रीति सम्प्रदायः

रीतिसम्प्रदायः 

    अस्य सम्प्रदायस्य प्रवर्तको वामनः , तन्मते रीतिरात्मा काव्यस्यपद सङ्घटना रीतिः , सेयं पदसङ्घटना गुणेष्वायत्तेति रीतिसम्प्रदायो गुणसम्प्रदायात्मना परिणमते । रीतिभेदानां व्यवस्थितं वर्णनं दण्डिनाऽपि कृतम् । गुणालङ्कारयोर सङ्कीर्ण रूपं प्रकाश्य गुणानां शब्दार्थगतत्वेन विशतिप्रकारता वामनेनेव प्रतिपादिता । 
रीति सम्प्रदायः

    वामनेन काव्यशोभायाः कर्तारो धर्मा गुणास्तदतियायहेतवस्त्व लङ्काराः स्वीकृताः । भामहादयो यत्र रसमलङ्कार मन्यमानं तं काव्यस्य बहिरङ्ग समर्थितवन्तो वामनस्तत्र रसं कान्तिगुणस्वरूपमाख्याय तस्यावश्यकतां स्वीकृतवान् ।