"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

दृश्यकाव्यभेदाः दश रूपक

दृश्यकाव्यभेदाः दश रूपक
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

दृश्यकाव्यभेदाः दश रूपक 

दृश्यकाव्यभेदाः दशरूपक- 

" नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः । 
ईहामृगाङ्कवीथ्य प्रहसनमिति रूपकाणि दश ।। ' 

इति दृश्यकाव्यभेदाः तेषु ' नाटकं ख्यातवृत्तं स्यादिति प्राचीनः सम्प्रदायः । आधुनिकास्तु कल्पितवृत्तमपि नाटक मन्यन्ते । .

दृश्यकाव्यभेदाः दश रूपक

दशरूपक 

१. नाटक
२. प्रकरण
३. भाणः
४.व्यायोग
५. समवकार
६. डीम
७. ईहामृग
८. वीथी
९. अंक
१०. प्रहसन

    रूपकनाटकयोमध्ये प्राचीना इदमेव भेदकं निर्णयन्ति यत् नाटके ख्यातं वृत्तं , रूपके कपिकल्पितं तत् । प्राचीनसंस्कृतसाहित्ये रूपकाणां निमणिमपि महता प्रयासेन विधीयते स्म । विशालमिदमङ्गम् , तत्र प्रसिद्धानि कतिचन रूपकाणि प्रदश्यन्ते -

१. मालतीमाधवम्  -  भवभूतिकृतम् 

२. मृच्छकटिकम्    - शूद्रककृतम् 

३. मल्लिकामास्तम्  - उद्दण्डकविकृतम् 

४. कौमुदीमित्रानन्दम्    -  जैनाचार्यहेमचन्द्रशिष्यरामचन्द्रकृतम् 

५. प्रबुद्धरौहिणेयम्   - जैनकविरामभद्रकृतम्

६. मुद्रितकुमुदचन्द्रम्  -  यशश्चन्द्रनामकजेनकविकृतम् 

प्रबोधचन्द्रोदय - चैतन्यचन्द्रोदय - भीवानन्द - विद्यापरिणयादीनि तु कविकल्पित कथाघटितान्यपि नाटकान्येव । तेषां पात्राणि कविभिः कल्पितानि सन्त्यपि प्रसिद्धमनोभावरूपाण्येवेति सर्वथा काल्पनिकपात्रघटितत्वाभावात् । अत एवेमानि नाटकतयैव प्रयन्ते । 

भाणः 

संस्कृतसाहित्ये प्राचीनतादृष्टया भाणस्यापि स्थानं नाटकवत् प्रतिष्ठितम् । धूर्तस्य नायकस्य चरितम् , एक एवाङकः , हास्यरसस्य प्राधान्ये सत्यपि सौभाग्यशौर्यादिवर्णनया शृङ्गारवीररससूचना , भारतीवृत्तिश्च भवति । भाणरचनायां यचोलाभः प्रयाससाध्यो भवति , यथोक्तम् -

वरचिरीश्वरदत्तः श्यामिलकः शूद्रकश्च चत्वारः । 
एते भाणान् बभणुः का शक्तिः कालिदासस्य ।। ' 

भाणग्रन्थेषु वररुचेः उभयाभिसारिका , शूद्रकस्य पद्माप्राभूतकम् , ईश्वर दत्तस्य धूर्तविटसंवादः , श्यामिलकस्य पादताडितकम् , वामनभट्टबाणस्य शृङ्गारभूषणम् , रामभद्रदीक्षितस्य शृङ्गारतिलकम् , वरदाचार्यस्य वसन्त तिलकम् , शकरकवेः शारदातिलकम् , नल्लाकवेः शृङ्गारसर्वस्वम् , युवराजस्य रससदनभाणः , साहित्यदर्पणोक्तः लीलामधुकरश्चेत्यादयो ग्रन्थाः स्मर्यन्ते 

व्यायोगः 

व्यायोगनामकरूपकप्रभेदसाहित्यमपि संस्कृते न दुर्लभम् । व्यायोगे प्रसिद्ध मितिवृत्तम् , स्त्रोपात्रविरहा , बहुपुरुषपात्रता , गर्भविमर्शसन्ध्यभावः , केशिकी वृत्तिः प्रख्यातश्च नायको भवति । हास्यशृङ्गारशान्तभिन्नाः रसाः ।

 व्यायोगग्रन्येषु द्वादशशतकोत्तरार्धभववत्सराजकविकृतः किरातार्जुनीय व्यायोगः , भासस्य मध्यमव्यायोगः , प्रह्लादनदेवविरचितः पार्चपराक्रमः , काच नार्यस्य धनञ्जयविजयः , रामचन्द्रस्य निर्भयभीमव्यायोगः , विश्वनाथस्य सौगन्धि काहरणम् इत्यादयो ग्रन्थाः प्रख्याताः । 

समवकार

समवकारे देवासुरावयं ख्यातं वृत्तम् , द्वादश नायकाः , वैदिकानि गायश्या दीनिच्छन्दांसि , वीर प्रधानो रसः । समवकीर्यन्ते बहवो रसा यत्रेति व्युत्पत्त्या  सर्वरसावस्थान सूच्यते । एतत्प्रभेदसाहित्यमल्पम् , यथा वत्सराजस्य समुद्र  मथनम् । 

डिमः 

रौद्ररसप्रधानः , ख्यातेतिवृत्तः , चतुरङ्कः , षोडशभिरुद्धतनायकैरुपेतः , शान्त हास्यशृङ्गारभिन्न रसैरुपस्कृतः , कैशिक्यतिरिक्तवृत्तिशाली च भवति डिमः । अस्योदाहरणं च ' त्रिपुरदाहः ' इति महर्षिः । तदुकम् -
' इदं त्रिपुरदाहे तु लक्षणं ब्रह्मणोदितम् । 
ततस्त्रिपुरदाहश्च डिमसंज्ञः प्रयोजितः । ' 
डिम - सङ्घाते ' इति नायकसंघातव्यापारात्मकत्वाड्डिम इति संज्ञेति धनिकः । वेफुटवयंस्य ' कृष्णविजयः ' रामकवेः ' मन्मथोन्मथनम् ' इति च परे उदाहरणे । 

ईहामृगः 

ईहामृगे ख्यातं कल्पितकिञ्चिदंशं च वृत्तम् , चत्वारोऽङ्कास्त्रयः सन्धयः , सङ्घर्षसङ्कलं कथानकं भवन्ति । मृगवदलभ्यायां नायिकायामभिलाषस्य वर्णनीय या ईहामृग इति नामकरणम् । प्राचीनयोः ' वीरविजय ' ' रुक्मिणीहरण ' नाम ब्योरोहामृगग्रन्थयोः यद्यप्युपलब्धिनं भवति , तथापि वत्सराजकृतं रुक्मिणी हरण ' नामकयोरीहामृगग्रन्थयोः यद्यप्युपलब्धिनं भवति , तथापि वत्सराजकृतं मुक्मिणीपरिणयपुस्तक प्राप्यत इति तदेवेकमस्योदाहरणं लभ्यम् । साहित्य दर्पणोक्त : ' कुसुमशेखरविजय ' नामकोऽपीहामृगग्रन्थोऽप्राप्य एव । 

वीथी 

वीथोनामनि रूपकप्रभेदे भाणसमानव कथा , एकोऽङ्कः शृङ्गारोऽनुद्भिन्नरूपो 3 :, कैशिकी वृत्तिश्च । ' माधवीवीथो ' इति नाममात्रशेषोऽस्य निदर्शनग्रन्थः । 

अङ्कः 

पुराणेतिहासप्रसिद्ध कथानकम , करुणः प्रधानो रसः , वास्तवयुद्धाभावेऽपि युद्धम् , इत्यादिसामग्री अङ्के पेक्ष्यते । एतदुदाहरणं ' शर्मिष्ठाययाति नामकमप्राप्यम् । भास्करकवे . उन्मत्त राघवं नाम अङ्कस्योदाहरणपुस्तक लभ्यते , परन्तु तद्रचनाकालो नावधार्यते । 

प्रहसनम् 

हास्यरसस्य समाजे महानुपयोगेः , शिष्टहासस्य बहुल आदरः , समाजविरोधि तत्त्वस्य मार्गस्थाने हास्यरसप्रधानकाव्यस्य उपयुक्तभावश्च प्रहसनकायस्य सृष्टौ कारणतां गतः । यथाऽधुना हास्यरसप्रधानं व्यङ्गयमयं च काव्यं कामपि विशिष्टां मर्यादा रक्षति , नानायास लिख्यते , तथैव प्रागपि प्रहसनं बहुलतया नालिख्यत , तपाऽपि संस्कृतसाहित्ये प्रहसनग्रन्थस्यैकान्ततोऽभावो नास्ति ।

 प्रहसने भाणवत् सन्ध्यादयः , निन्दनीयत्वेन वर्ण्यमानानां कल्पित वृत्तम् , विष्कम्भकप्रवेशकराहित्यम् , हास्यरसप्राधान्यश्च भवति । 

सर्वप्राचीनः प्रहसनग्रन्थः ' मत्तविलासः ' । तस्य रचयिता पल्लवनरेशस्य सिंहविष्णुवर्मणः पुत्रो महेन्द्रविक्रमवर्माऽऽसीत् । अयं च राजा हर्षवर्धनपुलकेशि द्वितीययोः समकालिक इत्यस्य समयः खीष्टीयसप्तमशतकस्य पूर्वाध भागो मान्यः । 

अस्य मत्तविलासप्रहसनस्य भाषा सरला , शैली प्रसन्नमनोहरा । एक प्रारम्भिकं पा दृश्यताम् -
 ' पया सुरा प्रियतमामुखमोक्षितव्यं 
प्रायः स्वभावललितो विकृतश्च वेषः । 
येने दमीदृशमदृश्यत मोक्षवम 
दीर्घायुरस्तु भगवन् स पिनाकपाणिः ॥ '
मत्तविलासप्रहसननिर्माणकालात् पञ्चशताब्याः परतः कान्यकुब्जाधीश गोविन्दचन्द्रस्य सभापण्डितः कविराजशङ्खधरः ' लटकमेलक ' नाम लोकप्रिय प्रहसन प्राणेषोत् । गोविन्दचन्द्रो हर्षस्तुतस्य तदाश्रयदातुर्जयचन्द्रस्य पितेति छटकमेलकं नैषधीयचरितसमकालिकम् -
' गरोगिरः पञ्च दिनान्यधीत्य वेदान्तशास्त्राणि दिनत्रयंच । 
अमो समानाय च तकंवादानुपागताः कुक्कुटमिश्रपादाः ।। '

इति विश्वनायोद्धृतं पां लटकमेलकस्यैव । 

ज्योतिरीश्वरकविशेखरकृतं ' धूर्तसमागम'नामक प्रहसनम् , जगदीश्वरकृतं ' हास्यार्णव ' नामक प्रहसनम् , गोपीनाथचक्रवत्तिकृतं ' कौतुकसर्वस्व ' नामकम्, सामराजदीक्षितकृतं ' धूतनतक नामकं च प्रहसनं प्रसिद्धम् ।

 रूपकनिरूपणानन्तरमुपरूपकनिरूपणं प्राप्तकालमिति तत्प्रसङ्गे किञ्चिदुच्यते । 

उपरूपकाणि 

' नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् । 
प्रस्थानोल्लाप्यकाव्यानि प्रेसणं रासकं तथा ।। 
संलापकं धोगदितं शिल्पक च विलासिका । 
दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ।। 
अष्टादश प्राहुरुपरूपकाणि मनीषिणः । 
विना विशेष सर्वेषां लक्ष्म नाटकवन्मतम् ।। '

१. नाटिका - 

दशरूपके प्रकरणनाटकयोमिलितं रूपं नाटिकेत्युक्तम् । नायके प्रख्यातिवंशे सत्यपि वृत्तं तस्य कल्पितमुपादीयते । संस्कृते महाराज हर्षस्य रत्नावली प्रियदर्शिका चेति नाटिकाद्वयं प्रसिद्धम् । ( अनयोः परिचयः प्राद् दत्तः ) । मदनपालसरस्वतीकृता पारिजातमञ्जरी - समाख्या नाटिका , यस्याः केवलमङ्कद्धयं धारानगाँ शिलासूङ्कितं प्राप्यते । मथुरादास कृता वृषभानुजा नाटिका । अयं मथुरादासः गङ्गातीरस्थसुवर्णशेखराभिधनगर वासी कायस्थकुलजश्च । 

२. त्रोटकम् - 

दिव्यमानुषसंचयं , पञ्चाङ्कतोऽन्यूनं , प्रत्यक सविदूषकन्च भवति । यथा - कालिदासस्य विक्रमोर्वशीयम , अशातकर्तृक लम्भितरम्भञ्च । 

३. गोष्ठी -

पञ्चषड्योषिदन्विता , नवभिर्दशभिर्वा प्राकृतपात्रयुक्ता , एकाङ्क विनिर्मिता च भवति , यथा -- रेवतमदनिका । 

४. सट्टकम् - 

प्राकृताशेषपाट्या नाटिका सट्टकं नाम । यथा -- राजशेखरस्य कर्पूरमञ्जरी प्रसिद्धा । 

५. नाट्यरासकम् - 

हास्यरसं बहुगेयञ्च भवति । यथा - नर्मवती । 

६. प्रस्थानकम् - 

हीनो नायकः , दासी नायिका , सुरापानं विषयः , सर्वमिदं स्थानके भवति । यथा - शृङ्गारतिलकम् । 

७. उल्लाप्यम् - 

उदात्तनायकम् , एकाङ्कम् , संग्रामरोदनगीतादिबहुलच्च स्वति । यथा - देवीमहादेवम् । 

८. काव्यम् -

 एकाङ्क , खोनायकम् , आरभटीहीनञ्च काव्यं नामोरूपकम् । स्वा - यादवोदयम् । 

९. प्रेक्षणम् - 

हीननायकमसूत्रधारच । यथा वालिवधम् । 

१०. रासकम् -

पञ्चपात्रयुतम् , भाषाविभाषाबहुलम् , ख्यातनायिकं मूर्ख यथा - मेनकाहितम् ।

११. संलापकम् - 

चतुरङ्क , पाखण्डनायक , पुरसंरोधसंग्रामवर्णनपरं विकच ।  पति । यथा - मायाकापालिकम् ।

१२. श्रीगदितम् --

वृत्तनायको प्रख्यातो , नायिकाऽपि प्रसिद्धा , श्रीशब्दयुतं च पद्यं भवत्यत्र । यथा - क्रीडारसातलम् । 

१३. शिल्पकम् -

 चतुरङ्क , ब्राह्मणनायक , श्मशानवर्णनयुतम् । यथा कनकावतीमाधवम् । 

१४. विलासिका - 

एकाङ्का शृङ्गारबहुला च भवति । उदाहरणग्रन्थो न प्रसिद्धः । 

१५. दुमल्लिका - 

चतुरङ्का , कैशिकीवृत्तिशालिनी । यथा - बिन्दुमती । 

१६. प्रकरणिका - 

नाटिकेव प्रकरणीसार्थवाहादिनायका , समानवंशजा यत्र नेतुर्नायिका । उदाहरणग्रन्थो नोपलभ्यते । 

१७. हल्लीशः - 

एकं एवाङ्कः , सप्त वा दश वा स्त्रियः । यथा - केलिरैवतकम् । 

१८ , भाणिका - 

भाणसमा । यथा कामदत्ता । 

एवं परिचितानि रूपकाणि उपरूपकाणि च । सम्प्रति कतीनाञ्चन रूपक ह्रासयुगे निर्मितानां रूपकाणां सामान्यपरिचयः प्रदीयते -
कत्तुंर्नाम कालनिर्देशः 
१. पारिजातमञ्जरी - मदनः -  त्रयोदशं शतकम् 
२. उन्मत्तराघवम्  - भास्करः  - चतुर्दशशतकम् 
३. मौविजयम् -  जीवरामयाशिकः - पञ्चदशशतकम् ग्रन्थनाम 



About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.