जगन्नाथ का रसगङ्गाधरः

जगन्नाथ का रसगङ्गाधरः

    पण्डितराजजगन्नाथस्य रसगङ्गाधरः अस्य महापण्डितस्य परिचयः खण्डकाव्यप्रकरणे दत्तः । एतदीयो रस गङ्गाधरनामा ग्रन्थः साहित्यस्य सर्वाधिकः प्रौढो मर्मप्रकाशकः शास्त्रीयविवेचना पूर्णः । एतस्य समये नव्यन्यायशास्त्रं प्रचुरप्रचारमजायत , अतोऽनेन स्वग्रन्थे तदनुसारिणी सूक्ष्मेक्षिका समाधिता , येन पदार्थनिर्वचने स्थूलता पदं नाधात् । 
जगन्नाथ का रसगङ्गाधरः

    रसनिरूपणेऽनेन महती स्पष्टता सूक्ष्मता च प्रकटीकृता , माधुर्यादिनिरूपण मपि नितान्तनूतनं कृतम् । अलङ्काराणां लक्षणं सूत्रोल्या निबध्य तद्भाष्यमपि नितान्तप्रोढं कुलम् । अनेन कल्यलकारा निरूपयितुमिष्यन्तेस्म , इति तु स कालः प्रष्टव्यो यो रसगङ्गाधरमपूरितवन्तमेव पण्डितराज लोकान्तरमनैषीत् । 

प्रसिद्धा अन्येऽलङ्कारशास्त्रसृजः 


  • गोविन्दठक्कुरः -  काव्यप्रदीपः - सप्तदशशतकम् 
  • केशवमिश्रः - अलङ्कारशेखरः - सप्तदशशतकम्
  • वाग्भट  -  वाग्भटालङ्कारः  -  पञ्चदशशतकम्
  • अप्पय्यदीक्षितः -  कुवलयानन्दचित्रमीमांसे  - षोडशसप्तदशशतकम् 
  • विश्वेश्वरपण्डितः - अलङ्कारप्रदीपः - सप्तदशशतकम् 

अत्र प्रसङ्ग इतोऽधिकमपि ज्ञातुमिच्छुभिर्मदीया काव्यादर्शटीकाभूमिका द्रष्टव्या । 

साहित्यशास्त्रम् , अलङ्कारशास्त्रं