कथा - साहित्यम् - गुणाढ्य
6/14/2022 09:47:17 am
कथा - साहित्यम्
अधुना पाश्चात्या अपि कथामा गौरवं स्वीकुर्वन्तु नाम , परन्तु ते कथाया आधारं भारतीयकथात एव लब्धवन्तः । पाश्चात्त्यकथाया इतिहासं जानन्तो विद्वांसः प्रतियन्ति यद् भारतभूमिरेव कथाया उत्पत्तिक्षेत्रम् । षष्ठशताब्याम् भारते ताः कथाः प्रचुरप्रचारा आसन् यासामुपलब्धिरस्माभिः पञ्चतन्त्र क्रियते । पञ्चतन्त्रेण विश्वसाहिल्ये महदुपयोगि दानं समर्पितम् । वेदादेव प्रवहन्ती पुराणेषु खरखोतस्त्वमागता कथाधारा नानारूपाजायत ।
संस्कृते कथाया द्वौ प्रकारो - उपदेशात्मककथा , मनोरञ्जककथा । प्रथमा पशुपक्षिकथा , द्वितीया मनोरन्जनमात्रफला मानवकथा । मनोरञ्जक कथानां प्राचीनतमः संग्रहो बृहत्कथानाम्ना प्रथते ।
गुणाढयस्य समयः
संस्कृते बृहत्कथायाः सर्वप्रथम उल्लेखो दण्डिनः काव्यादर्श प्राप्यते
' भूतभाषामयी प्राहुरद्भुतार्था बृहत्कथाम् '
तदनन्तरं सुबन्धुलिखति
' बृहत्कथालम्बैरिव सालभजिकानिवहैः । '
बाणोऽप्याह -
' धिया निबद्धेयमतिद्वयो कथा । '
( अत्र ' अतिद्वयो ' पदं बृहत्कथा वासवदत्ता च परामशतीति विद्वांसो वर्णयन्ति ) ।
त्रिविक्रमभट्टेनोक्तम्-
' धनुषेव गुणान्येन निःशेषो रञ्जितो जनः । '
गोवर्धनो लिखति
' अतिदीर्घजीविदोषाद् व्यासेन यशोऽपहारितं हन्त ।केर्नोच्यते गुणाड्यः स एव जन्मान्तरापन्नः ।। '
एभिरुल्लेखरिदं सिद्धयति सद् गुणाव्यस्य बृहत्कथा ख्रीष्टसप्तमपातकात् प्राचीना एव । केचित् सातवाहनसमकालिकतया गुणात्यल्य प्रथमशताब्दी सम्भूततां मन्यन्ते । तत्र सातवाहनपदस्योपाधिस्वरूपतया समयव्यवस्थापकता कतिपये नाङ्गीकुर्वन्ति । यदस्तु - प्रथमशतकानन्तरं सप्तमशतकात्पूर्वच कश्चन गुणाढ्यजीवनवृत्ते कातन्त्र समयो गुणाढ्यस्य एव । तत्र व्याकरणप्रणेतुः शर्ववर्मणः सम्पृक्तया गुणाव्यस्य प्रथमशताब्दीतो नातिपर वत्तित्वं विश्वसनीय सम्भवति ।
गुणाढयस्य जीवनवृत्तम्
काश्मीरग्रन्थतो ज्ञायते यद् गोदावर्यास्तीरे प्रतिष्ठाननगरं गुणाव्यस्य अभिजनः । गुणाझ्यः सातवाहनस्यातीव प्रीतिपात्रमासीत् । कदाचिद् महिष्या ' मा उदकैरिति जलप्रतिषेधार्थकं वाक्यं सन्धि कृत्वा ' मोदकैरि'त्युक्तम् । संस्कृ तानभिशश्च राजा मोदकैमधुरभेदैरिति ज्ञातवान् । वस्तुवृत्ते ज्ञाते सति राजा लज्जितो जातः । तेनैव कारणेन राज्ञा संस्कृतपठने रुचिः प्रकटीकृता । गुणा यस्तं षडभिवर्षेः संस्कृतमध्यापयितुं शक्यमित्युक्तवान् । तत्रैव स्थितः कातंत्र व्याकरणप्रणेता शर्ववर्मा षड्भिरेव मासैस्तथाकत्तु प्रतिज्ञातवान् ।
गुणा व्यस्तस्य तथाविधामुक्तिमाकण्यं प्रोवाच यद्यपि शर्ववर्मा षड्भिर्मासैः संस्कृतं पाठयेत्तदाऽहं ततः प्रभृति संस्कृत - प्राकृतादिकाः प्रसिद्धा भाषाः कदापि व्यवहरेयम् । पणबन्वेऽस्मिन् शर्ववर्मगा पराजितो गुणात्यः क्वचन विन्ध्य वनमध्ये स्थितो भूतभाषामयीं बृहत्कथा सप्तलक्षश्लोकात्मिकां प्रणीतवान् । तच्छिष्यास्तं बृहन्दं ग्रन्थं राज्ञः समीपं समानीतवन्तः किन्तु राजा तं नादत वान् । राजानादरखिन्नो गुणात्यः स्वग्रन्थमारण्यकेभ्यः श्रावयित्वा क्रमशस्तमग्नौ क्षेप्तुं प्रारेभे । तदनन्तरं तद्गुणानाकय राजा तद्ग्रन्थसप्तमांशं लक्षश्लोकात्मकं प्रयासेन रक्षितुं शशाक । स एवायं बृहत्कथागून्थः । इयमेव बृहत्कथाया उत्पत्तिकथा ।
नेपालदेशीयो बुद्धस्वामी तु गुणात्य मथुरावासिनमवन्तिनृपतेनूपमदनस्य चाभितं वर्णयति । अनयोः मतयोः काश्मीरमतं सम्यक् । बुद्धस्वामी तु गुणाढ्य नेपालसमोपतिनं साधयितुमेव स्वमागृह तथा प्रकाशितवान् ।
का भूतभाषा ? ।
भूतभाषायां गुणाढ्येन बृहत्कथा रचितेति प्रतीतं , तत्र का भूतभाषेति प्रश्ने विध्यभाषाप्रभेदो भूतभाषा , विष्यमध्ये स्थितेन गुणाढ्येन बृहत्कथाप्रणयनस्या नुकूलतकत्वात् । ग्रियर्सन ( George Grierson ) महोदयः पश्चिमोत्तरप्रदेश-भाषां भूतभाषामाह । तन्मते प्राचीनभूतभाषास्थानानि काफिरस्तान - चित्रल गिलगिटप्रदेशाः ।
गुणाढ्यस्य गोदावरीतोरवासितया विन्ध्यभाषाप्रभेदता भूतभाषाया अधिक विश्वासयोग्या । राजशेखरेणोक्तम् - येषु भारतस्यानेकेषु भागेषु भूतभाषायाः प्रचारोऽवतंत , विध्यभागोऽपि तेष्वन्यतमः , तस्माद् विध्यभाषाभेद एव भूत भाषेति विदुषां सम्मतिः ।
बृहत्कथा पद्यमयी गद्यमयी वा ?
दण्डिना कथाया उदाहरणभावेन बृहत्कथा स्मृता । ' कथायां सरसं बस्तु गोरेव निवघ्यते ' , अतो बृहत्कथा गद्यमयी सम्भवति । बृहत्कथा दण्डिना दृष्ट स्यादित्यपि सम्भाव्यते , दण्डिनः पर्याप्तप्राचीनत्वात् । हेमचन्द्रोऽपि बृहत्कथातो गद्यविशेषमुद्धृत्य गद्यमयीभावं समर्थयति । यच्च तदनुवादत्रय पद्यमयं तेन मूलमपि पद्यमयमिति कथनं तदकिञ्चित्करम् । श्लोकानां सप्तलक्षी बृहत्कथाया मिति अक्षरसंख्याबोधितव , न पद्यमयत्वे दृढप्रमाणमिदम् ।
बृहत्कथाया वर्ण्यविषयः
केचिदाहुः बृहत्कथायां नायको नरवाहनदत्तः वेगवत्या गोमुखेन च सहितः प्रव्रजति . वेगवत्या वियुज्यते , नानाविधविक्रमप्रकाशनानन्तरं मदन मञ्जुको नाम नायिकामासादयति मानवसेनस्य गृहे बन्दीभूताया अपि मदन मञ्जुकायाः सतीत्वमक्षुण्णमवर्तत । इयमीदृशो कथा रामायणमनुहरति , तेन गुणाढयस्य रामायणानुकरणपरायणता प्रतीयत इति । वस्तुतस्तु रामायण महाभारत - बौद्धकथानामनुशीलने कृतेऽपि गुणायेन बृहत्कथायां रामायणं नानु कृतं किन्तु प्रसङ्गवशादेव तथा कथा लिखिता । शरीरपिण्डस्य साम्ये सत्यपि बृहत्कथाया अङ्गानि रामायणकथाया अङ्गभ्योऽतितरां भिद्यन्ते । गुणाढ्येन यात्रिकाणां सकाशात् श्रुताः कथा उपजीविताः कृत्वा विक्रान्तयात्रावर्णनानि लिखितानि ।
इमानि वर्णनानि श्रमजीविनां पोतकर्णधाराणां वाणिज्यपरायणानां पचिकानां च सातिशयमावर्जकानि । अस्य ग्रन्थस्य प्रणयने गुन्थकर्ता साधारण भाषया मनोरजकसाहित्यसन्दर्भस्य प्रणयनमेवोद्देश्यमास्थितवान् , कस्यचिदे तिहासिकस्य कथासमुदायस्य आचारशास्त्रस्य वा गुम्फन नेच्छति स्म । इद मेवास्य रामायणानुकरणतां निषेधति । अवश्यमयं गुणाढ्योऽसदृशप्रतिभो यत्कृतिरद्याप्पद्वितीयेव विद्योतते स्वक्षेत्र ।
बृहत्कथाया वैशिष्टयम्
लोकप्रियकथासाहित्ये प्रथमकृतित्वेन , भारतीयसाहित्यकलाया भाण्डा गारभावेन , अनन्तरभाबिसाहित्येनोपजीवितत्वेन च बृहत्कथावा गौरवं नितान्त विशालम् ।
भारतीयेतिहासस्य यः कालः साधनान्तरेण अप्रकाश्यमान । , तं प्रकाशयन्त्यो बृहत्कथायाः कथाः यदि साधु समालोचिताः स्युस्तदा तात्कालिको दर्शनधारा सभ्यता स्थितिश्च स्फुटीभवेदिदमप्यस्या वैशिष्ट्यम् ।
एतादृशान्येव वैशिष्ट्यानि दृष्ट्वा बृहत्कथा बहुधाऽनूदिता । तत्र
बुद्धस्वामिनः श्लोकसंग्रह
बृहत्कथाश्लोकसंगृहापराभिधानः श्लोकसंगृहनामायं गन्थो बुद्धस्वामिना कृतः । अस्यैकमेव खण्ड नेपालप्रान्ते प्राप्तं यत्र हस्तलिखिते ग्रन्थे २८ सर्गाः ४५३ ९ मिताः श्लोकाश्च सन्ति । अस्य गुन्थस्य हस्तलिखिताः प्रतयो नेपालप्रान्ते प्राप्ताः । अनेन बृहत्कथाया नेपालप्रान्तीय रूपान्तरमिदमिति प्रतिभाति । अस्य कर्तुर्बुद्धस्वामिनः नेपालेन सह सम्बन्धस्तु नावधारयितुं शक्यते सम्भवति बृहत्कथाया मूलं पुस्तकं दृष्ट्वा श्लोकसंग्रहो निर्मितः स्यात् ।
अत्र नखानदत्तस्य शृङ्गारमयपराक्रमकार्याणि वर्णितानि । अत्र श्लोक संग्रहे अविद्यमाना अपि कथाः पञ्चतन्त्रकथा वेतालपञ्चविंशतिकथाप्रभृतयः काश्मीरेषु निर्मितयोः बृहत्कथामञ्जरी - कथासरित्सागरयोरुपलभ्यते , तत्र किङ्कारणमिति प्रश्ने तत्क्षेपकसहितमेव श्लोकसंग्रहपुस्तकं क्षेमेन्द्र सोमदत्ता भ्यामधिगतं स्यादित्येकमुत्तरम , द्वितीयञ्चेदमुत्तरं यत् क्षेमेन्द्रसोमदत्तो ज्ञात्वैव कथान्तर समावेशिवन्तौ ।
यावत् श्लोकसंग्रहस्य सर्वथा परिशीलन न क्रियते तावद् बृहत्कथामजर्याः कतिवन सन्दर्भा न स्फुटीभवन्ति । एतेन बृहत्कथा मञ्जर्याः श्लोकसंग्रहसंक्षेपरूपता सिद्धा भवति ।
विदुषां सम्मतो श्लोकसंग्रहस्य निर्माणकालोऽष्टमं नवमं वा शतकम् । श्लोकसंग्रहस्य शैली सरला स्वच्छा च । शैलीगुणेनेव गून्थोऽयं लोकप्रियत्वं।
अत्र चित्रितानि पात्राणि स्फुटचरित्रतया प्रसिद्धानि । गून्थस्थावलोक नात् प्रतीयते यद् लेखको भ्रान्त्वा प्रत्यक्षीकृत्य जनपदान् तवासिनश्चावर्णयत् । अत्र प्राकृतभाषाप्रयोगेण विलक्षणेव कापि भाषा प्रतिभासते । व्याकरणशाख प्रियता चास्य गुन्ये द्रष्टुं योग्या ।