ऋग्वैदिक वाक् सूक्त

ऋग्वैदिक वाक् सूक्त

 वाक् सूक्त (10.125) 

ऋषि- वाक्

आम्भृणी। अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्येरुत विश्वदेवैः । 

अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥1॥ 

अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् । 

अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥2॥ 

अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । 

तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावशयन्तीम् ॥3॥ 

मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् । 

अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥4॥ 

अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः । 

यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥5॥ 

अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ । 

अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥ 6 ॥ 

अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे । 

ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥ 7 ॥ 

अहमेव वात इव प्र वाम्यारभमाणा भुवनानि विश्वा । 

परो दिवा पर एना पृथिव्यैतावती महिना सं बभूव ॥8॥


शब्दार्थ- 

संगमनी- प्राप्त करने वाली, 

चिकितुषी- ज्ञान से सम्पन्न/ब्रह्म को जानने वाली, 

श्रुत- विद्वान, 

जुष्टम् - सेवित, 

सुमेधाम् - उत्तम बुद्धि वाला, 

शरवः- हिंसक असुर, 

समदम्- युद्ध।

UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस

ऋग्वेदः