साहित्यशास्त्र सम्प्रदायाः साहित्यशास्त्रीयपरम्परायाः पर्यालोचनेन ज्ञायते यदत्र कतिपये वर्गाः सञ्जाताः , तेषां परिचयाय तन्मतानि विवेचनीयानि भवन्ति । अलङ्कारसर्वस्वटीकाकृता समुद्रबन्धेनोक्तम्
' इह विशिष्टौ शब्दार्थों काव्यम् , तयोश्च वैशिष्टयम् , धर्ममुखेन , व्यापार मुखेन व्यङ्गयमुखेन वेति त्रयः पक्षाः । आयेऽलङ्कारतो गुणतो वेति द्वैविध्यम् । द्वितीयेऽपि भणितिवैचित्र्येण भोगकृत्त्वेन वेति द्वैविध्यम् । इति पञ्चसु पक्षेष्वाद्य उद्भटादिभिरङ्गीकृतः द्वितीयो वामनेन , तृतीयो वक्रोक्तिजीवितकारेण , चतुर्थो भट्टनायकेन , पञ्चम आनन्दवर्धनेन । '
अयमाशयः - रमणीयौ शब्दार्थो काव्यनाम्ना व्यपदिश्येते , शब्दार्थयो रमणीयता च धर्ममुखेन याच्यते तदा गुणः अलङ्कारश्चेति द्वौ तादृशौ धर्मों सम्भवतः , तत्र गुणकृतवैशिष्टयवादिनौ दण्डिवामनौ काव्यस्य जीवनाधायक गुणमाहतुः । अलङ्कारकृतं वैशिष्टयमाद्रियमाणा उद्भटादयश्चालङ्कारान काव्यजीवनाधायकानु स्वीकुर्वन्ति ।
यदि च शब्दार्थयो रमणीयता तद्व्यापार द्वारा मन्यते तदाऽपि व्यापारो द्विविधः सम्भवति भणितिवैचित्र्यमूलो भोग कृत्त्वमूलश्च , तत्र भणितिवैचित्र्यकृतं वैशिष्टयमभ्युपगच्छन्तः कुन्तकादयो ' वक्रोक्तिः काव्य जीवितमिति मन्यन्ते , भोगकृत्त्वमूलकं वैशिष्ट्य भट्टनायकादयो भोजकत्वरूपं व्यापारान्तरं मन्यन्ते , तदेव तत्र वैशिष्टयमभ्युप गच्छन्ति । भट्टनायको रससम्प्रदायान्तर्गत एव । केवलं भोजकत्वव्यापार स्वीकुर्वन्ति , यथाऽनन्दवर्धनादयः ।। मात्रमस्य नूतनम् । ये पुनर्व्यङ्ग्यमुखेन शब्दार्थयोवैशिष्ट्यमाहुस्ते ध्वनिप्रस्थान
एवमत्र शास्त्रे बहवः सम्प्रदायाः प्रचलिताः । ते चात्र यथाक्रमं परिचिताः क्रियन्ते ।