पशुपक्षिकथा - पंचतंत्र/हितोपदेश
कथासाहित्ये पशुपक्षिकथाः संस्कृतभाषायां विदियाः कयाः प्राप्यन्ते । प्रथमाः मनोरजनमात्रफलाः बृहत्कथाप्रवत्तितस्याः , द्वितीयारच पञ्चतन्त्रावृत्ताः सदाचारराजनीत्योः शिक्षा प्रदायिन्यः । अनयोबाह्यरूपसामोऽपि आन्तरिकस्वरूप महदन्तरम् । अतो बृह कथापयाभूताः कवा लोकप्रियकत्याशब्देन पञ्चतन्मपथावृत्ताच कथाः शिक्षा कमायो पशुपक्षिकमाशब्देनाभिधातुं शक्यन्ते ।
पशुपक्षिकथाविकासः
वैदिकसाहित्ये ईदृश्या कथा न सन्ति । छान्दोग्योपनिषदि सत्यकामस्य ऋषभहंसादिसकावाद ब्रहमानं लभमानस्य वृत्ते पशुपक्षिकमाया बीज दृश्यते । महाभारते पशुपक्षिकवानां स्वल्न किञ्चित् स्फुटम् तत्र मारिमूपककथागों मृतराष्ट्र प्रत्युपदेशः प्रकाशितः ।
बोदधर्मप्रचारेणेवाकथासाहित्यस्य महानुदयो जातः । स्वधर्मप्रचाराम बोविविधाः पवादिकयाः प्रथिताः । भक्त नामके स्थाने यद् बौदाता रमा रकमुपलव्ध तेन खीष्टपूर्वद्वितीयशतके पश्वादिस्थायाः प्रचार सिद्धयति ।
नीतिशिक्षार्थ अत्तितासु कथासु पञ्चतन्त्रकृता नीतिशास्त्रात् अपंगानाच विपुला सामग्री संगृहीता ।
मनवे वाचस्पतये मकाय पराशराम समुताय ।
चाणकयाय र विदुषे नमोऽस्तु नपशासक भाः । '
इति पञ्चतन्त्रस्य भूमिकायो नमस्कारविषया नानानीतिमायकृतानुल्लेखो दृश्यते । तदर्य पञ्चतन्मनामा पशुपतिकवायमेदो नितरा शिक्षाप्रदा विद्यते । अयं पातत्लान्यः कतिचनाम्यानपि ग्रन्थानापारीकरोति । बेतालपविशतिका , शुकसप्ततिः , सिंहासनतानिपातिका , हितोपदेश इत्यादयो यन्याः पञ्चतन्त्रमेवा चिस्प निमिता इति प्रसिद्धम् ।
पंचतंत्रस्य पचागदापास्वनुवादो जात इति अन्यस्यास्य गोकप्रियता प्रत्यायिता भवति । भारतवर्षस्यायोपामु भाषामु अल्पदेशभापास्वपि च पम तन्त्रस्यानुवादो दुकाते । संसारे धर्मग्रन्थानतिरिच्य मेनाप्यन्तोन लौकिकयरमेने ताबानादरों नाधिगत इति कयनं भूताचव्याह तिरेव ।
पवतन्त्रस्य शाखाभेदः
दक्षिणापयथित नेपालदेवीगे च पञ्चतन्त्र पञ्चतन्त्रमिति गाम समानम् । अतो मूलभूतं पुस्तक पाचतन्त्रनामकमासोदिति वक्तुं मुखकम् । तत्रपदेन अध्याया उच्यन्ते , ' तन्नेः पञ्चमिरेतच्च कार सुमनोहरं पात्रम् ' इति स्मरणात ।
पञ्चतन्त्र नाम नेक पुस्तकमपि तु पात्रमिदम् । जन शास्त्र समानाभिधेयाः समानोद्देश्याः समान बहुलांशाश्च बहवो ग्रन्थाः सन्ति । पञ्चतन्त्रस्य शाखा बहुविस्ताराः । तत्र अर्धाधिको भागो विदेशेषु प्रसिद्धः ! ११०० तमे स्त्रीष्टाब्दे हिब्रू - भाषायामस्यानुवादो जातोऽनन्तरमन्यान्यासु वैदेशिकभाषासु जातैरनुवादेरयं ग्रन्थः पाश्चात्त्यदेशान् व्याप्य तिष्ठति । सम्प्रति ' यावा ' दीपा दारभ्य ' प्राइसलेण्ड ' पर्यन्तमस्य प्रचारो दृश्यते ।
पञ्चतन्त्रस्य शाखाः
सर्वासामपि शाखानामेकं समानं मूलम् । शाखास्तु-
( १ ) नेपालीयं - पच्च तन्त्रम् ,
( २ ) दक्षिणापथीयं - पञ्चतन्त्रम् ,
( ३ ) हितोपदेशः ,
( ४ ) बृहत्कथा स्तर्गतं पञ्चतन्त्रं यत् क्षेमेन्द्रेण सोमदेवेन च वणितम् ,
( ६ ) तन्त्राख्यायिका
( ६ ) सरलगन्यः ,
( ७ ) पूर्णभद्रप्रणोतः , पञ्चतन्त्रग्रन्थश्च ।
१. नेपालीयं पञ्चतन्त्रम -
नेपालीयपञ्चतन्त्रस्य अनेकानि हस्तलिखितिपुस्त कानि अधिगतनि । एषां मध्ये एकस्मिन् पचभागमात्र विद्यते , अपरस्मिन् पद्य भागेन समं गय भागोऽपि । अत्र कालिदासीयमेकं पथमुद्धृतमिति कालिदासाद ग्भवत्वमस्य प्रतोयते । इतोऽधिकमस्य रचनाकालसम्बन्चे कथयितुं न शक्यते ।
२. दक्षिणापथीयं पञ्चतन्त्रम् -
अत्रापि कालिदासीयमेकं पद्यमुद्धृतमिति ततोऽग्भिवत्वमस्य सिद्धयति । अस्मिन् यावान् मोलिकपञ्चतन्त्रांशः न तावान् सरलान्ये तन्त्राख्यायिकायां वा । अस्मिन् बहवः कथाः प्रक्षिप्ता अपि सन्ति ।
३. हितोपदेशः
नारायणनामकेन केनापि पण्डितेनाय सङ्ग्रह कृतः । अत्र स्वयमुक्त - ' पञ्चतन्त्रात्तथान्यस्माद् ग्रन्यादाकृष्य लिख्यते ' इति । तेनास्य पञ्च तन्त्ररूपान्तरत्वमुक्त भवति । आचारशिक्षाऽस्य गुन्थस्य मुख्यमुद्दे श्यम् । अत्रत्याः कथा नानागन्थेभ्यो गृहीताः , यथा - मुनिमूषिककथा महाभारताद् कातो गृहोता , चतुरमतिखोकथा शुकसप्ततितो गृहीता , वीरवरकथा वेतालावि ति गृहीता ।
( क ) नेपाले हितोपदेशस्येकं १३७३ खोष्ट लिखितं पुस्तकं प्राप्तम् ।
( ख ) भट्टारकवारशब्दप्रयोगात् ९ ०० खीष्टतोध्विम्भवमायाति ।
( ग ) माघात् कामन्दकोवनीतिसाराच्च । बहुविषयादानात्ततोऽर्वाग्भवत्व मायाति ।
तदेवं सकलवस्तु पर्यालोचनयाऽस्य काल : १००० खीष्टमितः प्रत्ययो भवति ।
४. बृहत्कथान्तर्गतं पञ्चतन्त्रम्
बृहत्कथायां पञ्चतन्त्रस्य यद्पमासीत्तदेव काश्मीरेषु समुपचितं सद् बृहत्कथामञ्जयाँ कथासरित्सागरे चावण्यंत । क्षेमेन्द्रेण मनयाँ सोमदेवेन कथासरित्सागरे चास्येव पञ्चतन्त्रस्य कथाभागो वणित इति विदुषामाशयः । अत्र क्वचित् संक्षिप्तत्वं क्वचिद् रूपान्तरितत्वमपि दृश्यते ।
५. तन्त्राख्यायिका -
पञ्चतत्रस्यैव रूपविशेषः तन्त्राख्यायिका - नाम्ना प्रसिद्धः । काश्मीरदेशे शारदालियामस्यैकमेव पुस्तकमधुनावधि प्राप्तम् । तन्त्राख्यायिकायामाद्यपञ्चतन्त्रस्य यावानंशः सुरक्षितो विद्यते तावानंशो नान्यत्र । अत्र बहवः कथा प्रक्षिप्ता अपि सन्ति , यथा - नीलशृगालस्य , चतुरजम्बुकस्य , सोमिलकतन्तुवायस्य , कुटिलकुट्टिन्याः , नृपशिवेः , वृद्धहंसस्य लशुनचौरस्य , वीरवेषधारिणश्च कथाः । अस्या रचनाकालो निश्चित्य वक्तमशक्यः ।
६. सरलग्रन्थः -
अयमपि पञ्चतन्वाधारकस्तद्रूपान्तरभूतो वा ग्रन्थः । अस्य तन्त्राख्यायिकया सह महत्साम्यं वर्तते । अत्र वैदिकमुनीनां नामानि नोपलभ्यन्ते , जैनमतप्रसिद्धानां दिगम्बरनग्नकक्षपणकधर्म - देशनामप्रभृतीनां शब्दानां प्रयोगस्य दर्शनेन ' जैनः कश्चिदस्य ग्रन्थस्य रचयिते ति तर्कयन्ति कतिपये । अत्रमाचकाव्यात् पद्यानि उद्धृतानि पूर्णभद्रश्चामुं स्मरति , तदर्य ग्रन्थः खीष्टोयकादशशतकसम्भवः स्यादिति विश्वसन्ति ।
७. पूर्णभद्रस्य पञ्चतन्त्रम् ( पञ्चाख्यानकम् ) -
पंचाख्यानकनाम्ना प्रसिद्धः पूर्णभद्रकृतोऽयं ग्रन्यः तन्त्राख्यायिकान् अन्यानपि च तद्विषयकग्रन्थान् विलोक्य कृतः प्रतीयते । सोमाख्यस्य कस्यचिन्मन्त्रिणः प्रसन्नतायै पूर्णभद्रेण ११ ९९ तमे खोष्टीये ग्रन्थोऽयं लिखितः ।
मूलपञ्चतन्त्रप्रणेता
विष्णुशर्मा अमरशक्तिनामकस्य नृपस्य त्रोन् पुत्रान् पड्भिर्मासैः राजनीति शिक्षयितुं ग्रन्थमिमं प्रणीतवानिति पञ्चतन्त्रस्य भूमिकातः प्रतीयते । हस्त्यश्वादि यानसाधनं विहायात्रोष्ट्राऽसकृणित इति काश्मोरदेश्योऽयं विष्णुशर्मा सम्भाव्यते ।
रचनाकाल :
आद्य पञ्चतन्त्रान्तर्गतत्वेन सम्भाविते एकत्र पद्ये दीनार - शब्दो विद्यते । दीनारो नाम मुद्राविशेषः स हि रोमनमुद्राविशेषः श्रीसदेश - मार्गेण प्राच्य भारतादिदेशेषु प्रचारमासादितवान् ।
५५० तमे खीष्टाब्दे ' वरजोई ' महाशयेनास्य पञ्चतन्त्रग्रन्थस्य पहलवी भाषायामनुवादः कृतः । एतेन सर्वेण विचार्यमाणेन तृतीये द्वितीये वा खीष्टशतके पच्चतन्त्रस्य रचना जातेति बाढं प्रत्येतुं शक्यते ।
पञ्चतन्त्रकथानां रूपान्तराणि
१. ५३१-५७९ , खीष्टसमये वैद्यवरखरजोईमहाशयेन पञ्चतन्त्रस्य पहलवी भाषायां ' करकट - दमनक - कथा'नाम्ना रूपान्तरं प्रकटीकृतम् । इदं पच्चतन्त्रस्य प्रथमं रूपान्तरं तन्त्राख्यायिकास्वरूपमनुहरति । इदं रूपान्तरं नष्टं जातम्।
२. पच्चतन्त्र स्य द्वितीय रूपान्तर ७५० तमे खीष्टाब्दे ' बूद'महाशयस्य प्रयत्नेन प्राचीन - सीरियन् - भाषायामजायत , यदेकपुस्तकात्मकमद्यापि प्राप्यमस्ति ।
३. प्रागुक्तं पञ्चतन्त्रस्य सीरियन रूपान्तरं ७५० खोष्टहायने ' अब्दुल्लः इब्नुलमोकपफा'नाम्ना विदुषा ' कलोल - ब - दिम्नः ' इति नाम्ना अरबभाषायां परिवर्तितम् । एतदेव रूपान्तरं सर्वेषां पाश्चात्त्यदेशप्रचलितभाषासु प्रथितानां पञ्चतन्त्राधारकथागथानां मूलमिति पुरातत्त्वविदो निश्चयः ।
४. १०८० खोष्टाब्दसमीपे ' कलील - व - दिम्नः ' इति नाम्ना प्रथितमरब भाषा - पञ्चतन्त्रम् , तत्कालप्रचलितायां सोरियन भाषायां स्पेनदेशभाषायां च अनूदितमजायत ।
५. अरबभाषामयस्य पञ्चतन्त्रस्य ग्रीकभाषामयं रूपान्तरमाधारीकृत्य इटलीभाषामयं पञ्चतन्त्रम् जर्मनभाषामयं पञ्चतन्त्रम् लेटिनभाषामयं पञ्चतन्त्र द्वयम् , नानाविधानि स्लेवोनिकभाषामयानि च पञ्चतन्त्राण्यजायन्त । तदिह सर्वेषु रूपान्तरेषु प्रकृतिभूतस्य ग्रीकभाषामयस्य पञ्चतन्त्रस्य महत्त्वमधिकम् ।
६. एवं नानाभाषासु रूपान्तरं भजमानस्यास्य पञ्चतन्त्रग्रन्थस्य जोह महाशयः १२६३-१२७८ खीष्टान्तराले लैटिनभाषायामनुवादः कृतो यो १४८० खोष्टाब्दे द्विरमुद्यत ।
७. अयमेव लेटिनभाषानिबद्धो पञ्चतन्त्रग्रन्थः १४८३ स्त्रीष्टाब्दे एन्थोनियस वॉन फर ( Anthonius Von Pforr ) नामकेन विदुषा पुनर्जर्मनभाषायामनू दितः । अनेन साहित्येन जमनसाहित्यं भृशं प्रभावितं जातम् । अस्यानुवादी १५४६ खीष्टाब्दे इटलीभाषायाम् १५५६ खोष्टाब्दे च फ्रेंचभाषायां जाती ।
तदयं ग्रन्थो विविधदेशभाषासु रूपान्तराण्याकलयन् समस्तमपि । विश्वं व्याप्तवान् । एषा एवं प्रसारदशा पाश्चात्त्यदेशयात्राशब्देनाप्युच्यते ।
पञ्चतन्त्रस्य शैली
हृया सरला च पञ्चतन्त्रस्य शेलो । लोकाचारं राजनीति च शिक्षयितुं विरचितेऽत्र ग्रन्थे निबद्धयमानाः सर्वा अपि कथाः किमपि उपदेशमन्तर्धारयन्ति , तेन परस्परानुस्यूतेऽपि पञ्चतन्त्रीयकथाप्रपञ्चे क्वचिदपि वेरस्य नोपलक्ष्यते । पञ्चतन्त्रप्रणेतरि विष्णुशमंणि निपुणराजनीतिज्ञस्य सिद्धहस्तवर्णनपरस्य च समधिकं सामञ्जस्यं दृश्यते । भाषा सर्वत्र प्राञ्जला ।