साङ्ख्य दर्शनम्
6/14/2022 10:11:59 am
साङ्ख्य दर्शनम्
सांख्यदर्शनस्याद्य आचार्यः कपिलः उपनिषत्कालिकः ऋषिः । तत्प्रणीतं सांख्यदर्शन न प्राप्यते । तन्नाम्नैव प्रसिद्ध साङ्ख्यसूत्रं पञ्चमशतके केनचिदन्येन विदुषा निर्माय प्रचारितम् । कपिलस्य शिष्य आसुरिस्तस्य शिष्यः पञ्चशिखः । एषा ग्रन्था नोपलभ्यन्ते ।
ईश्वरकृष्णपर्यन्यं सांख्यशास्त्रीयपरम्परा लुप्तप्रायैव । ईश्वरकृष्णेन कारिका प्रणीय शास्त्रमिद पुनः सजीवतां गमितम् । अयं ग्रन्यो विक्रमप्रथमशतके निर्मितः । प्रसिद्धस्यास्य ग्रन्थस्य चीनभाषानुवाद षष्ठशतके परमार्थनामकविदुषा समपाद्यत । सोऽयमनुवादः सम्प्रत्यपि प्राप्यते । चीनभाषा नुवादोऽयं ' सुवर्णसप्तति ' नाम्नोच्यते । अस्य कारिकामयस्य साङ्ख्यशास्त्रादिम ग्रन्थस्य बहूनि व्याख्यानानि जातानि , यथा -
१ , माठरस्य माठरवृत्तिः ,
२. गौडपादाचार्यस्य भाष्यम् ,
३ , अज्ञातकत्तृका युक्तिदीपिका ,
४. वाचस्पति मिश्रस्य सांख्यतत्त्वकौमुदी ,
५. वाङ्करस्य जयमङ्गला च ।
कस्यचन विन्ध्यवासिन आचार्यस्य शायशास्त्राचार्यत्वेन कुमारिलो मतमुल्लिखितवान् । षोडशशतकोवो विज्ञानभिक्षुस्तु सांख्यप्रवचनभाष्य प्रणोय शास्त्रमिदं प्रतिष्ठापयाचकार ।
अतिप्राचीनस्यास्य दर्शनस्य सिद्धान्ताः कठ - छान्दोग्य - श्वेताश्वतरोपनिषत्सु प्राप्यन्ते । सांख्यस्योल्लेखाहीः सिद्धान्ताः
१. प्रकृतिः पुरुषश्चेति द्वे मूलतत्त्वे । अनयोरेव सम्बन्धाज्जगदुत्पद्यते । प्रकृतिजंडा , पुरुषश्चेतनः , पुरुषसम्बन्धात्प्रकृतौ क्रिया ।
२. सत्कार्यवादोऽत्र । समथिता ।
पुरा सांख्यमीश्वरवादि आसीत् साम्प्रतिकं तु निरीश्वरवायेव । प्रकृति पुरुषाभ्यामेव जगदुत्पत्ती समर्थयितुं शक्यायां वृषेश्वरकल्पनेति तदाशयः ।
बुद्धप्रचारितमतस्योपरि सांख्यदर्शनस्य महान प्रभावो दृश्यते - दुःखस्य सत्ता , वैदिकक्रियाकलापस्यानभ्युपायतया गौणभावः , ईश्वरेऽनास्था , जगतः परिणामशीलता इत्यादयः सिद्धान्ता बौद्धः सांख्यदर्शनत एवं गृहीताः । प्राची नस्यास्य दर्शनस्य सिद्धान्ता भगवता बुद्धेन स्वीयतया प्रचारिताः स्युरिति नाश्चर्यम् । अहिंसावादे तु बौद्धेः समं जेना अपि सांख्यदर्शनस्याधमर्णाः ।
अत्र मते पञ्चविंशतिस्तत्वानि -
१ . मूलप्रकृतिः ,
२ , महान् ,
३ अहङ्कारः ,
शब्दस्पर्शरूपरसगन्वतन्मात्राणि पञ्चेत्यष्टी ,
एकादयोन्द्रियाणि , ८ + ११-१९
पञ्चमहाभूतानि इति
१९ + ५-२४ , पञ्चविंशतितमः पुरुषश्च ।