अश्वघोषः स्वर्णाक्षीपुत्रः पावस्य शिष्यश्च कथ्यते । स हि मगधराजाश्रित आसीत् । उत्तरभारतशासकः कनिष्को मगधाधीशम् आक्रमणेन नयित्वा राज्यस्य परिवत्तें वस्तुद्वयं दातुमादिष्टवान् -
१ . बुद्धस्य पात्रम्
१. अण्व घोषञ्च ।
राजा मगधानां पात्रं दातुमुद्यतोऽपि कविमश्वघोषं दातुं नैच्छत् । मन्त्रिणस्तं तथाऽवलोक्य चिन्तिता अजायन्त । राजा मन्त्रिणां बोधनाय उपायमेकं कृतवान् । स हि स्वाश्वशालास्थितेभ्योऽश्वेभ्यो दिनमेकं यावत् ग्रास प्रदानं न्यषेधत् । दिनान्तरे सर्वेषां हयानामने प्रासं प्रदाय अश्वघोषाय स्वस ङ्गीति कत्तुं प्रोक्तवान् अश्वघोषस्य सङ्गीतिस्तथा मधुराऽजायत यथा तदा कर्णनासक्ता अश्वा ग्रासभक्षणं विहाय तां सङ्गीतिमेव श्रोतुमैहन्त , तदा मन्त्रिणः कवेरश्वघोषस्य मूल्यमजानन् । तदवध्येवासौ तन्नाम्ना प्रथते स्म । वास्तविक च तन्नामालुप्यत् । अश्वघोषः कथञ्चित् कनिष्केण सह कश्मीरान गतस्तेन बह्वादृतश्च ।
कनिष्कसमकालिकतयाऽश्वघोषस्य समयः प्रथम ई ० पू ० स्थिरः । अश्वघोषस्य काव्यं चीनभाषायाम् ३८४-४१७ ई ० समयेऽनूदितम् । इत्सिङ्गो नाम चीनवासी यात्रो अश्वघोष महोपदेशकं नागार्जुनात् पूर्ववत्तिनवाह । अयं साकेतवासोति प्रसिद्धम् ।
बुद्धचरितं संस्कृतभाषामयं सप्तदशसर्गनिबद्धमेकं महाकाव्यं विद्यते । अत्र बुद्धस्य चरित्रमुपदेशांश्च कविरवर्णंयत् । चतुर्दशसर्गस्य मध्यादयं ग्रन्थः चीन भाषानुवादेन सह न संवदति । प्रायोऽयं ग्रन्थः चतुर्दशसर्गमध्यभागपर्यंन्त एव मिलति स्म , तदनन्तरभागो नश्यति स्म । पश्चादसौ केनचित् कविना निर्माय पूरितः ।
अष्टादशसर्गात्मकेऽत्र महाकाव्ये इक्ष्वाकुवंश्यस्य राज्ञो नन्दस्य धर्मपरिवर्त्त नम् सुन्दर्या सह तत्पाणिग्रहणं च वर्णयति कविः । बहोः कालात् पूर्व बुद्धाः ध्यानमाकर्षन्ति । काव्यमिदं नान्द्रियन्त । अत्र अन्ये बुद्धधर्मेश्वघोषेण ये तर्काः प्रदर्शितास्ते इमे द्वे अपि काव्ये बुद्धधर्मेण सह सम्बद्धे । अश्वघोषस्य रूपकमन्यत्र प्रकरणे निर्दर्शयिष्यते
अश्वघोषस्य साहित्यिक पाण्डित्यं बौद्धदर्शनज्ञानं चातीव गभीरमासीत् । स हि दार्शनिकमपि तथ्यं सरससरलशल्या समुपस्थापयति । अश्वघोषः पूर्व ब्राह्मण आसीदतो ब्राह्मणसाहित्यस्यापि गाढं ज्ञानं रक्षति स्म । तत्कालप्रच लितानां नीतिशास्त्रकौटिल्यार्थशास्त्रवैद्यकादीनां ज्ञानेन सह व्याकरणस्य विस्तृतं ज्ञानं तेन रक्ष्यते स्म । तदीयं बौद्धदर्शनज्ञानं तु नितान्तसबलमासीत् , असौ योगाचारमतस्यास्थापक आसीत् ।
'ऋतुव्यतीतः परिवर्तते पुनः क्षयं प्रयातः पुनरेति चन्द्रमाः ।गतं गतं नैव तु सन्निवत्तते जलं नदीनां च नृणां च यौवनम् ॥'
प्रसन्नपदवाक्यानां प्रयोगेण धार्मिकसन्देशानां काव्यतापादने कविरयं नितान्तनिपुण इति श्लोकेनाधोलिखितेन समर्थ्यते
' कृपणं बत यूथलालसो महतो व्याधभयाद्विनिःसृतः ।
प्रविविक्षति वागुरां मृगश्चपलो गीतरवेण वञ्चितः ॥ '
संन्यासी भूत्वा पुनर्गृहस्थताभिमुखं सुन्दरानन्द प्रतीदमुपदेशवाक्यम् ।