आनन्दवर्धन का ध्वन्यालोकः
6/14/2022 09:56:56 am
आनन्दवर्धन का ध्वन्यालोकः
आनन्दवर्धनस्य ध्वन्यालोकः आनन्दवर्धनः काश्मीरक्षितिपालस्य अवन्तिवर्मणः सभापण्डित आसीत्
मुक्ताकणः शिवस्वामी कविरानन्दवर्धनः ।
प्रथा रत्नाकरश्चागात् साम्राज्येऽचन्तिवर्मणः । ' ( इति राजतरङ्गिणी )
अवन्तिवर्मणः समयः ८५५-८८३ ई ० विद्यते , अत आनन्दवर्धनोऽपि तत्कालिकः । आनन्दवर्धनो ध्वनिसम्प्रदायस्य प्रवत्तंकवाद्यः कथ्यते । इतः पूर्वमलकारसम्प्रदायरीतिसम्प्रदायावेवास्तामनेन ध्वनिसम्प्रदायः प्रवत्तितः । एतत्कृतौ प्रतिपदं मौलिकता , गूढविषयव्याननक्षमता , विवेचनाशक्तिश्च प्रकाशन्ते । रसगङ्गाधरकारेण ' ध्वनिकृतामालङ्कारिकसरणव्यवस्थापकत्वात् ' इत्यादरोक्तियुक्त प्रकटोकृता ।
ध्वन्यालोके त्रयोंऽशा : -कारिकाः , वृत्तयः , उदाहरणानि च । उदाहरणम नेककविकृतिभ्यो दत्तमिति व्यक्तमेव , कारिका वृत्तिश्चानन्दवर्धनकृतेति भूयांसो वदन्ति । कतिपये तु कारिकां कस्य चिदन्यस्याशातनाम्नः कृति मन्यमानाः केवला वृत्तिमेव आनन्दवर्द्धनस्य कार्य मन्यन्ते ।
अत्र ग्रन्थे . १२९ कारिकाः । चतुद्योतेषु विभक्तेऽत्र ग्रन्थे प्रथमोद्योते निविरोधिमतालोचना तत्स्थापना च , द्वितीयतृतीययोरुद्दयोतयोर्ध्वनिप्रकाराः चतुर्थे ध्वनेरुपयोगिता निरूपिताः । न केवलमयमामार्यः परमस्य कवित्वशक्तिरपि विलक्षणा । ध्वन्यालोकाति रिक्ताः विषमबाणलीला , अर्जुनचरितम् , देवीशतकम् इति त्रयोऽस्य कविता ग्रन्थाः प्रयन्ते ।