क्षेमेन्द्रण बृहत्कथामञ्जयां लिख्यमानायामेव कथासरित्सागरोऽलिख्यत । १०६३ तमेशवीयवर्षे समाप्तिश्च १०८१ तमेशवीय वर्षे जाता ।
काश्मीरप्रशासकस्य अनन्तनृपतेः खिन्नायाः पल्याः सूर्यमत्या मनोविनो दार्थ काश्मीरदेशवासी सोमदेवपण्डितः कण उरित्सागरं प्रणीतवान् । अनन्तनृपतिः १०८१ तमेशवीयवर्षे आत्मघातं कृतवान् तमनु ममार प तस्य सती सूर्यमती । एतेनापि कथासरित्सागरस्य रचनाकालः पूर्वोक्तरूपः सिद्धो भवति ।
कथासागरस्य कथासु सप्राणता प्रत्यत्रता विविधरूपता च विद्यते या क्षेमेन्द्रस्य मञ्जरीष्वप्राप्या । २१३८८ संख्याकेष्वेतपद्येषु ७६१ पद्यान्येव अनुष्टुपबतिरिक्तवृत्तैनिबद्धानि ।
सोमदेवः प्रयासेन दीर्घसमासान् क्लिष्टपदार्थवाक्यानि अलङ्कारांश्च परिहतवान् । तेन कथासु बेगा सरलता चागच्छन् । कसासरित्सागरीया कथासु अद्भुताः समुश्यात्रा देशयात्राः पोतभङ्गादया वयन्त । कवितारोली प्रशंसनीया ।
परोपकारमहत्वप्रसङ्गे यथा
' परार्थफलजन्मानो न स्युमार्गदुमा यदि ।
तापच्छिदो महान्तश्चेज्जीरिण्यं जगद्भवेत् ॥
रामायणवत् महाभारतवच्च कथासारित्सागरोऽपि कविभिरुपजीव्यतां गर्मित इति महद्गौरवमस्य अन्यस्य सिद्धयति ।