अथर्ववैदिक पृथिवी सूक्त

अथर्ववैदिक पृथिवी सूक्त  

पृथ्वी सूक्त ( 12 - 1 )

ऋषि- अथर्वा, मंत्र- 63 

सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति । 

सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥1॥ 

असंबाधं मध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु । 

नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥2॥ 

यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः । 

यस्यामिदं जिन्वति प्राणदेजत्सा नो भूमि पूर्वपेये दधातु ॥3॥ 

यस्याश्चतस्रः प्रदिशः पृथिव्या यस्यामन्त्रं कृष्टयः संबभूवुः । 

या बिभर्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने दधातु ॥4॥ 

यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरान् अभ्यवर्तयन् । 

गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥5॥ 

विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी । 

वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ॥6॥

 यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम् । 

सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ॥7॥ 

यार्णवेऽधि सलिलमग्र आसीत्यां मायाभिरन्वचरन् मनीषिणः । 

यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः । 

सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ॥8॥ 

यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति । 

सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा ॥9॥ 

यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे । 

इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः । 

सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः ॥10॥

गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु । 

बभ्रु कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम् ।

अजीतो ऽहतो अक्षतोऽध्यष्ठा पृथिवीमहम् ॥11॥

यते॒ मध्य पृथिवि यच्च नभ्य यास्त ऊर्जस्तन्वः संबभूवुः ।

तामु नो धद्यभि नः पवस्व माता भूमि पुत्रो अहं पृथिव्याः पर्जन्य पिता स उ नः पिपर्तु ॥12॥

यस्या वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माण ।

यस्या मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात् । 

मा नो भूमिर्वर्धयद्वर्धमाना ॥13॥

यो नो द्वेषत्पृथिवि यः पृतन्याद्योऽभिदासान्

मनसा यो वधेन । तं नो भूमे रन्धय पूर्वकृत्वरि ॥14॥ 

त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः । 

तवेमे पृथिवि पञ्च मानवा येभ्यो,

ज्योतिरमृतं मर्त्येभ्य उद्यन्त्सूर्यो रश्मिभिरातनोति ॥15॥

ता नः प्रजाः सं दुह्रतां ममग्रा वाचो मधु पृथिवि धेहि मह्यम् ॥16॥

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् । 

शिवां स्योनामनु चरेम विश्वहा ॥17॥

महत्मधस्थं महती बभूविथ महान् वेग एजथुर्वेपथुष्टे।

महास्त्वेन्द्रो रक्षत्यप्रमादम् ।

मा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश्चन ॥18॥

अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु । 

अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः ॥19॥

अग्निर्दिव आ तपत्यग्नेर्देवस्योर्वन्तरिक्षम ।

अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम् ॥20॥

अग्निवासाः पृथिव्यसितजृम्त्विषीमन्तं संशितं मा कृणोतु ॥21॥

भूम्यां देवेभ्यो ददति यज्ञं हव्यमरंकृतम् ।

भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः ।

मा नो भूमिः प्राणमायुर्दधातु जग्दष्टि मा पृथिवी कृणोतु ॥22॥

यस्ते गन्धः पृथिवि संबभूव यं बिभ्रत्योषधयो यमापः ।

यं गन्धर्वा अप्सरसश्च भेजिरे तेन

मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥23॥

यस्ते गन्धः पुष्करमाविवेश यं संजभ्रुः सूर्याया विवाहे । 

अमर्त्याः पृथिवि गन्धमग्रे तेन मा

सुरभिं कृणु मा नो द्विक्षत कश्चन ॥24॥

यस्ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः ।

यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु ।

कन्यायां वर्चो यद्भूमे तेनास्माँ अपि

सं सृज मा नो द्विक्षत कश्चन ॥25॥

शिला भूमिरश्मा पांसुः सा भूमिः संधृता धृता। 

तस्यै हिरण्यवक्षसे पृथिव्या अकर नमः ॥26॥

यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा ।

पृथिवीं विश्वधायमं धृतामछावदामसि ॥27॥ 

उदीगणा उतामीनास्तिष्ठन्तः प्रक्रामन्तः ।

पद्भ्या दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम ॥28॥

विमृग्वरी पृथिवीमा वदामि क्षमा भूमिं ब्रह्मणा वावृधानाम |

 ऊर्ज पुष्ट बिभ्रतीमन्त्रभाग घृत त्वाभि नि षीदम भूम ॥29॥

शुद्धा न आपस्तन्वे क्षरन्तु यो नः मेदुरप्रिय तं नि दध्मः ।

पवित्रेण पृथिवि मोत्पुनामि ॥30॥

यास्ते प्राची प्रदिशों या उदीचीर्यास्ते भूमे अधगद्याश्च पश्चात् ।

स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाण ॥31॥ 

मा नः पश्चान् मा पुरस्तान नुदिष्ठा मोत्तगदधगदुत ।

स्वस्ति भूमे नो भव मा विदन परिपन्थिनो वरीयो यावया वधम ॥32॥ 

यावत्तेऽभि विपश्यामि भूमे सूर्येण मेदिना ।

तावन में चक्षुर्मा मेष्टोत्तरामुत्तरां समाम् ॥33॥ 

यच्छयानः पर्यावर्ते दक्षिण संख्यमभि

भूमे पार्श्वमुत्तानास्त्वा प्रतीची यत्पृष्टीभिरधिशेमहे ।

॥34॥ यत्ते भूमे विखनामि क्षिप्रं तदपि रोहतु ।

मा हिंमीस्तत्र नो भूमे सर्वस्य प्रतिशीवरि

मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम् ॥35॥ 

ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वमन्तः । 

ऋतवस्ते विहिता हायनीरहोरात्रे पृथिवि नो दुहाताम् ॥36॥ 

याप सर्प विजमाना विमृग्वरी यस्यामासन्न् अग्नयो ये अप्स्वन्तः ।

परा दम्यून ददती देवपीयून् इन्द्रं वृणाना

पृथिवी न वृत्रं शक्राय दध्रे वृषभाय वृष्णे ॥37 ॥

यस्यां सदोहविर्धाने यूपो यस्यां निमीयते । ब्रह्माणो यम्यामर्चन्त्यृग्भिः

साम्ना यजुर्विदः युज्यन्ते यस्यामृत्विजः सोममिन्द्राय पातवे ॥38॥

यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः । 

सप्त सत्रेण वेधसो यज्ञेन तपसा मह ॥ 39 ॥ 

भगो अनुप्रयुङ्कामिन्द्र एतु पुरोगवः ॥40॥ 

यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः ।

मा नो भूमिरा दिशतु यद्धनं कामयामहे ।

युध्यन्ते यस्यामाक्रन्दो यम्यां वदति दुन्दुभिः ।

सा नो भूमिः प्र णुदतां सपत्नान् असपत्नं मा पृथिवी कृणोतु ॥41॥

यस्यामन्नं व्रीहियवौ यस्या इमाः पञ्च कृष्टयः । 

यस्याः पुरो देवकृताः क्षेत्रे यम्या विकुर्वते । 

जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् । 

सहस्रं धारा द्रविणम्य मे दुहां ध्रुवेव धेनुग्नपम्फुरन्ती ॥45॥

 यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये ।

भूम्यै पर्जन्यपत्न्यै नमोऽस्तु वर्षमेदसे ॥42 ॥

प्रजापतिः पृथिवीं विश्वगर्भामाशामाशां रण्यां नः कृणोतु ॥ 43 ॥

निधिं बिभ्रती बहुधा गुहा वसु मणि हिरण्यं पृथिवी ददातु मे ।

वमूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥44॥

क्रिमिर्जिन्वत्पृथिवि यद्यदेजति प्रावृषि तन्

नः सर्पन मोप सृपद्यच्छिवं तेन नो मृड ॥ 46 ॥

ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश्च यातवे ।

यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिव तेन

नो मृड ॥ 47 ॥

मल्वं बिभ्रती गुरुभृद्भद्रपापस्य निधनं तितिक्षुः ।

वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ॥48॥

ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश्चरन्ति । 

उलं वृकं पृथिवि दुछुनामित ऋक्षीकां रक्षो अप बाधयास्मत् ॥49॥ 

ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः ।

पिशाचान्त्सर्वा रक्षांसि तान् अस्मद्भूमे यावय ॥50॥

यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि ।

यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश्च्यावयंश्च वृक्षान् ।

वातस्य प्रवामुपवामनु वात्यर्चिः ॥51॥

यस्यां कृष्णमरुणं च संहिते अहोरात्रे विहिते भूम्यामधि ।

वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु

भद्रया प्रिये धामनिधामनि ॥52 ॥

द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः ।

अग्निः सूर्य आपो मेधां विश्वे देवाश्च सं ददुः ॥53॥

अहमस्मि सहमान उत्तरो नाम भूम्याम् ।

अभीषाडस्मि विश्वाषाडाशामाशां विषासहिः ॥54॥

अदो यद्देवि प्रथमाना पुरस्ताद्देवैरुक्ता व्यसर्पो महित्वम् ।

आ त्वा सुभूतमविशत्तदानीमकल्पयथाः प्रदिशश्चतस्रः ॥55 ॥

ये ग्रामा यदरण्यं याः सभा अधि भूम्याम् ।

ये संग्रामाः समितयस्तेषु चारु वदेम ते ॥56||

अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं यादजायत। 

मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम् ॥57 ॥

यद्वदामि मधुमत्तद्वदामि यदीक्षे तद्वनन्ति मा ।

त्विषीमान् अस्मि जूतिमान् अवान्यान् हन्मि दोधतः ॥58 ॥

शन्तिवा सुरभिः स्योना कीलालोनी पयस्वती ।

भूमिरधि ब्रवीतु मे पृथिवी पयमा सह ॥ 59 ||

यामन्वैच्छद्धविषा विश्वकर्मान्तरर्णवे रजसि प्रविष्टाम् ।

भुजिष्यं पात्रं निहितं गुहा यदाविर्भोगे अभवन् मातृमद्भ्यः ॥60 ॥

त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना । 

यत्त ऊनं तत्त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥61 ॥

 उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं मन्तु पृथिवि प्रसूताः । 

दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ॥62 ॥ 

भूमे मातर्नि धेहि मा भद्रया सुप्रतिष्ठितम् ।

संविदाना दिवा कवे श्रियां मा धेहि भूत्याम् ॥63 ॥

निम्नलिखित सूक्तों का अध्ययन :- 

UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस

ऋग्वेदः - 

शुक्लयजुर्वेदः -  
अथर्ववेदः -