गद्य काव्यानि
संस्कृते पद्यसाहित्यमिव गद्यसाहित्यं परप्रकर्षम् । वेदकालेऽपि गद्यस्य प्रयोगः प्रचुरप्रचार आसीत् । संहिताग्रन्थेषु गद्यस्य भूयसी मात्रावाप्यते । गद्यकाव्यानि अथर्ववेदस्य गाबहुलता सुप्रतीता । पये प्रति लेखकानामादरातिशयेन आयुर्वेदज्यौतिषादि - वैज्ञानिकग्रन्थेषु यद्यपि पद्यापेक्षया गद्यस्य मात्रा स्वल्पतमा तथापि चरकादिषु गद्यभागो प्युपलभ्यत एव । पद्यमयं हि ग्रन्थं पाठकाः सुखमभ्यस्यन्ति , कण्ठे स्थापयन्ति चेति पद्य मयो ग्रन्थस्ताललयाधिततया रोचकः प्रचारोपयुक्तश्च भवतीति धिया च पर्च भूयसा प्रायुज्यत प्राचीतशास्त्रोवग्रन्थेष्वथापि गद्यस्य तत्रापि समावेगो दुरसङ्गव एव ।
संस्कृतगद्यस्य विकासक्रमेणोदाहरणानि यथा - ' ऋतं च सत्यचाभीद्धात्त पसोऽष्यजायत , ततो रायजायत , ततः समुद्रोणवः समुद्रादर्णवादधि , संवत्स रोजायत , अहोरात्राणि विदधद्विश्वस्य मिषतो वशी , सूर्याचन्द्रमसी धाता यथा पूर्वमकल्पयत् , दिवं च पृथिवीचान्तरिक्षमयो स्वः । '
( ऋग्वेदस्य दशमण्डले कृष्णयजुर्वेदे च )
गद्यस्यास्य शैली भाषणप्रयोज्यौलीसमाना । कठिनाः पाब्दा भूयसाऽन पेक्षया सरलता समाविश्यत । युक्ताश्च ।तदनन्तरं ब्राह्मणग्रन्थेषु बाहुल्येन गयं प्रायुज्यत , यत्र संहिताग्रन्था ' यदेतन्मण्डलं नयति तन्महदुक्थं ता ऋचः स ऋचां लोकोऽथ यदेतदचि दीप्यते तन्महाव्रतं तानि सामानि स साम्नां लोकोऽच य एष एतस्मिन्मण्डले पुरुषः सोऽग्निस्तानि यजूंषि संयजुषां लोकः -
( मण्डलब्राह्मणे )
अथानन्तरमुपनिषदि गद्यस्य कथोपकथनरूपेण प्रयोगेषु क्रियमाणेषु स्फुटा यंता स्वीयभावप्रकाशनप्रवणता चाधिकभावेन समागता , यथा ' श्वेतकेतुरुिणेय आस तं ह पितोवाच श्वेतकेतो बस ब्रह्मचर्यम् , न वे सोम्यारमत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवति स ह द्वादशवर्ष उपेत्य चतुः विशतिवर्षः सर्वान् वेदानधीत्य महामना अनूचानमानी स्वब्ध एयाय । तह पितोवाच श्वेतकेतो यन्नु सोम्येद e अनूचानमानी स्तब्धोऽस्युत तमादेशमनाक्ष्या ।
- ( छान्दोग्योपनिषदि १।१-२ )
एषां वैदिकगद्योद्धरणानां पर्यालोचनेन सुखमवगन्तुं शक्यते यद्गद्यस्य स्वरूपं क्रमशः स्पष्टमजायत । संहिताया भाषांऽशतो व्याकरणलक्षणच्युता , तदपेक्षया ब्राह्मणानां भाषा लक्षणशालिनी स्पष्टा च , उपनिषदां भाषा तु व्याकरणसम्मता स्फुटतमा चेति क्रमिकविकासे पर्याप्तं निदर्शनम् । एवं वेदिकगयेः प्रशस्तीकृते वत्मनि लौकिकगद्यस्याविर्भावो जातः ।
लौकिकगद्यस्य प्रथमः प्रयोगो निरुक्ते कृतः यथा ' सर्वरसाः अनुप्राप्ताः पानीयमिति यथो एतदविस्पष्टार्थी भवन्तीति नेष स्थाणोरपराधो यदेनमन्थो न पश्यति , पुरुषापराधः स भवति , यथा जानपदीषु विद्यातः पुरुषविशेषो भवति , पारोववित्सु तु खलु वेदितृषु भूयोविद्यः प्रशस्यो भवति ।
- ( नघण्टुककाण्डे )
एतत्कालपर्यन्तं गद्यं काव्यभाषारूपेण प्रयुक्तं नासीत् , केवल व्यवहारभाषा रूपेण प्रयुज्यते स्म । अत एव तत्र चमत्कारातिशयमाधातुं कोऽपि प्रयासः क्रियमाणो नोपलक्ष्यते । अयमेव कमा शास्त्रीयगयेऽप्युपलभ्यते । शास्त्रीयगोषु साहित्यिकचमत्कारानाधातुं न कोऽपि प्रयासः कृतः । एतादृशगद्यस्य निदर्शनानि कतिचित् कालक्रमेण प्रस्तूयन्ते । ' ये पुनः कार्याभावानिवृत्ती तावत्तेषां यत्नः क्रियते । तद्यथा घटेन कार्य करिष्यन् कुम्भकारकुलं मत्वाह - कुरु शब्दान् प्रयोक्ष्ये ।
( महाभाष्यस्य पश्पशालिके )
अनेन गयेन पठपमानेन तात्कालिको गद्यस्य विकसितपूर्णरूपता प्रतीयते । इतः परं गयस्य प्रौढिस्ताकिरुपपादिता । यथा शबरस्वामिनो भाष्ये- ' इच्छयाऽऽत्मानमुपलभामहे , कथमिति ? उपलब्धपूर्वे ह्यभिप्रेते भवतीच्छा । यथामेरुमुत्तरेण यान्यस्मज्जातीयैरनुपलब्धपूर्वाणि स्वादूनि वृक्षफलानि , न तानि प्रत्यस्माकमिच्छा भवति । एतावत्पर्यन्तं गद्यस्य यो विकासक्रमः प्रदर्शितः स शास्त्रीयगद्यविषयो लौकिकगद्यविषयो वा मन्तुं शक्यते । साहित्यिकगयं तु सर्वप्रथम शिलालेखेषु प्राप्यते ।
रुद्रदाम्नः शिलालेखे या गद्यस्य शैली दृश्यते सा नितान्तप्रौढा ओजो गुणगुम्फिता च । गद्यं साहित्ये प्रयुज्यमानं सदेव गद्यकाव्यनामकं काव्यस्य भेदमकल्पयत् । साहित्यप्रयोगश्च गद्यस्य शिलालेखेष्वेवेदं प्रथमतया कृतः प्रतीयते । सुबन्धो भेट्टबाणस्य च गद्यमपेक्ष्य बहुकालात् पूर्वमेव रुद्रदाम्नः शिलालेखोऽखिन्नगद्य गैलोनिदर्शनीभूतोऽलिख्यत् । हरिषेणस्य प्रयाणप्रशस्तो विजयस्तम्भवणंने ' सर्वपृथिवीजयजनितोदयव्याप्तनिखिलावनितलां कात्तिमितस्त्रिदशपतिभवन गमनावाप्तललितसुखविचरणामाचक्षाण इव भुवोर्बाहत्यमुच्छितः स्तम्भः ।
इत्थं वैदिकसाहित्यत आरभ्य प्रयागप्रशस्तिलेखकालपर्यन्तं गयसाहित्य विकसद्रूपतया वर्तमान प्रतीयते ।।
संस्कृतगद्यस्य वैशिष्टयम्
यत्र भाषान्तरगद्यानि सरलभावेनार्थप्रत्ययसमर्थानि विस्तृतरूपाणि च भवन्ति तत्र संस्कृतगद्यं चमत्कारकारिवस्तुव्यञ्जन विधया लघुकायानि भवन्ति संस्कृतगद्यस्य लधुत्वोपबृंहितं समासकृतार्थाधिक्यपूर्णत्वं च भाषान्तरगधैर्दुल भम् । ' ओजः समासभूयस्त्वमेतद् गद्यस्य जीवितम् ' इति दण्डिप्रतिपादितदिशा सजीवगा संस्कृतभाषानिबद्धमेव सम्भवति । तच्चेदं समासभूयस्त्वं मात्राता रतम्येन संस्कृतभाषायो प्रारम्भकालत एव दृश्यत इतोदमीयं गद्यं प्रारम्भकालत एवं सजोवम् ।
यावत्पर्यन्तं पद्यैश्चमत्कारः श्रव्यसङ्गीतध्वनिमधुरिम्णा प्रकटी क्रियते तावद् । गच्चं स्वप्रौढिद्वारा प्रकटयतीति तदुभयपरिशीलनप्रतीतम् । इदमेव च गद्य साहित्यस्य वैरल्ये कारणं यत् सत्यप्यर्थगौरवस्यांशिके विरहे पद्यानि स्वसङ्गीत माधुर्वेणांशिकचमत्कारसद्भावेन च चमत्कारमुत्पाद्यकृतित्वमाकलयन्ति , गद्यानि तु सत्येव सर्वांशचमत्कारे बन्धगाढत्वे च चमत्कारं जनयेयुरिति कवयो गये साफल्यं कष्टसाध्यं सम्भाव्य भूयसा पद्यरचनायामेव प्रवृत्ताः । अत एव गर्छ कवीनां निकर्ष वदन्ति ।
सम्प्रति कतिचन प्रमुखगद्यकाव्यानि स्वरूपतो रचयितृपरिचयप्रदानद्वारा च परिचाययितुमिष्यन्ते । तत्रेदं प्रथममव गन्तव्यं यत् साहित्यिकसंस्कृतगयं शिलालेखेष्वेव प्रथमप्रकाशमध्यगच्छत् । हरिषेणस्य शिलालेखे प्रयागप्रशस्ती च गद्यस्य यद्भप प्राप्यते तदेवानेतनैः कविभिः परिमार्जितं सत् साहित्यिकगद्यस्य उपलभ्यते । गौरवं वर्धयितुं प्राक्रमत । साहित्यिकगद्यस्याद्यो ग्रन्थः सुबन्धोर्वासवदत्ता एवं उपलभ्यते ।