ऋग्वैदिक अक्ष सूक्त
ऋग्वैदिक अक्ष सूक्त
अक्ष सूक्त (10.34)
ऋषि- कवषऐलूष
प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः ।
मोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्मह्यमच्छान् ॥1॥
न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यमासीत् ।
अक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधम ॥2॥
द्वेष्टि श्वश्रूरप जाया रुणद्धि न नाथितो विन्दते मईितारम |
अश्वस्येव जरती वस्त्र्यस्य नाहं विन्दामि कितवस्य भागम ॥3॥
अन्ये जायां परि मृशन्त्यस्य यस्यागृधद्वेदने वाज्यक्षः ।
पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतम् ॥4॥
यदादीध्ये न दविषाण्येभिः परायद्भ्योऽव हीये सखिभ्यः ।
न्युप्ताश्च बभ्रुवो वाचमकतँ एमीदेषां निष्कृतं जारिणीव ॥5॥
सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा शूशुजानः ।
अक्षासो अस्य वि तिरन्ति कामं प्रतिदीने दधत आ कृतानि ॥6॥
अक्षास इदङ्कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः ।
कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य बर्हणा ॥7॥
त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा ।
उग्रस्य चिन्मन्यवे ना नमन्ते राजा चिदेभ्यो नम इत्कृणोति ॥ 8 ॥
नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते ।
दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्ति ॥9॥
जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित् ।
ऋणावा विभ्यद्धनमिच्छमानोऽन्येषामस्तमुप नक्तमेति ॥10॥
स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां मुकृतं च योनिम् ।
पूर्वाह्णे अश्वान्युयुजे हि वभ्रून्सो अग्नेरन्ते वृषलः पपाद ॥11॥
यो वः सेनानीर्महतो गणस्य राजा व्रातस्य प्रथमो बभूव ।
तस्मै कृणोमि न धना रुणध्मि दशाहं प्राचीस्तदृतं वदामि ॥12॥
अक्षैर्मा दीव्यः कृषिमित्कृषस्व वित्ते रमस्व बहु मन्यमानः ।
तत्र गावः कितव तत्र जाया तन्मे वि चष्टे सवितायमर्यः ॥13॥
मित्रं कृणुध्वं खलु भृळता नो मा नो घोरेण चरताभि धृष्णु ।
नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणां प्रसितौ न्वस्तु ॥14॥
अक्ष सूक्त शब्दार्थ
प्रावेपाः- कम्पनशीलः,
इरिण-अक्षपट्ट,
विभीतकः - विभीतक का पासा,
मिमेथ- क्रोध करना,
जिहीळे-लज्जित करना,
मर्डितारः - सुख देने वाला,
वेदने- धन पर,
अक्ष- जुए का पासा,
अवहीय- छिपना,
कितव- जुआरी,
शूशुजानः- चमकता हुआ,
कृत- दाव,
नितोदिनः- चाबुक से युक्त पासों का (53) संख्या का समूह अक्षपट्ट पर खेलता है।
मन्यवः- क्रोधी,
योनि- घर,
वृषल:- नीच आचरण करने वाला,
दश- दस अङ्गुलियां,
सविता- संसार का प्रेरक,
मन्यु - क्रोध
- ऋग्वैदिक अग्नि सूक्त (1.1),
- ऋग्वैदिक वरुण सूक्त (1.25),
- ऋग्वैदिक सूर्य सूक्त (1.125).
- ऋग्वैदिक इन्द्र सूक्त (2.12),
- ऋग्वैदिक उपस् सूक्त (3.61),
- ऋग्वैदिक पर्जन्य सूक्त (5.83),
- ऋग्वैदिक अक्ष सूक्त (10.34)
- ऋग्वैदिक ज्ञान सूक्त (10.71),
- ऋग्वैदिक पुरुष सूक्त ( 10.90),
- ऋग्वैदिक हिरण्यगर्भ सूक्त (10.121),
- ऋग्वैदिक वाक् सूक्त (10.125),
- ऋग्वैदिक नासदीय सूक्त (10.129)