शुकसप्ततिः
6/14/2022 09:49:10 am
शुकसप्ततिः
ग्रन्थोऽयं शाखाद्वयविभक्तः प्राप्यते - एका शाखा चिन्तामणिनामकेन केनचिद् ब्राह्मणेन प्रणीता , अपरा केनचन श्वेताम्बर जैनविदुषा कृता । अविदित रचनाकालोऽप्ययं ग्रन्थो हेमचन्द्रेण १०८८-११७२ ई ० भवेन स्मयंत इति ततः प्राचीनत्वमस्य स्वीकरणीयमेव । अयं कथागृन्थोऽतीव मनोरञ्जकः । मध्ये मध्ये उपदेशप्रदेवर्णनपरैश्च पी गंथितमस्य गद्यं सरलम् । क्वचिन्मध्ये प्राकृतपद्यमपि विद्यते ।
देशान्तरं प्रस्थितः कश्चन मदनसेनो नाम वणिक् स्वस्त्रियो रक्षणार्थ गन्ध ववितारभूतो शुककाको न्ययुक्त । अनन्तरमधर्मपथप्रस्थितां स्वामिनीमुप देष्टुमिच्छन् काकः स्पष्टार्थमुपदिदेश । तेन कुपिता सा तं प्राणदण्डभोत्या ज्यवारयत् । तथा दृष्ट्वा शुको बुद्धिमत्तया तामनुवर्तमानः अमुकवत् त्वम् अस्मिन् मार्ग सम्भविनीं बाधा निवारयितुमुपायान् जानासि न वेत्ति पृष्टवान् ।
नेत्युक्ते तया तो कथामेकां श्रावयति । न कथया प्रथमया तन्मनोरथः सिद्धयति । ततोऽन्यां बावयति । ततोऽपि परतोऽन्यम् । एवं कालं नयन्नसौ शुकस्तां रक्षि तवानधर्माचरणावावन्मदनसेनो गृहानागच्छत् । इदमेवात्र वयं वस्तु । आसु कथासु असतीनां स्त्रीणां छलव्यवहारा एव मुख्यतया वर्णिताः ।
इमे वर्णिता गुग्था कस्यापि धर्मविषेशेस्य प्रचाराय न कृताः । धर्मविशेष प्रचारमुद्दिश्यापि जैन - बौद्धमतानुसारिभिः कतिपये गुन्था निरमीयन्त । मत विशेषस्य कथागून्थेषु साऽऽकर्षकता न दृश्यते या साधारणकथागुन्थेषु । बौद्ध विरचिताः कथान्था अवदाननाम्ना प्रथन्ते ।