न्याय दर्शनम्
6/14/2022 10:11:26 am
न्याय दर्शनम्
अतिप्राचीनं न्यायशास्त्रम् । अस्य शाखस्य प्रवत्तंकः सूत्रकारो गौतमः ५०० ई ० पू ० समयेऽजायत । तेन सूत्राणि प्रणीतानि , षोडशपदार्थाश्चाभ्युपगताः प्रमाणप्रमेयाद्याः । गौतमप्रवत्तितं न्यायशास्त्रे पदार्थमीमांसाशाखम् । एषां सूत्राणां भाष्यं द्वितीदशतकोत्पन्नेन वात्स्यायनेन प्रणीतं यद् वात्स्यायनभाष्य नाम्ना प्रसिद्धम् वात्स्यायनस्योदयकालो ब्राह्मणधर्मबौद्धधर्मयोः सङ्घर्षस्य समय आसीत् ।
वात्स्यायनभाष्योक्तानां सिद्धान्तानां खण्डनं दिङ्नागनामकेन बौद्धनेयायिकेन स्वकृते प्रमाणसमुच्चयनामके ग्रन्थे कृतम् । तदनन्तरं षष्ठशतकोत्पन्न : उद्योतकरा न्यायवात्तिकं निर्माय दिङ्नागकृतानाक्षेपान माजयामास । ततत्व धर्मकीत्तिर्नाम बौद्धनैयायिकः प्रमाणवात्तिक रचयित्वा उद्योतकरस्य मतं दूषयामास । ततश्च वाचस्पतिमिश्रः न्यायवात्तिकतात्पर्य तदीयमपि मतं विस्तारेण गहँयामास । उदयनोऽपि ' न्यायवार्तिकतात्पर्यपरिशुद्धि ' नामकेन व्याख्याग्रन्थेन वाचस्पतेग्रन्थं परिष्कृतवान् । सर्वमपीदं प्राचीनन्यायनाम्ना व्यवहृतम् ।
प्रमाणमीमांसायां व्यापूतो गङ्गशोपाध्यायः ' तत्त्वचिन्तामणि ' नामक ग्रन्थं निर्माय नव्यन्यायं प्रवत्र्तयामास । तस्य कालः द्वादशं शतकम् । चिन्तामणेष्टीका दीधितिः त्रयोदशशतकोत्पन्नेन रघुनाशिरोमणिना कृता । तत्समकालिकेन मथुरानाथेन चिन्तामणिदीधित्यो रहस्यं प्रणीतम् । दीधितेष्टीके जागदीशी - गादा पर्यो जगदीशगदाधराभ्यां प्रणीते ये नव्यन्यायशास्त्रं जीव्यामासतुः । अनयोः कालः सप्तदशं शतकम् । इत्थं दृश्यते यद् द्वादशशतकात् सप्तदशशतकपर्यन्तं नव्यन्यायशास्त्रस्यस्वर्णयुगमासीत् ।
ज्ञानान्मुक्तिरिति सर्ववादिसिद्ध परन्तु गुद्धं ज्ञानं कथं प्राप्यते इदमेव वस्तु मीमांसितुं न्यायशास्त्रं प्रवृत्तम् । तत्र -
' प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धा न्तावयवत्तकनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां यथार्थ ज्ञानान्निःश्रेयसाधिगम '
इति तत्सिद्धान्तः । परमाणुका रणतावादोऽस्य विशिष्य ध्यानमाकर्षति दार्शनिकानाम् ।
न्यायमते - सुखदुःखात्मकमनोवृत्त्योनशि जाते मनः साम्यावस्थां प्रतिपद्यते , तदा यत्र न दुःखं नापि सुखं तिष्ठति , सैव मुक्तिः । ईश्वरोऽनुमानगम्यः । जीवन्मुक्तिरपरनिःश्रेयसश - देन विदेहमुक्तिश्च पर निःश्रेयसशब्दन प्रतिपाद्यते ।