महाकवि दण्डी
6/14/2022 09:46:50 am
महाकविदण्डी
' दण्डिनः पदलालित्यम् '
इत्युक्तिरपि तस्य प्रसिद्धी प्रमाणम् । गद्य मकयु दण्डी स्वं विशिष्टं स्थानं रक्षति ।
दण्डिनः समयनिरूपणम्
समयनिरूपणे प्रक्रम्यमाणे निम्नलिखिता विषया ध्यातव्या भवन्ति -
१. स्रोष्टदशमशतकोत्पन्नोऽभिनवगुप्तः लोचननामके स्वग्रन्ये लिखति “ यथाह दण्डो – ' गद्यपद्यमयी चम्पू : ' " ( तृतीयोद्योते सप्तमी कारिका )
२. श्रीष्टदशामवातकपूर्वार्द्धसमुद्भूतेन प्रतीहारेन्दुराजेन उद्भटरचितस्य काव्यालङ्कारसारसंग्रहस्य लघुवृत्ती लिखितम् -
" अत एव दण्डिना ' लिम्पतीव ' इत्यादि । "
३. कन्नडभाषायां ' कविराजमार्ग ' नामक एको अन्यः राष्ट्रकूटराजकुमारेण अमोघवर्षेण लिखितः । स स्पष्टभावेन काव्यादर्शमाघारीकृत्य प्रणीत इति प्रतीयते । कविराजमार्ग - नामकस्य तस्य ग्रन्थस्य रचनाकालः ८१५ खीष्टान्दतः ८७५ खीष्टाब्दसध्यवती मन्यते ।
४. सिंहलभाषायां प्रथमराजसेनः सियासलकारा ( स्वभाषालकार ) नामक मेकं ग्रन्थं प्रणीतवान् । महावंशानुसारेण तस्य ग्रन्थस्य रचनाकालः ८६ खोष्टाब्दतः ८६६ खीष्टान्दो वर्तते । तस्मिन् ग्रन्थे न केवलं काव्यादर्श प्रभावो लक्ष्यतेऽपि तु तत्र काव्यावशंस्य नामाप्युल्लिख्यते ।
५. वामनेन काव्यालङ्कारसूत्रे यस्या रीतेः काव्यात्मत्वमास्थाय विस्तृता विवेचना कुता सा रीतिर्दण्डिनः काव्यादर्श वणिता मार्गपदेन । दण्डिप्रकाशितो मार्ग एवं वामनेन रीतिरुक्ता , अतो दण्डी वामनपूर्ववत्तितया स्योकर्तव्यो भवति वामनस्य कालश्च ७७ ९ खोष्टाव्यतः ८१३ खीष्टान्दो मन्यते ।
६. ' नीलोत्पलदलश्यामां विज्जिकां गामजानता । यैव दण्डिना प्रोता सर्वशुक्ला सरस्वती ॥ ' इति विज्जिका नामकस्त्रीकवेरुक्तिः प्रसिद्धाः । यदो विज्जिका द्वितीयपुलकेशिनो ज्येष्ठसुतस्य चन्द्रादित्यस्य विदुषी पत्नी विजय भट्टारिका एवं तदा तस्याः समयः ६६० समान्दनिकटस्थित एव ।
एभिः प्रमाणेपिउनः समयस्य परसीमा अष्टमशतकमिति मन्तव्यं भवति । वासवदत्ता - नामके सुबन्धुप्रणीते प्रसिद्ध गद्यग्रन्ये ' छन्दोविचित्तिरिव कुसुम एव । विचित्रा ' ' छन्दोविचितिरिव मालिनीसनाया ईदृशं गद्यमस्ति । ' छन्दोविचित सकलस्तत्प्रपन्चः प्रदर्शितः ' इति दण्डिनो वाक्येन छन्दोविचिति - नामकरन्यास दण्डिकृतित्वमास्थातुं शक्यते । तस्य ग्रन्थस्य सुबन्धुना स्मृतत्वे दण्डिन सुबन्धुपूर्वस्वमायाति ।
एतेन दण्डिनः समयल्य पूर्वसोमा पष्ठ शतकमिति मन्तव्यं भवति । परितने सन्दर्भ विभाव्य मेक्समूलर - वेबर - मैक्डोनल - याकोबि - प्रभृतयः विवोसो दण्डिनः समयं षष्ठयातकं मन्यन्ते । केचित्त -
' रलभित्तिषु सक्रान्तः प्रतिविम्बशतव्रतः ।ज्ञातो लङ्केश्वरः कृच्छादाञ्जनेयेन तत्वतः ॥ '
इति काव्यादर्शगतः श्लोकः माघस्थस्य निम्नलिखितश्लोकस्य च्छायामा हरति -
' रलस्तम्मेषु सङ्क्रान्तप्रतिमास्ते चकाशिरे ।एकाकिनोऽपि परितः पौरुषेयवृत्ता इव ॥ '
काव्यादर्शस्य निम्नलिखितः श्लोक :
' अरलालोकसंहायसवार्य सूर्यरश्मिभिः ।दृष्टिरोधकरं यूनां यौवनप्रभवं समः ।। '
अभानुभेद्यम् अरत्नालोकोच्छेयम् अप्रदीपप्रभापनेयम् अतिगहन हि तमो योवनप्रभवम् ' इति कादम्बरीगतं गागनुहरति ।
एतादृश्या तुलनया दण्डिनं माय - बाण - परवतिनं मन्यन्ते , परमियतेव सादृश्येन परवत्तितानियमस्येव पूर्ववत्तितानियमस्यापि कत्तुं शक्यत्वेन निश्वयत्य कस्यापि कर्तुमशक्यत्वात् ।
अन्ये पुनः - अवन्तिसुन्दरीकषायां दण्डिनो भारविराजत्वमुक्तम् । भारते . पितामहः पूर्व गुर्जरेष्ववात्सीत् । ततः स्थानात्स दक्षिणदेशस्थितमबलपुरमागतो यः ' एलिचपुर ' नाम्ना सम्प्रत्युच्यते । नारायणस्वामिनः पुनो दामोदरभारविः , तत्पुत्रेवन्यतमस्य मनोरयस्य पुत्रो वीरदत्तस्ततो दण्डो गौयाँ जनन्या जातः । इयमेव कथा तत्रोक्ता । भारवेः समयः खी ० ६३४ मन्यते , तदनुसारेण दण्डिनः सप्तमशतकान्तभागसम्भूतत्वमायाति । इति ।
काव्यादर्श'इति साक्षात्कृते देवे राज्ञो यद्रातवर्मणः ' इति रातकर्मणः उल्लेखेन पल्लवनरेशो नृसिंहवर्मा स्मयते । ' वराहेणोद्घृता यासो वराहेपरिस्थिता ' इत्यत्र वराहपदे श्लेषेण चालुक्य वंश्यनृपतीनां चिह्न स्मयते ।
एतेन सर्वेण दण्डिनः समयः सप्तमातकान्तभागः सिद्धयति । इति चाहुः ।
दण्डिनो देशः
दण्डिनो वासदेशस्य निर्णयेऽनुक्रम्यमाणे अदन्तिसुन्दरीकथा प्रमाणम् । तदनुसारेण दण्डिनः पूर्वपुरुषाः गुर्जरप्रान्तस्थिते आनन्दपुरेऽतिष्ठन् ततस्ते दक्षिणदेशावस्थितं सम्प्रति एलिचपुरसंशया प्रचमानमवलपुर नाम स्थानमायाताः तदेवं कवेर्दाक्षिणात्यभावः सिद्धयति । काशी - कावेरी - चोल - कलिङ्ग मलयानिल अभृतिदक्षिणप्रसिद्धस्थानादीनां दण्डिना कृतो भूयसोल्लेख एव प्रमाणयतयाः जोपस्थाप्यते ।
दण्डिनो दाक्षिणात्यत्वे इदमपि प्रमाणान्तरमुपन्यस्यते यत् काश्मोरदेशभवा गद्यकाव्यानि आलङ्कारिका दण्डिनो मतं प्रायशो नोद्धृतवन्तः , तन्मतं नालोचितवन्तः , अतः सुदूरदक्षिणवासित्वं निश्चीयते ।
कौशिकगोत्रोद्भवोऽयं स्वप्रपितामहस्य भारवेराश्रयदातुर्नृपस्याश्रये काञ्ची नगरे वसति स्म । काञ्चीराजे शत्रुभिराक्रमणेन पराभूतेऽयं काननेषु निलीय स्थितः । सोऽयं विप्लवः ६५५ तमे स्त्रीष्टाब्दे बभूव । तदा दण्डी बाल एवा सीत् । एतेन दण्डिनः कालोऽपि प्रकाशमानीयते ।
दण्डिनो नाम
दण्डिनो वास्तविक नाम न ज्ञायते । यथा भवभूतेषिस्य च नामविषये श्रूयते तथैव ' ब्रह्माण्डच्छत्रदण्डः ' इत्यादिदशकुमारमङ्गलाचरणस्यदण्डपदप्रयोगेण दण्डिनाम्नाऽयं ख्यातः ।
दण्डिनः कृतयः
' त्रयो दण्डिप्रबन्धाश्च ' एतदुक्तिमनुसृत्य ' काव्यादर्शः ' , ' दशकुमारचरितम् , ' ' अवन्तिसुन्दरीकथा ' इति त्रयो ग्रन्था दण्डिनः कथ्यन्ते ।
केचित् - ' छन्दोविचित्यां सकलस्तत्प्रपञ्चः प्रदर्शितः ' इति दण्डिवचनेन ' छन्दोविचिति ' नामकमपि दण्डिग्रन्थमेकं कल्पयन्ति , परं तन्न युक्तम् , छन्दो विचितिशब्दस्य छन्दःशास्त्रपरत्वात् , अत एव - छन्दोविचितिविषये ' सा विद्या नौविविक्षणाम् ' इति तच्छास्त्रस्य विद्यात्वमुक्तम् । एष एवं न्यायः कलापरिच्छेद विषयेऽपि बोध्यः । केचित्तु छन्दोविचितिमेकं ग्रंथमेव मन्यते ।
दशकुमारचरित्रम्
इदमाख्यानप्रधानमेकं कथानकम् । अत्र नानाविधा रोमाञ्चकारिण्यो घटना वणिता या विस्मयं जनयन्ति ।
अत्र क्वचिद् भयानके बने सञ्चरतां हिंस्रजन्तूनां चीत्कारः , क्वचित् समुद्रे नौमज्जनम् , क्वचिद्वेश्यावश्चनम् क्वचिद् गृहिणीगौरवम् ' एवं मिथ्यासत्यविविध घटनावलीपूर्णतया रोचकमिदं कथानकं नितान्तसजीवम् ।
दण्डिनो दृष्टिस्तात्कालिकसमाजस्य समीक्षणे तीवेति तच्चित्रन्तेन साधु स्फुटीकृतम् । समाजस्य रम्यभागोऽरम्यभागश्च समभावेनालोचितो दण्डिनो दशकुमारचरिते । दम्भी तपस्वी , कपटी ब्राह्मणः , छलपरायणो वेश्याजनश्च समेन भावेनात्र वणिताः । अपहारवर्मचरितप्रसङ्गे काममञ्जर्या नाम वेश्यया मरीचेस्तापसस्य वचनं तस्या विदग्धतामिथं चातुर्यसहकृतं च साहसिक्य प्रकाशयति । यत्र धूमिनीसमा क्रूरस्त्री चित्रिता , तत्रैव गोमिनीसदृशी पति प्राणापि ।
दशकुमारचरितगतासु घटनासु विस्मयजनकघटनानां प्राचुर्येणाद्भुतो रसः प्रधानम् । दण्डो नानाविद्यानां पारदृश्वा पण्डित इति राजनीतरङ्गवर्णने कामशास्त्रीयगूढतथ्यप्रकटने चौर्यंशास्वरहस्यप्रकाशे चासौ दक्षता प्रकाशयति । पल्लवनरेशानां छत्रच्छायासु स्थितोऽपि दण्डी राजकीयजोबनादतिविप्रकृष्टो जनसाधारणकविः । अतः सप्तमशतके भारतीयजनसाधारणस्य क्रीडासंस्थानस्य आमोदप्रमोदयोः आचारविचारयोश्च ज्ञानाय दशकुमारचरितस्य परिशीलनं नितान्तमुपकारि भवति ।
दशकुमारानुसारी भारतस्य व्यवहारः
दण्डिनः समये भारते शेवधर्मस्य प्राधान्यमासीत् । महाकालाधिष्ठिता उज्ज यिनी पीठस्थानमासीत् । तस्मिन् समये उज्जयिनी शिक्षाकेन्द्रमप्यासीत् । राज धानीषु शिवकार्तिकेययोमन्दिरं पृथक् पृथग् भवति स्म , यत्र विशेषपर्वसु राज परिवारो दर्शनाय याति स्म । क्षीयमाणविभवा जैनविहारा अभवन् , बौद्धसंन्या सिन्यो निजं सात्विकं जीवनं परित्यज्य विवाहघटनादूतीकर्म ण रज्यन्ति स्म ।
जनपदीयजनताया एक सभाभवनं भवति स्म , यत्रावसरेऽवसरे नृत्यादिकमा योज्यत । कामोत्सवो वसन्ते क्रियते स्म । कुक्कुटयुद्धस्य प्रचार आसीत् । आग न्तुकजनसत्काराय कपूरवासितताम्बूलदानस्य प्रथाऽसीत् । वाणिज्यव्यवसायस्य प्रचुरताऽवर्त्तत । अधुनेव व्याघ्रचर्म विक्रीयते स्म । कूपाज्जलोदचनाय बंशनली व्यवह्रियते स्म ।
दशकुमारस्य साहित्यवैभवम्
दशकुमारस्य कथाग्रन्थतया कथानककृतं मनोरञ्जकत्वमत्रोचितमात्रायां निहितं , वर्णनानां स्वल्पतया कथासूत्रस्य व्यवच्छेदो न जायते ( यथा कादम्ब यादी व्यवच्छेदो जायते ) , अवान्तरकथा अपि प्रधानकथापरिपन्धितया नोद्ध वन्ति । दशकुमारगता गद्यशैली सुबोधा सहसा प्रवाशालिनो च । दशकुमारस्य गद्यं न श्लेषण सङ्कीर्णम् , न वा दीर्घसमासेन विषमीकृतम् । अत एव दण्डिनो दशकुमारस्थितं गद्य पाठकानां मनसि वैरस्यं न सृजति ।
वस्तुतो दण्डी गद्य व्यञ्जनाक्षमस्य सरससरलस्य च प्रवाहस्य प्रवर्तको मन्यते । अर्थस्य स्पष्टता , मनोरमा अभिव्यञ्जनाशक्तिः , पदानां लालित्यं चेति दशकुमारस्यासाधारणा गुणाः ।
दशकुमारस्य स्वरूपविषये किवान भ्रमो लोके प्रतिवर । दशकुमारचरितं पूर्वपीठिका उत्तरपीठिका चेति भागद्वयात्मकम् प्रथते । तत्र पूर्वपीठिका न दश नापि उत्तरपीठिका दण्डिनः कृतिरिति श्रमः प्रचरति स्म । सम्वति ' अवन्तिसुन्दरीकथा ' आधीयते ।
कुमारचरिताङ्गम् नामकस्य दण्डिनो गद्यग्रन्थान्तरस्योपलब्ध्यात्र श्यमवन्तिसुन्दरीकथैक दण्डिनो मौलिकी रचना । अस्या अनुपलब्धौ एत पूर्वपीठिकारूपेणादौ योजिता । एवं दशकुमाचरितं पूर्णतां नीतम् ।
मूलग्रन्थ - पूर्वपीठिकयोः कथावैषम्यस्येदमेव निदानम् । मूलमन्ये अष्टानामेव कुमाराणां चरितं विद्यते , दशकुमाराणां पूर्तये पूर्वपीठिकायां द्वयोश्चरितं धनपालात्परवती अज्ञातकालो वादीसिहोपात ओड्यदेवो बाणस संस्कृतसाहित्येतिहासः वर्णितम् । तदेवं पूर्वोत्तरपीठिकायुतो मूलग्रन्थ एवं दशकुमारनाम्ना प्रयतेति बलदेवोपाध्याया आहुः ।
कतिपये अन्ये गद्यलेखकाः
बाणभट्टादनन्तरमपरेऽपि कतिपये लेखका गद्यसाहित्यलेखाय प्रयास वन्तः परन्तु तेषु कियन्त एव साफल्यं समधिगतवन्तः । तत्र कारणमिदमेव गद गद्यसाहित्यप्रणयनमीपत्करं नासीत् । दण्डी यदांशिक साफल्यमासादितवास्तव तस्य चातुर्योपनतं शैलीपरिवर्तनमेव प्रधान कारणम् ।
बाण तरकालभाविनः परे कवयो यद् गद्यकाव्यानि प्रणीतवन्तस्तद् बाणा नुकरणमात्रा । बाणस्य शैली यथाशक्ति पुरस्कृत्य गद्यप्रणयने कृतोपक्रमेषु कविषु तिलक मञ्जरीप्रणेता धनपालः वादीसिहोपाह्न ओञ्चदेवश्च प्रख्यातौ ।
धनपाल :
धनपालः पाराधिपतेराश्रये स्थित्वा तिलकमञ्जरी नाम कथाग्रन्थं प्रणीत वान् यत्र समरकेतुतिलकमञ्जयोंः प्रणयकथा वणिता । अयं धनपाल : खीष्ट दशमश्तके वर्तमान आसोदिति बहूनां विदुषां मतम् । अनेन धनपालेन ९ ७२ तमे खष्टाब्दे ‘ पैयलच्छि ' नामा प्राकृतकोषः ऋषभपञ्चाशिका नाम जैनतीर्थङ्क : रस्य ऋषभस्य प्राकृतस्तोत्रग्रन्थश्च कृतः । धनपालः स्वयमेव बाणकृति स्वकुले । रुत्तमर्णतया स्तुतवान् ।
वादीभसिंह ओडपदेवः
कृतेरनुकरणे गद्वचिन्तामणि नाम जीवनधरचरितग्रन्थ निर्मितवान् । इदमेयो । पाख्यान जीवनधरचम्पूरप्युपजीवति ।
इतरे गद्यलेखकाः
१.अगस्त्यः - कृष्णचरितम् - चतुर्दशशतकम् ।
२. अम्बिकादत्तव्यासः - शिवराजविजय - एकोनविंशशतकम् ।
३. बदरीनाथशा - गुणेश्वरचरितम् - विशशतकम् ।
४. नारायणखिस्ते विद्वच्चरितपञ्चकम् विशशतकम् ।