सुबंधु

सुबंधु

गद्यस्य साहित्यिक स्वरूपं प्रकटोकृत्यात्मानं गौरवान्वितं कृतवत्सु कविषु सुबन्धुरेव प्रथमत्वेन प्रतिपन्नः सर्वः । तस्य सुबन्धोः समयः कः ? विचार्यते 

 १. अयं सुबन्धुः स्वग्रन्थे 
' सारसवत्ता विहता नवका विलसन्ति चरति नो कछुः । 
सरसीव कीतिशेष गतवति भुवि विक्रमादित्ये ॥ ' 
इत्यादिना यं विक्रमादित्यं स्मरति स कतमो विक्रमादित्यः ? अस्मिन् प्रसङ्गे धिका आलोचका मिहिरकुलनामकस्य हूणराजस्य पराजेता बालादित्यसखो यशोधर्मा एवार्य विक्रमादित्य इति निर्णयन्ति , यशोधर्मणः समयश्च षष्ठशतकस्य वासवदत्ता गद्यकाव्यानि १५३ मध्यभाग इति निर्णयन्ति । एतेन सुबन्धोस्समयः षष्ठातकस्य पूर्वभाग इति वक्तुं शक्यते । .
सुबंधु

२. बाणभट्टः सुबन्धोः कथा ' धिया निबद्धेयमतिद्वयी कथा ' इत्येव स्मरति । बाणः सप्तमशतकोत्पन्न इति सुबन्धोस्ततः पूर्ववत्तित्वेन सुबन्धोः षष्टशतकपूर्व भागभवत्वं युज्यत एव । 

३. सुबन्धः स्ववासवदत्तायां एलेषद्वारा उद्योतकर स्मरति - ' न्यायस्थि तिमिवोद्योतकरस्वरूपाम् । ' उद्योतकरस्य चास्य समयः पठसप्तमशताब्दयो रन्तराले मन्यते । एभिनिदर्शनेः सुबन्धोः समयः षष्ठशतकं मन्यते । आदिम घरमभागादि विशिष्य निर्णयस्तु स्फुटप्रमाणाभावादसुकर एव । 

वासवदत्ता

वासवदत्तानामक एक एव गुन्थः सुबन्धुकृतत्वेन प्रथते । कल्पितकथाया अस्या आख्यायिकाया नामकरणमुदयनकथाप्रसिद्धाया वासवदत्ताया नामानु ध्यानमूलकमेवेति मदीयस्तर्कः । अस्या एव वासवदत्तायाः प्रयांसायां बाणभट्टी लिखति हर्षचरिते -
' कवीनामगलद्दषों नूनं वासवदत्तया । 
शामत्येव पाण्डुपुत्राणां नूनं वासवदत्तया । ' 
        शब्दार्थालङ्काररससौष्ठवेवासवदत्तायास्तुलायां कोऽप्यन्यो गद्यगून्यो नास्तीति तदध्ययनेन प्रतिभासते । तत्र -

शब्दसौष्ठवं यथा - 

' अभूदभूतपूर्वः सर्वोपितिचक्रचूडामणिश्रेणीशाणकोण कषणनिर्मलीकृतचरणनखमणिनृसिंह इव दशितहिरण्यकशिपुक्षेत्रदानविस्मयः , कृष्ण इव कृतवसुदेवतर्पणः , नारायण इव सौकयंसमासादितधरणिमण्डलः , कंसारातिरिव जनितयशोदानन्दसमृद्धिः । 

विरोधाभासो यथा - 

' विद्याधरोऽपि सुमनाः , धृतराष्ट्रोऽपि गुणप्रियः , क्षमानुगतोऽपि सुधर्माश्रितः , बृहन्नलानुभावोऽप्यन्तःसरलः , महिषीसम्भवोऽपि वृषोत्पाद्यः , तरलोऽपि महानायको राजा चिन्तामणीनमि । ' 

परिसङ्ख्या यथा - 

' छलनिगृहप्रयोगो वादेषु , नास्तिकता चावकिप , कण्टक योगो नियोगेषु , खलसंयोगः शालिषु द्विजिह्वसङ्ग्रहीतिराहितुण्डिकेषु , नेत्रोत्पा टन मुनीनाम् , द्विजराजविरुद्धता पङ्कजानाम् , सूचीभेदो मणीनाम् । '

     वासवदत्ताया आख्यायिकान्यतया कतिचन इलोका अपि यत्र तत्रात्र निवेशिता विद्यन्ते , यैरस्य सुबन्धोः पद्यप्रणयनुपाटवं प्रकटं प्रतीयते । यथा- 

' अविदितगुणाऽपि सत्कविभणितिः कर्णेषु वमति मधुधाराम् । 
अनधिगतपरिमलाऽपि हि हरति दृशं मालतीमाला । ' 
" विषधरतोऽप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः । 
यदयं न कुलद्वेषो स कुलद्वेषी पुनः पिशुनः ॥ '
सत्यमिदं यदेवजातीयको वाक्यविन्यासः क्लिष्टतां भजते , कृषिमतामाथ-यति , वाचकान क्लिश्नाति , तथापि कल्पनापोडिशब्दवयनालङ्कारसज्जाभिरवं स प्रसादः काव्यापेक्षिता गुणांश्च सुबन्धो न सन्ति , न - बा दण्डिनः पदलालित्यादि संस्कृतसाहित्येतिहासः १५४ सुबन्धु कविः सकलसहृदयस्तुल्य इति निर्वाध वक्तुं शक्यते । 

इदमपि सत्यं यद् बाणस्य रमणीयार्थप्रतिपादनसमये रमणीयताब्दसृष्टिः , कमेव विद्यते , तथापि विद्वज्जनहृदबहारिश्लेषादिविविधालङ्कारसर्गतः पण्डितपाठकानां हृदयान्याक्रष्टुमलमिति ।