भरत का नाट्यशास्त्र
पौराणिकवंशक्रमानुसारेण भरतो व्यासवाल्मीकिभ्यां पश्चाद्वर्ती भवन्नपि इतरेभ्यः समेभ्यः संस्कृतभाषायां लेखकेभ्यः प्राचीनः प्रतीयते । भरतकृतस्य नाट्यशास्त्रस्य राहुलककृता टीकाऽभिनवगुप्तेन स्मयते । राहुलकस्य नाम तामिलमहाकाव्ये ' मणिमेकलये ( Manimekalai ) समायातम् । ' मणिमेकलये ' नामकस्य तस्य तामिलग्रन्थस्य रचनाकालः चतुर्थ ई ० पू ० मन्यते , अतो भर तस्य तत्पूर्वकालिकता समायाति भरतस्य प्राचीनाष्टीकाकारा एवाति प्राचीनास्तस्य प्राचीनतरतां साधयन्ति । कालिदासोऽपि भरतं स्मरतीति तद प्यस्य प्राचीनतां प्रमापयति ।
भरतद्वयं प्रथमे - एको वृद्धभरत आदिभरतो वा , अपरो भरतः । वृद्धभरतस्य कृतिदिशसाहस्रीशब्देन व्यवहृता , भरतस्य कृतिश्च शतसाहस्रीशब्देन । भरतस्य प्राचीनतयैव तं मुनिमाहुः ।
सम्प्रत्युपलभ्यमानं नाट्यशास्त्रं भरतस्य कृतिः । इदं क्वचित् ३६ अध्याया त्मकं , क्वचिच्च ३७ अध्यायात्मकं कथ्यते । मन्ये लेखकप्रमादात् कोऽप्यध्यायो विभक्तः स्यात् । अभिनवगुप्तः स्वीयायां भरतसूत्रस्य टीकायां सप्तत्रिंशतोऽध्यायां ल्लिखितवान् । प्रत्यध्यायप्रारम्भमसौ श्लोकमेकं शिवनमस्कारात्मकं लिखति , येन काश्मीरकशैवप्रत्यभिज्ञाशास्त्रीयषट्त्रिंशत्तत्त्वानि निशितानि भवन्ति , सप्तत्रिशे चाध्यायेऽनुत्तरं शिव स्तौति -
' आकाक्षाणां प्रशमनविधेः पूर्वभावावधीनां
धाराप्राप्तस्तुतिगुरुगिरां गुह्यतत्त्वप्रतिष्ठा ।
ऊर्ध्वादन्यः परभुवि न वा यत्समानं चकास्ति
प्रौढानन्तं तदहमधुनानुत्तरं धाम वन्दे । '
इदमपि सम्भवति यदभिनवगुप्त एव तत्त्वानि अनुत्तरं च निर्देष्टुमिच्छुः कमप्य ध्यायं विभज्याध्यायसंख्यां वधितवान् स्यात् ।
प्राप्ते भरतसूत्रे ५००० श्लोकास्तथा कियद्गद्यमपि विद्यते । षष्ठे , सप्तमे , अष्टाविशे चाध्याये केवले गद्यभागो लभ्यते । इतिहासविदः कथयन्ति यन्नाटध शास्त्र नेकस्मिन् काले रचितमपि तु दीर्घकालिकस्य साहित्यतत्त्वनिर्णयप्रयासस्य फलमिदं शास्त्रम् ।
नाट्यशास्त्रे त्रयोंऽशा विद्यन्ते -१ . सूत्र भाष्यच , अयमंशः प्राचीनतमः । २. कारिका , मूलाभिप्राय बोधयितुं कारिका व्यरच्यन्त । ३. अनुवंण्यश्लोकाः , इमे श्लोका भरतादपि प्राचीनैराचार्य रचिताः , स्वमतं प्रमाणयितुं भरतेनोप न्यस्ता इत्युक्तमभिनवगुप्तेन -
' ता एता ह्यार्या एकप्रघट्टकतया , पूर्वाचार्यलक्षणत्वेन पठिता , मुनिना तु सुखसंग्रहाय यथास्थानं निवेशिताः । '
भरतो रससम्प्रदायस्थाचार्यः । एतन्मते नाटकेषु रस एव प्रधानम् । अल कारास्त्वनेन प्रसङ्गतो निरूपिता ६-७-१६ अध्यायेषु ।