महिमभट्ट का व्यक्तिविवेकः

महिमभट्ट का व्यक्तिविवेकः

महिमभट्टस्य व्यक्तिविवेकः श्रीधैर्यतनयः काश्मीरवासी महिमभट्टो ध्वनिविरोधी आचार्यः , अनेन सर्वस्य ध्वनेरनुमानेऽन्तर्भावं कर्तुं व्यक्तिविवेकः प्रणोतः 

' अनुमानेऽन्तर्भाव सर्वस्यैव ध्वनेः प्रकाशयितुम् । 
व्यक्तिविवेकं कुरुते प्रणम्य महिमा परां वाचम् ॥ ' 

    अनेन तर्कशास्त्रमाघारीकृत्य ध्वन्यालोकस्य विरोधाय प्रयासः कृतः । 

महिमभट्ट का व्यक्तिविवेकः

अस्मिन् प्रयासे तेनान्यग्रन्थसाहाय्यं न लब्धम् । ध्वनिविरोधे यद्यपि भट्टनाय कस्य हृदयदर्पणनामा ग्रन्थस्तदा सोनिर्मितोऽवर्तत , परमनेन स ग्रन्थो नालो कितः , यथोक्तम् 

' सहसा यशोऽभिसर्तृ समुद्यताऽदृष्टवर्पणा मम धीः । ' 

इसमस्योक्तिः स्वग्रन्थस्य नितान्तमौलिकताव्यञ्जनायेव । 

    सर्वप्रथम महिमभट्टा अभिनवगुप्तस्य मतमालोचितवान् तदनन्तरं मम्मटे नास्य महिम्नो मतमालोचितम् । तदयं महिमभट्टः अभिनवगुप्तात् परवर्ती मम्मटात् पूर्ववती च सिद्धो भवति । अभिनवगुप्तः १००० ई ० स्थितोः मम्मटश्च १०५० ई ० स्थितस्तयोमध्ये स्थितस्यास्यकादशशतकप्रथमचरणे स्थितिरनुमीयते । 

    व्यक्तिविवेके त्रयो विमर्शाः सन्ति - प्रथमे ध्वनेरनुमानप्रकारत्वं व्यवस्था पितम , द्वितीयेऽविषयकानौचित्यं निरूपितम् , तृतीये बहिरङ्गानौचित्यं विवेचितम् । मन्मटेन ध्वनेरनुमानप्रकारतां खण्डयतापि दोषप्रसङ्गे महिमभट्टस्य सिद्धान्तः प्रचुरमादृतः ।


साहित्यशास्त्रम् , अलङ्कारशास्त्रं