कुमारदास का सम्पूर्ण परिचय

कुमारदास का सम्पूर्ण परिचय हिंदी व संस्कृत में 

           कुमारदासस्य विषये एका कथा प्रथते । कुमारदासेन सह कालिदासस्य सख्यमासीत् । कालिदासो यदा कदा कुमारदासनिवासं सिंहलं भूषयति स्म । एकस्मिन् समये कालिदासे सिंहलस्थिते कुमारदासः स्वप्रेयस्यै कस्यचित् वेश्याये समस्यामेकां दत्तवान् – ' कमले कमलोत्पत्तिः श्रूयते न च दृश्यते ' इत्याकाराम् । उक्तवांश्च यत् अस्याः समस्यायाः पूरकं पारितोषकेण सत्करिष्ये इति । तदनन्तरमेव कालिदासोऽपि तस्या एव वेश्याया भवनं गतस्ता समस्यां सद्योऽपूरयत् ‘ बाले तव मुखाम्भोजे कथमिन्दीवरद्वयम् ' । 

कुमारदास का सम्पूर्ण परिचय


           द्रव्यलुब्धा सा गणिका कालिदासं घातयित्वा तच्छवं गुप्तं चकार , परदिने समस्यापूर्तिमादाय कुमार दासं राजानमुपससाद पारितोषिकं चार्थयामास । राजा सन्दिहानमानसो भूत्वा भयताडनादिना रहस्यं स्वीकारयामास । ज्ञातकालिदासावसानश्च तच्छवं प्राप्य तच्चितायामात्मनमाहुतीचकार ।

            कथयाऽनया कुमारदासस्य कालिदाससमकालिकत्वं सिद्धयति । माघेन जानकीहरणपद्यमनुकृतं , वामनेन तदुदाहृतमिति तदीयप्राचीनतायाः समर्थकं प्रमाणम् । कुमारदासः सिंहलस्य राजा कुमारमणेः पुत्रश्चासीत् । यदहरसौ 1 जन्मानहीत्तदहरेव तस्य पिता युद्धे हतः । पितृमरणानन्तरमसौ मातुलाभ्यां मेघाग्रबोधिभ्यां पालितः । मातुलकृतं पालनमसौ जानकीहरणे नाम्नि स्वकाव्ये विशतिसर्गे शेषभागे स्वयमुक्तवान् --

 
  ' विद्वानस्य कवेः पितार्यहृदयं धोमानितो मानितो 
लगुश्वर्यभुजः कुमारमणिरित्यासन्नयः सन्नयः । ' 
श्रीमेघोऽस्य कवेरसौ किल बृहद्धामातुलो मातुलो । ' 
' भ्राता तन्मातुरस्याः शशिधवलयशः कारणाना रणानां
 कत्तु पुत्राऽप्रबोधिजनशिरसि लसद्भासुराज्ञः सुराज्ञः । '
 ' आत्मापत्याविशेष पुपुषतुरहतप्रेमवान्तो मदान्तौ । ' 

        महावंशे यः कुमारधातुसेनः कित्तिसेनस्य पुत्र उक्तः सोऽस्मात् कवेः कुमार दासाभिन्नः पञ्चमशतकोत्पन्नश्च । कालिदासभाषातुलितभाषाकं काव्यमुत्पा दितवान् , कुमारदासस्तु कालिदाससमये एव स्वीकतुं युज्यते ।

 कुमारदासस्य जानकीहरणम् 

             जानकीहरणं चिरमप्राप्तमेवासीत् , केवलं - ' जानकीहरणं कर्तुं रघुवंशे स्थिते सति । कविः कुमारदासश्च रावणश्च यदि क्षमः ' इति स्तुतिपद्यमेव तत्सत्त्वमनु मापयति स्म । सिंहलभाषानुवादाघारेण राजसुन्दरः पञ्चदशसर्गान्तं जानकीहरण मुद्धृतवान् । नन्दर्गीकरमहाशयः हरप्रसादशास्त्रिमहाशयश्च ये संस्करणे प्रकाशितवन्तौ ते अपि क्रमशः १० , १४ सर्गानेव धारयतः । 
            षोडशः सर्गःबानेंटमहोदयेन पश्चात्सम्पादितो मुद्रितश्च लन्दन - नगरे सम्प्रति अन्येऽपि लेखाः प्राप्ता ये पुस्तकस्य स्वरूपद्वयमुपस्थापयन्ति । रामकृष्णकविना प्राप्ते लेखपुस्तके प्रकाशितपुस्तकेभ्योऽधिकाः श्लोकाः सन्ति । 
            जानकीहरणस्य प्रथमसगें दशरथवृत्तम् , द्वितीये रावणपराजितानामिन्द्रादि देवानां नागलोके विष्णुसमीपोपसदनम् , तृतीये ऋतुवर्णनम् , चतुर्थे पुत्रेष्टियागो रामस् । जन्म शिक्षाग्रहणं , वसिष्ठाज्ञया राक्षसवाद्योगश्च , पञ्चमे वसिष्ठा विष्ठिततपोवनवर्णनम् , षष्ठे मिथिलाप्रस्थानम् , सप्तमे विवाहः , अष्टमे राम सीतयोमधूयामिनीवर्णनम् , नवमे वरवध्वोः , अयोध्याप्रत्यावर्त्तनम् , दशमे रामवन वासः भरतकृतं तत्प्रार्थनं , सोताहरणञ्च , एकादशे गरुडरावणयोयुद्धं गरुणवधः सुग्रीवसख्यादिकज , द्वादशे शरद्वर्णनम् , त्रयोदशे सीतावियोगे रामस्य विलपितम् , चतुर्दशे सेतुबन्धनम् , पञ्चदशे रामेण रावणं प्रति सन्देशप्रेषणञ्च । शेषभागे रामायणकथैवानुसृता । 
            वर्णनादिषु कुमारदासः कालिदासमनुहरति । जल्हणः कुमारदासं रामाश्रय काव्यकर्तषु द्वितीयं ब्रवीति । कालिदासमतिरिच्य सर्वोत्कृष्टरामाश्रयकाव्यप्रणेता कुमारदास इति तदाशयः । 

कुमारदासस्य भाषाशैली 

            सर्वात्मना कालिदासमनुहरतः कुमारदासस्य भाषाऽपि कालिदासानुकारिणी सरसा सरला च । कतिचनोदाहरणानि प्रदीयन्ते --
' स्त्रियो न पुंसामुदयस्य कारणं त एव तद्धामविभूतिहेतवः । 
तडिद्वियुक्तोऽपि घनः प्रजम्भते विना न मेघ विलसन्ति विद्युतः ॥ ' 
' उभे वक्षसि वश्यानां तिष्ठतो रक्तकर्कशे । 
यौवने वनिता बल्कसन्ततिर्वार्धके च नः ॥ ' 
' गतापि भत्रै परकोपमायतं गिरं कृथा मा परुषार्थदोपिनीम् ।
कुलस्त्रिया भर्तृजनस्य भत्सने वदन्ति मौन परमं हि साधनम् ।। 
फुल्ल यदीदं कमल किमेतत्तत्रैव नीलोत्पलयोविकासः ।
 इत्यात्तशङ्का सरस्तरन्त्या हंसः सिपेवे वदनं सुदत्याः ॥ '

        एवमादीनि बहून्युदाहरणानि दातुं शक्यन्ते , यैः काव्यस्य भाषाशैली परिचिता भविष्यति , स्थालोपुलाकन्यायेनैतावतैव विभाव्यताम् ।