जैन दर्शनं
बौद्धदर्शनात् पूर्वतनम् । जैनदर्शनं प्राक ' निगण्ठ ' शब्देन व्यव ह्रियते स्म । निगण्ठशब्दो ग्रन्यान्निर्गतो निर्गन्य इति संस्कृतशब्दस्य पाली भाषायां रूपान्तरम् । अत्र दर्शने सिद्धपुरुषाः ' अहंत ' शब्देनाभिधीयन्ते । अत एवेदं दर्शनमाहंतदर्शनमप्युच्यते । महावीरेण रागादिरिपवो जिता इत्यसो जिनशब्देनोक्तस्तदीयतया दर्शनमिदं जैनदर्शननाम्नाप्यभिहितम् ।
जैनमतप्रचारकास्तीर्थकरा उच्यन्ते स्म । तीर्थकरेष्वाद्यः ऋषभदेव . नामाऽऽसीत् । महावीरश्चान्तिमः । पार्श्वनाथं विहायान्येषां मध्यत्तिनां तीर्थक राणां विशिष्टः परिचयो न लभ्यते ।
.
वर्धमानमहावीर इतिहासप्रसिद्ध एव पुरुषः , पाश्वनाथः पुनः काशिराजस्य अग्रसेनस्य पुत्रः । पार्श्वनाथः वरूपरिधानमनुमन्यते , महावीरस्तु नग्नत्वं सम यति । दिगम्बरश्वेताम्बराख्य सम्प्रदायद्वयस्येदमेव बीजम् ।
जैनसाहित्यमतिविपुलम् । अत्राचारग्रन्थापेक्षया प्रमाणग्रन्था एवं भूयांसः । जैनदर्शने जीवस्य चैतन्यवत्त्वं स्वाभाविकचानन्तज्ञानवत्त्वम् । प्राक्तन कर्मावरणपिहितत्वेन समावृतस्वरूपतयाभासमानो जीवः सम्यक्चारित्रस्वीकृत्या स्वं शुद्ध रूपं- कैवल्यं सर्वज्ञत्वं च प्राप्नोतीति संक्षेपतो विषयः । प्राचीनेऽपि जैनमते जैनदर्शनशानस्यारम्भकालः प्रथमं शतकम् । अस्मिन्नेव समये उमास्वातिकुन्दकुन्दाचार्यसमन्तभद्रनामकैराचार्यरस्य दर्शनशास्त्रस्य आधार शिला दृढीकृता । तत्त्वार्थसूत्रमनेव कालेरच्यत ।
तदनन्तरं च बहवो ग्रन्था अरच्यन्त , यथा - देवनन्दिमहाभागस्य सर्वार्थ सिद्धिा , दिगम्बरस्य समन्तभद्रस्य सिद्धसेनदिवाकरस्य च गन्धहस्तीभाष्यम् , भट्टाकलङ्कस्य राजवात्तिकम् । जैनदर्शनस्य सर्वस्वभूता ग्रन्था इमे चत्वारः नियमसारः , पञ्चास्तिकायसारः , समयसारः , प्रवचनसारश्चेति । हरिभद्र विद्या नन्दप्रभृतयोऽप्याचार्याः प्रसिद्धाः ।
स्याद्वादो जैनदर्शनस्य प्रधानो वादः । पुद्गलशब्दो जैनदर्शने भूत सामान्यार्थकः । जनानां मते जीवपुद्गलयोः सहकारिकारणस्वरूपो धर्मः , अधर्मश्च तद्विरुद्धः । सम्यग्दर्शनम् , सम्यग्ज्ञानम् , सम्यक्चारित्रं चेति जैनदर्शने रलत्रयम् । तदेतद्रत्नत्रयं मोक्षमार्गः । तथा चोक्तम्
' सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः । '
' तत्त्वार्थधद्धानं सम्यग्दर्शनम् । '
जैनदर्शने - आस्रव , बन्धः , संवरः , निर्ज्जरः , मोक्षः , जीवः , अजीवः इति सप्त पदार्थाः ।
' सकषायत्ताज्जीवः कर्मणो योग्यान पुद्गलानादत्ते स बन्धः ' ।
' बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मक्षयश्च मोक्षः । '
जैनदर्शनं बहुत्ववादपरम् । अनेकान्तवादोऽत्र मुख्यः । मोक्षे सति सर्वेषां जीवानामीश्वरतापत्तावनेकेश्वरवादप्रसक्तिरत्र दर्शने दुरुद्धरो दोषः ।
तदित्थं नास्तिकदर्शनानि परिचयं प्रापितानि , तानि विवृतानि भूत्वा षड्विधतां यान्ति
१. शून्यवादेने के प्रस्थानं माध्यमिकानाम्
२. क्षणिकविज्ञानवादेनापरं प्रस्थान योगाचाराणाम्
३. ज्ञानाकारकबाह्यार्थवादेनान्यत् प्रस्थानं सौत्रान्तिकानाम्
४. प्रत्यक्षस्वलक्षणक्षणिकबाह्यार्थवादेनापरं वैभाषिकाणाम्
५. एक प्रस्थानं देहातिरिक्तदेहात्मवादिनां दिगम्बराणाम्
६. स्थूलदृश्यदेहात्मवादिनां चार्वाकाणाञ्चक प्रस्थानम्
तदित्यं पणनास्तिकदर्शनानि ।