब्दप्रयोगोऽयुक्तः स्यात् । किञ्चविह्लणेन -
' साहित्यपाथोनिधिमन्थनोत्थं काव्यामृतं रक्षत हे कवीन्द्राः।
यदस्य दैत्या इव लुण्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति ।। '
इति स्वीये विक्रमाङ्कदेवचरितनामके महाकाव्ये प्रोक्तम् , तदपि साहित्यशब्दस्य काव्यार्थतां व्यञ्जयति ।
' साहित्यदर्पणः ' इति काव्यलक्षणस्वरूपादिबोधकग्रन्थस्य नामकरणमपि विद्यान्तरव्यावृत्तकाव्यमात्रवाचकस्य साहित्यशब्दस्य प्रयोग प्रमापयति ।
तदित्थं साहित्यशब्दोऽत्र काव्यमात्रपरक इति प्रतिपत्तव्यम् ।
अतिप्राचीनमिदं संस्कृतसाहित्यम् , मा भूवन्ननादयो वेदाः , परं तेऽति प्राचीना इत्यकामेनापि स्वीकर्त्तव्यमेव । लोकमान्यतिलकमहोदयो यद् गणिता धारेण वेदानां ६००० ई ० पू ० निर्मितत्वं ततोऽपि वा पूर्वकालिकत्वं निर्धारित वाँँस्तत्र नास्ति सन्देहस्थावकाशः । वेदकालदारभ्य प्रवहन्तीय संस्कृतसाहित्य धाराऽबाधगत्याऽधुनावधि समागच्छति । अन्यभाषासाहित्येतिहासानां विलोकनेन प्रतीयते यत्तानि साहित्यानि परिस्थितावनुकूलायामुदयन्ते , कियन्तं कालं यावदग्रेसरन्ति , परन्तु परिस्थितिवैषम्ये प्रवाहः शिथिलीभवति , स चायं दोषः संस्कृतसाहित्यं न स्पृशति । वेदानां रचनायां जातायां तद्व्याख्यानभूता ब्राह्मण ग्रन्था अरच्यन्त , ब्राह्मणग्रन्थेभ्यः पश्चादारण्यकानि , तदनन्तरमुपनिषदः , ततो रामायणं महाभारत पुराणानि च । सेयं परम्परा कियता स्वरूपविपर्ययेण सह काव्य - नाटक - गद्य - चम्पू - कथा - स्मृति - तन्त्रादिनिर्माणविधया चिरमन्वर्त्तत । सेयं संस्कृत साहित्यस्याविच्छिन्ना परम्परा न्यूनान्न्यूनमष्टसहस्रसंवत्सरेभ्यः समाया तीति नितान्तसत्यं वचः । नास्ति विश्वस्मिन्नस्मिन् किमपि साहित्यमन्यद्यद विच्छिन्नधारमियन्ति दिनानि जीवितं समर्थ्येत ।
अतिव्यापकं च संस्कृतसाहित्यम् । इदं सर्वाङ्गपूर्ण यतोऽत्र मानवजीवनो द्देश्यभूताः धर्मार्थकाममोक्षाख्या
श्चत्वारोऽपि पुरुषार्था विवेचिताः । धर्मशास्त्रं प्रथम एव , अर्थशास्त्रमपि कौटिल्यादिप्रणीतमत्र न कुतोऽपि हीयते । कामशास्त्रमपि परमप्रसिद्धमत्रत्यम् , मोक्षशास्त्रस्यापि परमप्रकृष्टता सर्वसम्मता । एवं संस्कृते मानवजीवनोपयोगिनः सर्वेऽपि विषयाः साधु विवेचिता इति कथनं समुचितमेव । अत्र प्रेयःशास्त्रं श्रेयःशास्त्रं चोभयं समभावेन समेधितम् , अत एव चात्र भोगमोक्षयोरुभयोः सत्तया सकलसाहित्यापेक्षया विशिष्टता विद्यते ।
अतिमहत्त्वपूर्णमपीदं संस्कृतसाहित्यम् । इदं प्राचीनतायां सर्वातिशायीति पूर्वमावेदितमेव । अस्य व्यापकत्वं परिमाणमहत्त्वञ्चापि प्रसिद्धम् । एतन्महत्त्वे
प्रमाणानि यथा.....
( क ) संस्कृतसाहित्यं न केवनं भारतीयजनताया अपि तु चीन - जापान कोरिया - प्रभृतिवासिनामपि लोकानामितिवृत्तं लङ्का - मलयद्वीपादिवासिनाञ्च
इतिवृत्तं सुरक्षितरूपेण गोपायति । एतस्य प्रभावस्तु रुष्कादिदेशेतिहासेष्वपि पतित इतीतिहासविदां कृतेऽत्र महत स्वाध्यायसाधनम् ।
( ख ) द्रविडभाषापरिवारं विहाय सर्वा भारतीयभाषाः प्राच्यसंस्कृत भाषायाम् यथा , तथा सर्वा अपि यूरोपीयभाषाः प्रतीच्यभाषायां सम्बद्धा भवन्ति , तेनोभयविधभाषासमुदयः भारोपीयभाषावर्ग इत्याख्यायते , भारोपीयभाषावर्ग संस्कृतभाषा सर्वज्येष्ठेति सर्वसम्मतम् ।
( ग ) धर्मविज्ञानं तदुपचयश्च यथा संस्कृतभाषाश्रयेण परिचीयते न तथा भाषान्तराश्रयेण ।
( घ ) भारते वर्षे न केवलं राजनीतिः , आयुर्वेदः , गणितफलितज्योतिषे अङ्कगणितम् , ज्यामितिः , एतान्येव अपि तु तन्त्रम् , मन्त्रः , कामकला चापि साहित्यरूपेण शिक्ष्यते , तद्वैभवं संस्कृतस्यैव ।
( ड ) सूत्रसाहित्यं क्वापि परस्यां भाषायां न जातम् , इदमनन्यसाधारणं संस्कृतसाहित्यस्य महत्त्वम् ।
( च ) संस्कृतं न केवलं ब्राह्मणधर्मनामकं जातीयं ( National ) धर्म प्रतिष्ठापितवत् , अपि तु बौद्धधर्मनामकं सार्वभौमं धर्ममपि प्रकाशयामास ।
( छ ) मननशक्तिसमुद्भवानि नानादर्शनानि संस्कृते महत्त्वमानयन्ति ।
( ज ) यावत् संस्कृतसाहित्यं प्राप्यते , तावदेव रोम - यवनोभयसाहित्या- पेक्षया परिणाहेऽत्यधिकम् ।
आभिर्विशिष्टताभिः संस्कृतसाहित्यस्य महत्त्वं प्रतिष्ठितं विद्यते । नैतावदेव सांस्कृतिकदृष्ट्यापि संस्कृतभाषाया महत्त्वपूर्ण पदं लब्धव्यम् , भूखण्डं यदधुना ' हिन्द - चीन ' नाम्ना ख्यायते तत्पूर्वं शुद्धं ' हिन्द ' आसीत् , चतुर्दश शताब्दीपर्यन्त तत्सुवर्णद्वीपनामकमासीत् । विक्रमादित्यसमयाच्चतुर्दशशताब्दीपर्यन्तं तत्र भारतीयं साम्राज्यमासीत् , तदा तत्र संस्कृतमेव राजभाषाऽवर्तत । कम्बोज- देशो या स्मेरभाषा , यवद्वीपे च या कविभाषा सा भाषाद्वयी पूर्वमार्यावर्तीयवर्णमालायामेवालिख्यत । तदा तयोर्भाषयोः संस्कृतस्य तावान् प्रभावोऽवर्तत । यत् संस्कृतोपादानानि गृहीत्वैव तयो साहित्यसृष्टिः प्रारभत । नवद्वीपस्य कविभाषायां रामायणीयं महाभारतीयं चाख्यानमधुनाऽपि प्राप्यते । अधुनाऽपि यवद्वीपवासिनो भारतीया इव रामलीलादर्शनेनात्मानं विनोदयन्ति ।
बालोद्वीपस्य सभ्यता भारतीयसभ्यता , तत्रत्यो धर्मस्तन्त्रप्रधानः वैदिक मन्त्रोच्चारणं सम्प्रत्यपि विकृतरूपेण तत्र विद्यते ।
मङ्गोलियादेशेऽपि संस्कृतस्य प्रसार आसीत् । तत्रानेके संस्कृतग्रन्था लब्धाः महाभारताधाराणि तद्भाषानिबद्धानि बहूनि नाटकान्यपि तत्र प्रमापितं जायते । लब्धानि , तेषु हिडिम्बवध प्रधानम् । तदेवं संस्कृतस्य सांस्कृतिक महत्त्वं प्रमापितं जायते ।
विशुद्धकला दृष्ट्याऽपि संस्कृतसाहित्य-मतिमहत्त्वशालि , अत्र कालिदाससदृशः कविः , भवभूतितुल्यो नाटककारः , बाणभट्टसमो गद्यलेखकः , जयदेवसदृशो गीतप्रणेता चाजायत , यदीयाभिस्तत्तत्काव्यसृष्टिभिः शुद्धकलारूपेणापि विनोदितं विनोद्यते च भुवनम् ।
तुलनात्मकभाषाविज्ञानशास्त्रिणां कृते तु संस्कृतं जीवनमेवेति नितान्त महत्त्वशालि संस्कृतम् ।
संस्कृतभाषानिबद्धसाहित्यमात्रस्य विवेचनाय सौकर्य कालविभागेन सम्पाद्यते अत्र प्रथमः श्रुतिकालः कल्प्यताम् , यत्र संहिताब्राह्मणारण्यको-पनिषदोऽरच्यन्त । द्वितीयोऽपि स्मृतिकालनामा स्मर्यताम् , यत्र रामायण - महाभारतपुराणवेदाङ्गानि रचितानि । तृतीयः कालः सूत्रकालनाम्ना लौकिक - काव्योदयकालनाम्ना वा व्यवह्रियताम् , यत्र पाणिनिप्रणीतसूत्रसिद्धभाषाग्रन्थितानि काव्यानि जातानि । चतुर्थश्च शास्त्रकालनाम्नाऽभिधीयताम् , यत्र तानि तानि शास्त्राणि न्याय वेदान्तादीनि साहित्यशास्त्रं चाजायन्त ।
अत्र ग्रन्थे प्रधानतया तृतीय एव कालो मीमांसितः , परन्तु अवतरणरूपेण प्रसङ्गसङ्गत्यै प्रथमद्वितीयकालयोरपि कियती चर्चा कृता , उपसंहाररूपेण च चतुर्थोऽपि कालः स्पृष्ट इव ।