भोजराज का सरस्वतीकण्ठाभरणम्
6/14/2022 09:58:32 am
भोजराज का सरस्वतीकण्ठाभरणम्
भोजराजस्य सरस्वतीकण्ठाभरणम् महाराजो भोजो धारानगरशासकः परमारवश्यश्चासीत् । स हि १०१८ ईशवीये सिंहासनारूढो भूत्वा १०६३ पर्यन्तं राज्यमकृतेति तस्य काल एकादशशतकम् भोजस्य कविजनप्रियत्वं प्रसिद्धम् । शेषगिरिशास्त्रिणो लिखन्ति यदयं भोजो धारातः स्वां राजधानीम् उज्जयिनीमानीतवानिति ' आइनेअकबरी ' पुस्तके लिखितं वर्तते ।
भोजराजेन साहित्यविद्यामधिकृत्य पुस्तकद्वयं प्रणीतम् -
१ . सरस्वतीकण्ठाभरणम् ,
२. शृङ्गारप्रकाशः ।
भोजराजस्य सरस्वतीकण्ठाभरणे अलङ्कारा दोषा गुणाश्च विस्तरेण विवेचिताः । भोजमते शृङ्गार एवैको रसोऽन्ये रसा अस्यैव विकाराः । अयं ग्रन्थ श्चित्रकाव्यनिरूपणाय नितान्तं प्रयते ।