ऋग्वैदिक नासदीय सूक्त

ऋग्वैदिक नासदीय सूक्त

 नासदीय सूक्त (10.129)

ऋषि- परमेष्ठी प्रजापति,

नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् । 

किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥1॥ 

न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः । 

आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किं चनास ॥2॥ 

तम आसीत्तमसा गूळ्ळ्हमग्रेऽप्रकेतं सलिलं सर्वमा इदम् । 

तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम् ॥3॥ 

कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् । 

सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥4॥ 

तिरश्चीनो विततो रश्मिरेषामधः स्विदासीदुपरि स्विदासीत् । 

रतोधा आसन्महिमान आसन्स्वधा अवस्तात्प्रयतिः परस्तात् ॥5॥ 

को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः ।

अर्वाग्देवा अस्य विसर्जननाथा को वेद यत आबभूव ॥6॥

इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न ।

यो अस्याध्यक्षः परमे व्योमन्सो अङ्ग वेद यदि वा न वेद ॥ 7 ॥

 नासदीय सूक्त शब्दार्थ- 

प्रकेतः- ज्ञान, 

आनीत - प्राण से युक्त, 

अवातम् - क्रिया से शून्य, 

स्वधया - माया से, 

गूढहम् - आच्छादित, 

स्वधा - भोग्य पदार्थ, 

अवस्तात् - निकृष्ट, 

परस्तात - उत्कृष्ट 

प्रयति - भोक्त पदार्थ, 

अध्यक्षः स्वमी, ईश्वर (हृदि प्रतीष्या कवयो मनीषा) ।


ऋग्वेदः