"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

कथा - साहित्यम् - गुणाढ्य

कथा - साहित्यम् - गुणाढ्य
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

 कथा - साहित्यम् 

अधुना पाश्चात्या अपि कथामा गौरवं स्वीकुर्वन्तु नाम , परन्तु ते कथाया आधारं भारतीयकथात एव लब्धवन्तः । पाश्चात्त्यकथाया इतिहासं जानन्तो विद्वांसः प्रतियन्ति यद् भारतभूमिरेव कथाया उत्पत्तिक्षेत्रम् । षष्ठशताब्याम् भारते ताः कथाः प्रचुरप्रचारा आसन् यासामुपलब्धिरस्माभिः पञ्चतन्त्र क्रियते । पञ्चतन्त्रेण विश्वसाहिल्ये महदुपयोगि दानं समर्पितम् । वेदादेव प्रवहन्ती पुराणेषु खरखोतस्त्वमागता कथाधारा नानारूपाजायत । 
संस्कृते कथाया द्वौ प्रकारो - उपदेशात्मककथा , मनोरञ्जककथा । प्रथमा पशुपक्षिकथा , द्वितीया मनोरन्जनमात्रफला मानवकथा । मनोरञ्जक कथानां प्राचीनतमः संग्रहो बृहत्कथानाम्ना प्रथते । 
कथा - साहित्यम् - गुणाढ्य

गुणाढयस्य समयः 

संस्कृते बृहत्कथायाः सर्वप्रथम उल्लेखो दण्डिनः काव्यादर्श प्राप्यते 
' भूतभाषामयी प्राहुरद्भुतार्था बृहत्कथाम् ' 
तदनन्तरं सुबन्धुलिखति 
' बृहत्कथालम्बैरिव सालभजिकानिवहैः । ' 
बाणोऽप्याह - 
' धिया निबद्धेयमतिद्वयो कथा । '
( अत्र ' अतिद्वयो ' पदं बृहत्कथा वासवदत्ता च परामशतीति विद्वांसो वर्णयन्ति ) । 
त्रिविक्रमभट्टेनोक्तम्- 
' धनुषेव गुणान्येन निःशेषो रञ्जितो जनः । '
 गोवर्धनो लिखति 
' अतिदीर्घजीविदोषाद् व्यासेन यशोऽपहारितं हन्त । 
केर्नोच्यते गुणाड्यः स एव जन्मान्तरापन्नः ।। '
 एभिरुल्लेखरिदं सिद्धयति सद् गुणाव्यस्य बृहत्कथा ख्रीष्टसप्तमपातकात् प्राचीना एव । केचित् सातवाहनसमकालिकतया गुणात्यल्य प्रथमशताब्दी सम्भूततां मन्यन्ते । तत्र सातवाहनपदस्योपाधिस्वरूपतया समयव्यवस्थापकता कतिपये नाङ्गीकुर्वन्ति । यदस्तु - प्रथमशतकानन्तरं सप्तमशतकात्पूर्वच कश्चन गुणाढ्यजीवनवृत्ते कातन्त्र समयो गुणाढ्यस्य एव । तत्र व्याकरणप्रणेतुः शर्ववर्मणः सम्पृक्तया गुणाव्यस्य प्रथमशताब्दीतो नातिपर वत्तित्वं विश्वसनीय सम्भवति । 

गुणाढयस्य जीवनवृत्तम् 

काश्मीरग्रन्थतो ज्ञायते यद् गोदावर्यास्तीरे प्रतिष्ठाननगरं गुणाव्यस्य अभिजनः । गुणाझ्यः सातवाहनस्यातीव प्रीतिपात्रमासीत् । कदाचिद् महिष्या ' मा उदकैरिति जलप्रतिषेधार्थकं वाक्यं सन्धि कृत्वा ' मोदकैरि'त्युक्तम् । संस्कृ तानभिशश्च राजा मोदकैमधुरभेदैरिति ज्ञातवान् । वस्तुवृत्ते ज्ञाते सति राजा लज्जितो जातः । तेनैव कारणेन राज्ञा संस्कृतपठने रुचिः प्रकटीकृता । गुणा यस्तं षडभिवर्षेः संस्कृतमध्यापयितुं शक्यमित्युक्तवान् । तत्रैव स्थितः कातंत्र व्याकरणप्रणेता शर्ववर्मा षड्भिरेव मासैस्तथाकत्तु प्रतिज्ञातवान् । 

गुणा व्यस्तस्य तथाविधामुक्तिमाकण्यं प्रोवाच यद्यपि शर्ववर्मा षड्भिर्मासैः संस्कृतं पाठयेत्तदाऽहं ततः प्रभृति संस्कृत - प्राकृतादिकाः प्रसिद्धा भाषाः कदापि व्यवहरेयम् । पणबन्वेऽस्मिन् शर्ववर्मगा पराजितो गुणात्यः क्वचन विन्ध्य वनमध्ये स्थितो भूतभाषामयीं बृहत्कथा सप्तलक्षश्लोकात्मिकां प्रणीतवान् । तच्छिष्यास्तं बृहन्दं ग्रन्थं राज्ञः समीपं समानीतवन्तः किन्तु राजा तं नादत वान् । राजानादरखिन्नो गुणात्यः स्वग्रन्थमारण्यकेभ्यः श्रावयित्वा क्रमशस्तमग्नौ क्षेप्तुं प्रारेभे । तदनन्तरं तद्गुणानाकय राजा तद्ग्रन्थसप्तमांशं लक्षश्लोकात्मकं  प्रयासेन रक्षितुं शशाक । स एवायं बृहत्कथागून्थः । इयमेव बृहत्कथाया उत्पत्तिकथा ।

नेपालदेशीयो बुद्धस्वामी तु गुणात्य मथुरावासिनमवन्तिनृपतेनूपमदनस्य चाभितं वर्णयति । अनयोः मतयोः काश्मीरमतं सम्यक् । बुद्धस्वामी तु गुणाढ्य नेपालसमोपतिनं साधयितुमेव स्वमागृह तथा प्रकाशितवान् । 

का भूतभाषा ? । 

भूतभाषायां गुणाढ्येन बृहत्कथा रचितेति प्रतीतं , तत्र का भूतभाषेति प्रश्ने विध्यभाषाप्रभेदो भूतभाषा , विष्यमध्ये स्थितेन गुणाढ्येन बृहत्कथाप्रणयनस्या नुकूलतकत्वात् । ग्रियर्सन ( George Grierson ) महोदयः पश्चिमोत्तरप्रदेश-भाषां भूतभाषामाह । तन्मते प्राचीनभूतभाषास्थानानि काफिरस्तान - चित्रल गिलगिटप्रदेशाः । 
 गुणाढ्यस्य गोदावरीतोरवासितया विन्ध्यभाषाप्रभेदता भूतभाषाया अधिक विश्वासयोग्या । राजशेखरेणोक्तम् - येषु भारतस्यानेकेषु भागेषु भूतभाषायाः प्रचारोऽवतंत , विध्यभागोऽपि तेष्वन्यतमः , तस्माद् विध्यभाषाभेद एव भूत भाषेति विदुषां सम्मतिः । 

बृहत्कथा पद्यमयी गद्यमयी वा ? 

दण्डिना कथाया उदाहरणभावेन बृहत्कथा स्मृता । ' कथायां सरसं बस्तु गोरेव निवघ्यते ' , अतो बृहत्कथा गद्यमयी सम्भवति । बृहत्कथा दण्डिना दृष्ट स्यादित्यपि सम्भाव्यते , दण्डिनः पर्याप्तप्राचीनत्वात् । हेमचन्द्रोऽपि बृहत्कथातो गद्यविशेषमुद्धृत्य गद्यमयीभावं समर्थयति । यच्च तदनुवादत्रय पद्यमयं तेन मूलमपि पद्यमयमिति कथनं तदकिञ्चित्करम् । श्लोकानां सप्तलक्षी बृहत्कथाया मिति अक्षरसंख्याबोधितव , न पद्यमयत्वे दृढप्रमाणमिदम् ।

 बृहत्कथाया वर्ण्यविषयः 

केचिदाहुः बृहत्कथायां नायको नरवाहनदत्तः वेगवत्या गोमुखेन च सहितः प्रव्रजति . वेगवत्या वियुज्यते , नानाविधविक्रमप्रकाशनानन्तरं मदन मञ्जुको नाम नायिकामासादयति मानवसेनस्य गृहे बन्दीभूताया अपि मदन मञ्जुकायाः सतीत्वमक्षुण्णमवर्तत । इयमीदृशो कथा रामायणमनुहरति , तेन गुणाढयस्य रामायणानुकरणपरायणता प्रतीयत इति । वस्तुतस्तु रामायण महाभारत - बौद्धकथानामनुशीलने कृतेऽपि गुणायेन बृहत्कथायां रामायणं नानु कृतं किन्तु प्रसङ्गवशादेव तथा कथा लिखिता । शरीरपिण्डस्य साम्ये सत्यपि बृहत्कथाया अङ्गानि रामायणकथाया अङ्गभ्योऽतितरां भिद्यन्ते । गुणाढ्येन यात्रिकाणां सकाशात् श्रुताः कथा उपजीविताः कृत्वा विक्रान्तयात्रावर्णनानि लिखितानि । 
इमानि वर्णनानि श्रमजीविनां पोतकर्णधाराणां वाणिज्यपरायणानां पचिकानां च सातिशयमावर्जकानि । अस्य ग्रन्थस्य प्रणयने गुन्थकर्ता साधारण भाषया मनोरजकसाहित्यसन्दर्भस्य प्रणयनमेवोद्देश्यमास्थितवान् , कस्यचिदे तिहासिकस्य कथासमुदायस्य आचारशास्त्रस्य वा गुम्फन नेच्छति स्म । इद मेवास्य रामायणानुकरणतां निषेधति । अवश्यमयं गुणाढ्योऽसदृशप्रतिभो यत्कृतिरद्याप्पद्वितीयेव विद्योतते स्वक्षेत्र । 

बृहत्कथाया वैशिष्टयम् 

लोकप्रियकथासाहित्ये प्रथमकृतित्वेन , भारतीयसाहित्यकलाया भाण्डा गारभावेन , अनन्तरभाबिसाहित्येनोपजीवितत्वेन च बृहत्कथावा गौरवं नितान्त विशालम् । 
भारतीयेतिहासस्य यः कालः साधनान्तरेण अप्रकाश्यमान । , तं प्रकाशयन्त्यो बृहत्कथायाः कथाः यदि साधु समालोचिताः स्युस्तदा तात्कालिको दर्शनधारा सभ्यता स्थितिश्च स्फुटीभवेदिदमप्यस्या वैशिष्ट्यम् । 
एतादृशान्येव वैशिष्ट्यानि दृष्ट्वा बृहत्कथा बहुधाऽनूदिता । तत्र 

बुद्धस्वामिनः श्लोकसंग्रह 

बृहत्कथाश्लोकसंगृहापराभिधानः श्लोकसंगृहनामायं गन्थो बुद्धस्वामिना कृतः । अस्यैकमेव खण्ड नेपालप्रान्ते प्राप्तं यत्र हस्तलिखिते ग्रन्थे २८ सर्गाः ४५३ ९ मिताः श्लोकाश्च सन्ति । अस्य गुन्थस्य हस्तलिखिताः प्रतयो नेपालप्रान्ते प्राप्ताः । अनेन बृहत्कथाया नेपालप्रान्तीय रूपान्तरमिदमिति प्रतिभाति । अस्य कर्तुर्बुद्धस्वामिनः नेपालेन सह सम्बन्धस्तु नावधारयितुं शक्यते सम्भवति बृहत्कथाया मूलं पुस्तकं दृष्ट्वा श्लोकसंग्रहो निर्मितः स्यात् । 

अत्र नखानदत्तस्य शृङ्गारमयपराक्रमकार्याणि वर्णितानि । अत्र श्लोक संग्रहे अविद्यमाना अपि कथाः पञ्चतन्त्रकथा वेतालपञ्चविंशतिकथाप्रभृतयः काश्मीरेषु निर्मितयोः बृहत्कथामञ्जरी - कथासरित्सागरयोरुपलभ्यते , तत्र किङ्कारणमिति प्रश्ने तत्क्षेपकसहितमेव श्लोकसंग्रहपुस्तकं क्षेमेन्द्र सोमदत्ता भ्यामधिगतं स्यादित्येकमुत्तरम , द्वितीयञ्चेदमुत्तरं यत् क्षेमेन्द्रसोमदत्तो ज्ञात्वैव कथान्तर समावेशिवन्तौ । 

यावत् श्लोकसंग्रहस्य सर्वथा परिशीलन न क्रियते तावद् बृहत्कथामजर्याः कतिवन सन्दर्भा न स्फुटीभवन्ति । एतेन बृहत्कथा मञ्जर्याः श्लोकसंग्रहसंक्षेपरूपता सिद्धा भवति । 

विदुषां सम्मतो श्लोकसंग्रहस्य निर्माणकालोऽष्टमं नवमं वा शतकम् । श्लोकसंग्रहस्य शैली सरला स्वच्छा च । शैलीगुणेनेव गून्थोऽयं लोकप्रियत्वं।

अत्र चित्रितानि पात्राणि स्फुटचरित्रतया प्रसिद्धानि । गून्थस्थावलोक नात् प्रतीयते यद् लेखको भ्रान्त्वा प्रत्यक्षीकृत्य जनपदान् तवासिनश्चावर्णयत् । अत्र प्राकृतभाषाप्रयोगेण विलक्षणेव कापि भाषा प्रतिभासते । व्याकरणशाख प्रियता चास्य गुन्ये द्रष्टुं योग्या । 

 कथा - साहित्यम् - गुणाढ्य











About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

إرسال تعليق

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.