बाणभट्ट

बाणभट्ट

        प्राचीनश्चीनदेशोद्भवो यात्री ह्वेनसांगनामा ६२ ९ तः ६४५ स्त्रीष्टीयवर्ष पर्यन्तं भारत बनाम । स हि स्वपात्रावर्णनप्रसङ्गे उत्तरभारतसम्राजो हर्षदेवस्य सविस्तर वर्णनं कृतवान् । महाराजहर्षदेवः ६०६ ईशवीयसमयादारभ्य ६४८ पर्यन्तं थानेश्वरनामनि स्थाने राज्यं कृतवान् । स चाय हर्षः बाणभट्टेन स्वीये हर्षचरिते सविशेषं वर्णितः । एतेन बाणभट्टस्य तत्समयत्तित्वं प्रमीयते । तथा च बाणस्य समयः सप्तमशतकं सिद्धयति । बाणभट्टो वात्स्यायनशे जन्म गृहीतवान् । तत्पूर्वजा विहारप्रान्तस्थितस्य शोणाख्यस्य हिरण्यवाह्वपरनामकस्य महानदस्य तटे प्रीतिकूटनामके गामे न्यबसन् । तस्य पिता चित्रभानुः , माता च राज्यदेवी आसीत् । 
बाणभट्ट

बाणेन हर्षचरिते यः स्ववंशपरिचयः प्रदत्तः स निम्नलिखितवंशवृक्षतः सुखावगम्यः । 

कादम्बर्या वंशवर्णने पाशुपतस्य नाम नायाति , मन्ये पाशुपतोल्लेखमुतः श्लोको लेखकप्रमादादिना केनापि हेतुना परिभ्रष्टः स्यात् । 
बाणभट्टो देशाटनं बह्वकामयत , अतस्तं लोको दुराचारं मत्वा बहूपजहास । देशभ्रमणेन तस्य प्रज्ञानप्रकर्षे महाँल्लाभो जातः । देशाटनात् परतः से स्वगृहे वस्थाय शास्त्राणामध्ययने प्रावतंत ।

        श्रीहर्षानुपतिना कृते बाहाने सतत्समीपं गतः । प्रथम तु सोराति माणविगानं मनसिकृत्य श्रीहर्षस्तुं न साधु सत्कृतवान , परतुपाचा वरद  गुणगणपरिचये जाते नृपस्तं बहु मेने ।

 वाणस्य जीवन दरिद्रतामयं नासीत् तस्य समीपे पैतृको सम्पत्तिा अपुर मापायामबर्तत । राजाश्रयलाभेनापि सानुदिनीपत । अतस्तदीय जीवन सुखपूर्वकमत्यगात् । 

 उत्तरार्ध - कादम्बरी बाणभट्टस्य पुषेण इता । बाणेन हर्षचरित म्पपरित प्रस्ताने पुषस्य नाम नोल्लिखितम् । डा ० मूलरमहोदयानुसन्धानेन वागतनपस्य नाम भूषणभट्ट इत्यापाति । भग्दारकरमहापापस्तु पुलिनभट्टनामानमाह । केचिदन्ये तं पुलिग्मनाम्ना स्मरन्ति । 

बाणभट्टेन ग्रन्थद्वयमेव गद्यमार्य प्रणीतम् - 

1. हर्ष चरितं ,२. कादम्बरी। 

चण्डिकाशतकम , पार्वतोपरिणयः , मुकुटताडितकम् इति भयो प्रबन्या स्तनाम्ना प्रथिता अपि वस्तुतो न तस्य कृतयः ।

     पार्वतीपरिणयो हि ससदसयतकोत्पलेन केनचिए बामनभट्ट - बाणेन कृतः । मुकुटताडितक यद्यपि नलवम्यूटीकास्ता चन्द्रपालेन स्मृतं तथापि मासीवाण कतिरिति विदुषां सम्मतिः । पम्भिकायतकम् अपि बागकृतत्वेन सोचतु नोत्सहन्ते सुधियोतो अन्यायमेव बागस्येति निश्चित्य बस्तुं शक्यते । 

बाणस्य हर्षचरितम् 

' करोम्याख्यायिकाम्भोधी जिताप्लवनचापलम् ' इति हर्षचरितोकादिया हर्षचरितस्यात्यायिकापन्थरूपत्वं प्रतीतम् । नेदं साधारण परितपुस्तकमपि तु सरसं काव्यमिति वर्णनेषु सजीवतामानेतुमंत्र प्रयासः कृतो बेयः । 

अत्र ग्रन्येऽटो उच्छ्वासास्तवाये उच्छवासाये बाणेन स्वीया या लिखिता । चतुर्था दुरवासादारभ्य समाप्तिपर्यन्त हर्षस्य चरितं गणितम् । हांस्य पितरो . यशोमती प्रभाकरवर्धनी आस्ताम् । ज्येष्ठो भाता राम्यवान स्वर हर्षवर्धनः स्वसा राज्योः चतुर्य उच्छवासे राजकुमारयोस्तत्वमुश्च जन्मा वृत्तानि , पचमे राजकुमारयोविजययात्रा । माना जयाय गते राज्यवानि हर प . मृगयां गते प्रभाकरवर्धनो मृतकल्लो जात इति श्रुत्वा हयों मृगया तो निकृष्ः । पष्ट उच्छवासे राज्यवर्धनस्य परावर्तनम , बहवर्मणो मृत्यु , राज्यथियो बन्दी भारः , राज्यथिय उदराय राज्यवर्धनस्य प्रस्थानम् , गोदेवरसाद्वारा तस्य अपाच । सप्तमे हर्षस्य दिग्विजययात्रा , मालवेवरविजयः , अष्टमे राज्यथितः माप्तिः , दिवाकरमित्राख्यबौद्ध भिक्षुणा सङ्गतिः । इतीयती मूलकमा विस्तरे वणिता ।

बाणस्य कादम्बरीवद् इदमपि हर्षचरितमपूर्णमेव स्थितम् । तत्रापि कारणं कुवेरसामयिक मरणमेव मन्यन्ते विचारकाः ऐतिहासिकांश वर्जयित्वा सन्दर्भोज्य सर्वथा काव्यलक्षणोपेतः ।
  
 ' ओजः समासभूयस्त्वमेतद् गद्यस्य जीवितम् ' 
इति गयं विशेषयतामाल वारिणां मते गद्यलेखकानां मूर्धन्यो बाणः गद्यकाव्यानां प्रथमं च हर्षचरितम् । पाञ्चालीरीतेभक्तो यथा बाणस्तथा नापरः कोऽपीति च । व्यञ्जनाप्रयोगे संस्कृतसाहित्यात वक्रोक्तिरचनायां च बाणः सकलकविमूर्धन्यः ।

 हर्षचरितं केवलमत्तमगद्यकाव्यभावेनैव नात्यादरणीयमपि तु सप्तमशतकस्य स्फुटतिहासभावेनापि प्रशस्यतमम् ।

 हर्षचरिते यदेतिहासिकमितिवृत्तं वणितं तत्कस्मिश्चिदयंशे तात्कालिकेति . हासान्न भिद्यते । हपचरिते तात्कालिकोत्तरभारतस्य स्थितिः प्रकटं प्रकाश्यते । सप्तम उदासे वन्यप्रामाणां तत्रत्यगृहाणां वर्णनं नितान्तं स.यं सरसञ्च । तस्मिन् कालेऽपि भारतं सांस्कृतिकदृष्टया रमणीयमासीदेतत्सत्यं तदा प्रतीयते यदा वयं हर्षचरिते वेशभूषयोः आचारविचारयोः सेनासंस्थानस्य च वर्णनं पठामः , राज्यथियो विवाहावसरे शिल्पिभिः स्वानुरूपाणि यावन्ति भूषणानि समपितानि , रजकैश्च यादृशानि निबध्य रजितानि वस्त्राणि प्रस्तुतानि तेषां वर्णनेन तात्कालिकी भारतीया सांस्कृतिको स्थितिः करामलकवद् भासते । 

बाणभट्टस्य कादम्बरी 

    बाणस्य कादम्बरी कथाग्रन्थः । स्वयमेव कविना - ' धिया निबद्धयमतिद्वयी कथा ' इति कादम्बर्याः कथाग्रन्थत्वमुक्तम् । कादम्बर्यामुक्ताकथा गुणाढ्यकृताया बृहत्कथाया गृहोता , साम्प्रतमुपलब्धियद्यपि बृहत्कथाया नास्ति तथापि भूत भाषामयो अद्भुतार्था च सा बृहत्कथा बाणकाले लभ्याऽऽसीदिति वक्तुं शक्यते । बृहत्कथातो नृपसुमनसः साधारणी कथामादाय बाणभट्टा काव्यकलानैपुण्येन तस्यां विशेषानुत्लाद्य कादम्बरो निबद्धवान् । 

    कादम्बर्याः कवा जन्मत्रयवृत्तान्तमङ्गीकरोतीति जटिला । एका कथा कथान्तरमुद्भावयतीति प्रथमा कथा सावशेषेव द्वितीयस्याः कथाया अवसान प्रताक्षमाणा तिष्ठति , एवमपरापि कति कथासाकार्यमत्र विद्योतते । 

    विदिशायां शूद्रको नामा राजाऽसीत् । एकदा चाण्डालकन्यका एवं पञ्ज एस्थं शुकं तस्मै उपाहरल् । नृपेणागृहीतः स शुकस्तस्मै स्वपूर्वजन्म  de तवान् । जन्मकाल एवं मम माता मृता , तातोऽपि लुब्धकारितः , वृक्षादधः पतित भूमौ सरन्तं मां जाबालिशिष्यान्यतमो दययोत्थाप्य स्वगुरोराश्रम नीतवान् । जाबालि वृत्तान्तमित्थमकथयत् । उज्जयिन्यां तारापोडो नाम राजाऽऽसीत् , तस्य स्त्री विलासवती , शुकनासश्चामात्यः । प्रौढे वयसि 

    नृपस्य पुत्रः चन्द्रापीडो नाम जातः । शुकनासस्य सुतश्च वैशम्पायनो जातः । तो प्राप्तवयसौ गुरुकुले शिक्षितो । शुकनासो राजपुत्र यथोचितमप दिष्टवान् । दिग्विजयप्रवृत्तो राजकुमारश्चन्द्रापीडः गन्धर्वमिथुनमनुधावन् एकं सरोऽच्छोदं दृष्टवान् । तत्र महाश्वेता नाम कापि सुन्दरी तप प्रवत्ता दृष्टा या स्ववृत्तान्तमुक्तवती । मया पुण्डरीकनामके मुनितनये स्नेहः कृतः , स , लोकान्तरं गतः , तमनु कर्तृकामां मां कापि दिव्याङ्गना भूयोऽपि युवयोः सङ्गमो भावोति ' मा विबोध्य तच्छरीरं लोकान्तरमनेषीत् । महाश्वेतैव चन्द्रापीडाय कादम्बरोवृत्तमुक्तवती । कादम्बरीचन्द्रापीडयोः साक्षात्कारे जाते द्वयोरनुराग उदिवाय । तदेव पितुत आगते चन्द्रापोड : स्वां राजधानों प्रति निवृत्तः । कादम्बयाँ चन्द्रापीडविरहे देहं त्यक्तुमुद्यतायां सत्सखी पत्रलेखा तो सान्त्वयित्वा चन्द्रापीडस्य समोपमागत्य तदवस्थां तस्मै न्यवेदयत् । 

    एतावती कथा वाणेन लिखिताजतनी तत्तनयेन । 

    चन्द्रापीडो राजधानी गच्छन् वैशम्पायनं तदनुरोधान्महाश्वेताया आश्रम एवं स्थापितवान् । पत्रलेखया सह यदाऽसी पुनस्तत्रायातस्तदा वैशम्पायनं तत्र दृष्ट्वा परं शोकमाप्तो महाश्वेतया सूचितो यत्तव सखा ब्राह्मणकुमारो मां कामयमानो मया शुको भवेति शप्तः शुको भूतः । तच्छुत्वेव चन्द्रापोडः प्राणान् विससर्ज । अब कादम्बरी तदवस्थं चन्द्रापीडं दृष्ट्वा बह्वव्ययत । ततः कादम्ब रीमहाश्वेते ' शापवशाच्चन्द्रापीडः प्राणेवियुक्तः , अस्य देहः संरक्ष्यताम् , पुनरपि युवयोः युष्मद्दयिताभ्यां सह सङ्गमो भावो'ति दिव्यां वाचं श्रुत्वा तथैव तस्वतुः । इन्द्रायुधो नाम चन्द्रापीडस्याश्वस्तत्क्षणं तदेव सरोऽगाहत । तत्स्थाने पुण्डरी कस्य सखा कपिञ्जलः सरसो निर्गस्य कादम्बरीमहाश्वेते सूचितवान् यत् चन्द्रापोडश्चन्द्रस्य , वैशम्पायनः पुण्डरीकस्य , इन्द्रायुधश्च कपिञ्जलस्यावतारा आसन् । 

    एवं महर्षिमुखात् कथायाः श्रवणान्सरं मम ' अहमेव प्राक् पुण्डरोका वतारो वैशम्पायनं इति ज्ञानमजायत । साम्प्रतं शापावधेः प्राप्तत्वात् शूद्रकस्य देहत्यागः कादम्बरीभुजान्तरा लगतस्य चन्द्रापोडस्य सुप्तोत्थितस्येव विबोधः , पुण्डरीकस्य समागमनश्चा ततश्चन्द्रापीडः कादम्बरों पुण्डरोकश्च महाश्वेतामुपयेमाते , अविरहितं च प्रभृति तदम्पतियुगलमिति कादम्बर्याः कथा । 

कादम्बर्या विशिष्टता 

    कादम्बर्याः पात्रचित्रणम् अत्युत्तमम् पात्राणि खल्वत्र तावत्या सजीव तया चित्रितानि यथा तानि प्रत्यक्षदृश्यतामिव यान्ति । राजा शूद्रका , जाबालिः , तारापोडः महाश्वेता , कादम्बरी चेति सण्विपि पात्राण्यनेन तथा वणितानि यथा तानि वाचकानां पुर स्थितानोव प्रतिभायन्ते । एकत्र पाठको यदि शबरसेनाप्रयाणं पठित्वा विस्मयाविष्टो जायते , जाबालेरावमं दृष्ट्वा स्तिमि तान्तःकरणो भवति , तदापरत्र स एव कादम्बर्या महाश्वेताया वा वर्णनं पठित्वा लोकान्तरसमुपस्थित इवाच्छोदसरसो वर्णनं श्रुत्वा कुतुकाकुल इव सुधासिक्त इव च जायते । 

    एकतो यदि शुकनासोपदेशमधीत्य हृदयं निर्मलदर्पणता नपति तदाऽपरत्र राजान्तःपुरवणनं श्रुत्वा हृदयं रजयति । प्राकृतिकवस्तूनां वर्णनेऽपि बाणस्य कादम्बरी न कुतोऽपि हीयते । जाबालिमुनेराश्रमे – ' परिचितशाखा मृगकराकृष्टिनिष्काश्यमानप्रवेश्यमानजरदन्धतापसम् ' इति दृशोः पुरस्तात् ' किमपि प्राणिभेदानामैक्यमिव दृश्यते । ' कदम्बशाखाधिरूढहरिकृतजलप्रपातम् ' इति च पठित्वा वाचकः सास्तन्न सन्निहितमिवात्मानं भावयति । 

    कवितायां यावत्कलापक्षस्य विभावनं तावत्यंशेऽलङ्काराणां सन्निवेशोऽर्थ चयने शब्दगुम्फने च न केवलं गद्यकाव्यान्येवापि तु समस्तमपि संस्कृत भाषानिबद्ध वाङ्मयमतिशय्य वर्तते कादम्बरीति कथनं नात्युक्ति स्पृशति । 

' नवोऽर्यो जातिरग्राम्या इलेषोऽक्लिष्ट स्फुटो रसः । 
विकटाक्षरबन्धन कृत्स्नमेकत्र दुर्लभम् ।। 
इति दुर्लभत्वेन यदुक्तं तदत्र कादम्बर्या सुलभमिति महद्गौरवजनकमस्य कवेः । 
    
    बाणस्य कादम्बर्या तत्तदलङ्काराणो यादृशो मनोरमः प्रयोगः संस्कृत साहित्येन्यत्र दुराप इति प्रागुक्तम् । तत्रोदाहरणरूपेण कतिचनोद्धरणानि प्रस्तूपन्ते , यथा -
' प्रावृषमिव घनकेशजालाम् , शरदमिव विकसितपुण्डरीकलोचनाम् '
     अत्र यादृशः श्लेषः , तदुत्यापिता चोपमा यादृशी , तदुभयं मिलित्वा स्वर्णे सुगन्ध सृजतीव । अतिशयोक्तबहुलेऽपि प्रयोगे -
     अथ परिसमाप्तमीक्षणयुगलस्य द्रष्टव्यदर्शनफलम् , आलोकितः खलु रमणीयानामन्तः , दृष्ट आह्वादनीयानामवधिः , वीक्षिता मनोहराणां सीमान्त लेखा , प्रत्यक्षीकृता प्रीतिजनानां परिसमाप्तिः , विलोकिता दर्शनीयानामवसान भूमिः । ' सुभगपदावलिगुम्फितेयमतिशयोक्तिः श्रुतमात्रेव मनो मदयति । 

रशनोपमाया निम्नलिखिते प्रयोगे यौवनवर्णनस्य काऽपि नवव विच्छित्तिः -
   
' क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन, मधुमास इव नवपल्लवेन , नवपल्लव इव कुसुमेन , कुसुम इव मधुकरेण , मधुकर इव मदेन नवयौवनेन पदम्'

 परिसंख्यापाः प्रयोगेऽप्ययं कविः ' निरन्तरश्लेषषनां सुजाति महानों चम्पकपुष्पकैरिव ' रचिला कवितामुपस्थापयति , यथा -
' यत्र वयःपरिणामें द्विजपतनम् , उपवनचन्दनेषु जाचम् अग्नीनां भूमिमत्त्वम् , एणकानां गीतव्यसनम् , शिखण्डिनां नृत्यपक्षपातः भुजङ्गमानों भोगः , कपीनां श्रीफलाभिलापः , मूलानामधोगतिः । ' 
    न केवलमलङ्काराणामुपस्थापन एव , अपितु कवितापा उद्देश्यस्य सत्यं शिवं सुन्दरमिति विशेषितस्य लोककल्याणस्यापि निवेशने बाणो जागरूक हो । तदीयकादम्बरीपरिशीलनेन प्रतीयते। 

    पुण्डरीकवियोगे तपन्त्या महाश्वेताया हार्दिकभावानामुपस्थापनेन बाणो वाचकानां हृदयेषु भावस्थिरस्य जननान्तरसौहृदस्य स्वरूपम् , अतीतवत्र्तमान योर्जीवनयोरेकसूत्रनद्धं प्रणयप्रकर्षम् , सत्ये प्रेमणि मर्यादाया अनुल्लङ्घनं च स्थिरयति । चन्द्रापीडवियोगे कादम्बर्या अवस्थां वर्णयन्नयं कविः मनोविज्ञानस्य ज्ञानं प्रकाशयति । 

    अयं बाणो यत्र दीर्घसमासां वाक्यालि विन्यस्य वाचकाना पुरतो वर्णन बाहुल्यस्तूपमुपस्थापयति तत्रैव लघुवाक्यानां प्रयोगेऽपि न मन्दायते । एतेन तत्प्रतिभायाः सर्वमुखत्वं प्रकटीभवति । कपिञ्जलः पुण्डरीकं कामपीडित मुपदिशति -

' नेतदनुरूपं भवतः क्षुद्रजनक्षुण्ण एष मार्गः , धैर्यधना हि साधयः , कि यः कश्चित्प्राकृत इव विकलीभवन्तमात्मानं न रुत्सि , क्व ते तद् धेर्यम् , क्वासा विन्द्रियजयः।' 

एवमेव शुकनासोपदेशे – 

' इयं हि लक्ष्मीः पारिजातपल्लवेभ्यो रागम् , इन्दु शकलादेकान्तवक्रताम , कालकूटान्मोहनशक्तिम् , मदिराया मदम् , उच्चे : श्रवसश्चञ्चलताम इत्येतानि सहवासपरिचयवशाद् विरहविनोदन , चिह्नानि गृहीत्वेव सागरादुत्थिता । ' 

लब्धापि दुःखेन पाल्यते , न परिचयं रक्षति , नाभिजनमोक्षते , न रूप मालोकयते , न शीलं पश्यति , न वेदग्ध्यं गणयति । '
     न केवलमेतावदेव , उत्तमानामिव नीचानामपि पात्राणां वर्णने सजीवत्व मनेन सृष्टम् , अच्छोदादिविविध-प्राकृतिकवस्तुवर्णने साधु साफल्यमासादितम् , सर्वतः प्रकृष्टं चास्य सर्वत्र समानं भाषासमृद्धत्वम् ।         
    
    भाषासमृद्धिमालोक्यैव पाश्चात्त्या बागस्य कादम्बरीमरण्यानी मन्वते । तेषां मते बाणस्य गद्यं खलु तद् भारतीयमरण्यं यत्र क्षुपोच्छेदं विना मार्गो दुर्लभः , यत्र च बहवः अप्रतीतार्थाः शब्ददन्दशूकास्तत्र प्रविविक्षन प्रतीक्षमाणाः निलीय स्थिताः । 

    वस्तुतस्तु बाणस्य गद्यं महाविशालसप्तभूमराजप्रासादोपमम् , यत्र क्वचन प्रकोष्ठे रमणीयाकृतिविशिष्टपरिधानोपबृंहितं रमणीचित्रम् क्वचिन्मृगयोप युक्तनानाजीवस्य चित्राणि , क्वचित्कलकलनादिनी खरस्रोता नदी चित्रिता , क्वचित्तपोभूमिनिदर्शिता , क्वचिच्च निष्पतच्छरभीषणा रणभूमिरङ्किता । तत्र प्रासादे प्रविष्टश्च कश्चित् पामरो यदि किमप्यलौकिक चित्रं वीक्ष्य भवमनु भवति , तद्भवनं च तेनैव दोषेण दूषयति तदा न तत्र भवनशिल्पिनो दुष्यन्ति , तथैव कादम्बर्यामपि बोध्यम् । 

    संस्कृतभाषाकविषु बाणभट्टसमानः कोऽपि शब्दचित्रप्रस्तुतो सिद्धहस्तो नाभूदिति कथनं नितान्तसत्यम् । साधारणतोऽन्ये कवयो घटनां वर्णयन्ति , बाणस्तु चित्रोपस्थापनद्वारा कथा विस्तारयति , अत एव तस्य कथा मन्द चलति । 

    प्रभाते जायमाने कवयोऽन्ये रक्तमाकाशं वर्णयित्वा सूर्योदयं प्रस्तुवन्ति सा च रक्तता साधारणी , बाणस्तु रक्ततायां क्रमशो जायमानौ प्रकर्षापकर्षों नानाविधरुपमानानश्चित्रयति 

' एकदा तु प्रभातसन्ध्यारागलोहिते गगनतले कमलिनीमधुरक्तपक्षसम्मुटे वृद्धहंस इव मन्दाकिनी पुलिनात् अपरजललनिधितटमवतरति चन्द्रमसि परिणत रकुरोमपाण्डुनि व्रजति विशालतामाशाचकवाले गजरुधिररक्तहरिसटालोमलो हिनीभिः आतप्तलाक्षिकतन्तुपालाभिः आयामिनीभिरशिशिरकिरणदोधितिभिः परागशलाकासम्मार्जनीभिरिव समुत्सायमाणे गगनकुट्टिमकुसुमप्रकरे तारागणे , एतत्सकलमपि वैशिष्ट्य मनसि निधायैव गोवद्धनः प्रोक्तवान् - 
' जाता शिखण्डिनो प्राग्यथा शिखण्डो तथाऽवगच्छामि । 
प्रागल्भ्यमधिकमासुं वाणी बाणो बभूवेति ।। ' 

बाणस्य प्रातिस्विकं वैशिष्ट्यम् 

१. संस्कृतभाषाकविषु बाणभट्टः स्वविषये बहु प्रामाणिक वस्तु हर्षचरिते निर्दिष्टवान् , येन तद्रचनाकालेन समं रचयितुरपि च नृपतेः कालः प्रमाणीकृतो भवति . ऐतिहासिकयुगान्तरकालनिर्धारणेऽपि सोविध्यमाधीयते । कादम्बरी इति तदुत्तरमुपस्थापितवान् बाणः । 
२. ' व्यावहारिकसंस्कृतभाषायां गद्यं कीदृशं स्वरूपमपेक्षते ' इति प्रश्ने 
३. गद्यकाव्यप्रकोपस्थापनद्वारा कथासाहित्यस्य सूत्रमग्रगामि कृतवान् । 
४. उपन्यासे कथायाः पर्यवसानं यावन्निनुतं तिष्ठति , पाठकास्तावदुत्क ण्ठितरूपेण ग्रन्थपारायणसमाप्ती प्रयतन्ते । कादम्बर्यामुपस्थापिता कथा तत्रांशे सर्वथा सफलेति । 
एवमादि वाणख्यात्ममात्रगतं वैशिष्ट्यन् । 

उत्तरार्धकादम्बरी 

यावन्तो गुणाः पूर्वाद्धकादम्बर्यामुक्तास्तावन्त एव मात्रायां किञ्चिन्यूना उत्तरार्द्धकादम्बरीग्रन्थेऽपि विद्यमानाः सन्ति । उत्तराद्धंकादम्बरी बाणस्य पुत्रो भूषणभट्टः पुलिनभट्टः पुलिन्ध्रभट्टो वा निर्मितवान् । 

बाणप्रारब्धा कथाऽर्धमार्ग एवासीत् , कवि यक चन्द्रापीई कादम्बर्याः सविधे समुपस्थापितवानेवासीत् तदैव क्रूरकालेन कपिर्लोकान्तरं नीतः । तदा तत्पुत्रः कथासमापनमात्रबुद्धपोत्तरार्द्धकादम्बरी प्रथितवान् । 

' याते दिवं पितरि तयसैव सार्ध 
विच्छेदमाप भुवि यस्तु कथाप्रबन्धः । 
दुःखं सतां तदसमाप्तिकृतं विलोक्य 
प्रारब्ध एव हि मया न कवित्वदात् ॥ ' 

एवं लिखन् वाणस्य पुत्रः स्वीयं नम्रत्वं व्यञ्जयति । किञ्च -
' कादम्बरीरसभरेण समस्त एवं मत्तो 
न किञ्चिदपि चेतयते जनोऽयम् । 
भीतोऽस्मि यन्न रसवर्णविजितेन 
तच्छेषमात्मवचसाऽप्यनुसन्दधानः ॥ '

 एवं स स्वीयनम्रताव्यञ्जनपूर्वक कादम्बरीग्रन्थस्य पूर्तः सकलसहृदयवर्गो पेक्षितत्वं प्रकटीकरोति । 

बाणपुत्रस्य नाम 

डा.बूलरमहोदय : ' Dr. Steen's Catalogue of Sanskrit Mss , at Jammu ' नामके निबन्धे कादम्बरी पूरितवतो बाणपुत्रस्य नाम भूषणभट्ट इति लिखितवान् । प्रो ० भण्डारकरमहोदयस्तस्य नामाधुनिकानुसन्धानाधारण पुलिनभट्ट इत्युक्तवान् 

पुलिन भट्टस्य पाण्डित्यम् 

पुलिनभट्टोऽयं स्वपितेव महापण्डितः सुकविश्चेति तद्ग्रन्थेनैव प्रमाणो क्रियते । पूर्वार्दोत्तरार्द्धयो रचनायां यावत्तारतम्यं दृश्यते तावदेकक'कग्रन्थ योरपि सम्भवति , अतः पुलिनस्य न्यूनविद्यत्वं न शकनीयम् । इदं तु सत्यं यद्यपि बाण . स्वयं ग्रन्थमिमं पूरितवानभविष्यत्तदात्र ग्रन्थेऽव त्यमधिकश्चमत्कार उत्पन्नोऽभविष्यत् , कालवृद्धिरप्यजायत ।