साहित्यशास्त्रम् , अलङ्कारशास्त्रं
साहित्यशास्त्रशब्देन मया तत् साहित्याङ्ग विवक्षितं यत्र काव्यभेदतत्स्व रूपतद्गतदोषगुणालङ्कारादिनिरूपणं क्रियते । काव्यस्वरूपनिरूपणप्रसङ्ग एव तद्विभावादिरूपतया नायिकानां नायकानां च मेदा अपि प्राप्तनिरूपणा भवन्ति तेन तदप्यस्य शास्त्रस्याङ्गभावं भजते । इदं शास्त्रं वेदानां लौकिककाव्य ग्रन्थानां च ज्ञानाय नितान्तमपेक्षितम् । इदमेव शास्त्र प्रागलङ्कारशास्त्रनाम्ना व्यवह्रियते स्म , यतः पुरा काव्यजीवनतयाऽलङ्कारा एव मन्यन्ते स्म ।
अस्य शास्त्रस्योपयोगित्वमवेक्ष्येव राजशेखरः शास्त्रमिदं वेदाङ्गमभ्युपगतवान् । ' उप कारकत्वादलङ्कारः सप्तममङ्गमिति यायावरीयः , ऋते च तत्स्वरूपपरिज्ञाना देवार्थानवगतिः । नैतावदेव , राजशेखरेण तु साहित्यशास्त्रं चतसृणामपि विद्यानां सारभूतमभ्युपगतम् -
' पञ्चमी साहित्यविद्येति यायावरीयः , सा हि चतसूणामपि विद्यानां निष्यन्दः । '
आधुनिकेषु सर्वप्रथमोऽलङ्कारशास्त्रग्रन्थो भामहप्रणीतः काव्यालङ्कार एव अतोऽस्य शास्त्रस्य अलङ्कारशास्त्रनाम्ना प्रसिद्धिः । वस्तुतस्तु तन्नाम न समु चितं यतस्तत्रालङ्कारातिरिक्तानामपि साहित्याङ्गानां विवेचनं क्रियत एव । राजशेखर इमामनुपपत्ति मनसिकृत्यैव शास्त्रमिदं साहित्यविद्यानाम्ना व्यवहृत वान् । उपयुक्तमपीदं नाम न प्रचारमभजत ।
अतिप्राचीनकाले शास्त्रमिदं क्रियाकल्पनाम्ना व्यवलियते स्म । वात्स्याय नेन कामसूत्रे चतुष्पष्टिकलासु क्रियाकल्पस्य गणना कृता । तत्र क्रिपया काव्य ग्रन्थाः , कल्पेन च विधानमभिप्रेतम् , तदिदं क्रियाकल्पपदं साहित्यविद्यापर पर्यवस्यति । इदमपि नाम न प्रचरितम् ।
वामनस्तु सौन्दर्यमलङ्कार इत्युक्त्वा काव्यगतान् सर्वानेव ध्वनिरसगुण तत्तदलङ्कारादीनलङ्कारशब्देन सञ्जग्राह । तदनुसारेण अलङ्कारशास्त्र साहित्य शास्त्रपर्यायतामहति ।
साहित्यशास्त्रस्य प्राचीनता
राजशेखरेण अलङ्कारशास्त्रस्य प्राचीनतामुपक्रम्यैका कथा लिखिता शकरोऽलङ्कारशास्त्रस्य शिक्षा सर्वप्रथमं ब्रह्मणे दत्तवान , ब्रह्मा च देवेभ्यः कतिभ्यश्चनषिभ्यश्च तच्छिक्षां ददो । तदनुसृत्याष्टादश ब्रह्मशिष्या अष्टादश स्वधिकरणेषु शास्त्रमिदं निबद्धवन्तः । नन्दिकेश्वरो रसं निरूपितवान् , घिषणो दोषान् , भरतश्च रूपकाणि निरूपितवान् ।
काव्यादर्शटीका हृदयङ्गमा तु - काश्यप - वररुची प्रथमालधारकारी निविंशति ।
यत्तु केचन अग्निपुराणस्य प्रथमालङ्कारग्रन्थत्वमाहुस्तदतितुच्छम् , बहुभिः प्रमाणैरग्निपुराणस्य प्राचीनताया निरस्तत्वात् । आस्तां प्राचीना कथा , द्वितीयशतकस्य शिलालेखास्तत्कालेऽलङ्कारशास्त्र स्योदये साक्षिणः , रुद्रदाम्नः शिलालेखस्य केवला भाषैव नालङ्कारपूर्णाऽपि तु तत्रालङ्कारशास्त्रसिद्धान्तानां निर्देशोऽपि प्राप्यते ।
हरिषेणः समुद्रगुप्त प्रतिष्ठित कविराजशब्दं लिखित्वाऽलङ कारशानसद्भावं व्यञ्जयति । पाणिनिसूत्रेषु कृशाश्वशिलालिभ्यां निमितानि नाट्यशास्त्रीयसूत्राणि स्मर्यन्ते । पाणिनेरपि पूर्वकालिको गाग्यं उपमां साधु लक्षितवान् । निरुक्तेऽपि उपमाया उदाहरण तयाऽनेके मन्त्रा उद्धृताः । तदित्यमलङ्कारशास्त्रस्य प्राचीनता प्रमाणिता भवति ।