वैशेषिक दर्शनम्

वैशेषिक दर्शनम् 

सकलदर्शनापेक्षया वैशेषिकदर्शन प्राचीनम् । एतत्प्रणेता कणादः कश्यप वंशोत्पन्नतया काश्यपशब्देनोक्तः । अयमेव मुनिः उलूक इत्यप्युक्त : 
' विरुद्धासिद्धसन्दिग्धमलिङ्ग काश्यपोऽत्रवीत् ।
महाभारते भीष्मपर्वण्युलूको नामपिर्वणितः । अयमेव कणादः , कणभक्षः , कणभुक् चाख्यायते । 
वैशेषिक दर्शनम्

' न वयं षट्पदार्थवादिनो वैशेपिकवत् ' इति सांख्यसूत्रमतोऽयं साहयात् प्राचीनः सिद्धः । 
' महद्दीवदा ह्रस्वपरिमण्डलाभ्याम् । ' इत्यस्य व्याससूत्रस्य पर्यालोचनयाऽ स्य वेयासकदर्शनापेक्षया पूर्वकालिकत्वम् आयाति । 
शब्दोत्पत्तिविनाशवाद एतदुक्तः ' कर्मके तत्र दर्शनात् ' इत्यादिसूत्रर्जेमिनिना निरस्त इत्यस्य जेमिनेरपि प्राचीनता सिद्धा ।
 इदं दर्शनमोलूकदर्शननाम्नाश्प्युच्यते । तदुक्तं नैषधीये 
' औलूकमाहुः खलु दर्शनं तत् क्षमं तमस्तत्वनिरूपणाय । '
 विशेषपदार्वस्वीकारमूलकमेदास्य दर्शनस्य वैशेषिकमिति नामकरणम् । न्यायापेक्षयापि वैशेषिकं प्राचीनम् । वैशेषिके यो हेत्वाभासाः स्वीकृताः । न्याये त एवं पञ्चप्रकारतां गमिताः । यदि न्यायादर्वाचीन वैशेषिकमभविष्य तदा न्यायोच हेत्वाभासस्य पञ्चविधत्वं निराकर्तृमत्र युत्य उदास्यन्त । 

    दशभिरध्यायः ३७० सूत्रेश्च निबद्धमिदं दर्शनम् । प्रत्यध्यायं द्वे आह्निके । प्रथमेऽध्याये समवेताशेषपदार्थकचनम् , द्वितीये द्रव्यम् , तृतीये आत्मान्तः करणनिरूपणम् , चतुर्थ शरीरभेदनिरूपणम् पञ्चमे फर्मनिरूपणम् , पच्छे श्रौतधर्मनिर्वचनम् , सप्तमे चात्मगुणनिरूपणम् । दर्शनमिदं सर्वशास्त्रोप कारकम् । 

    अत्र दर्शने सर्वप्राचीनो ग्रन्थः सूर्य रावणप्रणीतम् । तदनन्तरं भारद्वाज वृत्तिः , प्रशस्तपादभाष्यम् , शङ्करमिथस्योपस्कारः जयनारायणभट्टाचार्यस्य कणादसूत्रवृत्तिः , चन्द्रकान्तभट्टाचार्यस्य वैशेषिकभाष्यच । 

अत्र शास्त्रे द्विवियो ग्रन्थः - सूत्रव्याख्यानरूपः पदार्थव्याख्यानरूपश्च । उपर्युक्ता ग्रन्था विशेषतः सूत्रव्याख्यानरूपा एव । 
    प्रशस्तपादेन भाष्य प्रणीयात्र शाने युगान्तरं प्रवत्तितम् । तपाख्यानानि नितान्तगभीराणि जातानि यथा - व्योमशिवाचार्यस्य व्योमवती , श्रीधरस्य न्यायकन्दली , उदयनाचार्यस्य किरणावली , श्रीवत्सस्य लीलावती , जगदीशस्य भाष्यसूक्तिः , शङ्करस्य कणादरहस्यम् इत्यादिकानि । 
निःश्रेयसमस्य शाखस्य मुख्य प्रतिपाद्यम् । तत्तत्पदार्वजातस्य विविक्ततया ज्ञाने निःश्रेयसस्य साधनम् । तदुक्तम् 
' धर्मविशेषप्रसूतात् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधयं बंधाभ्यां तत्वज्ञानानिःश्रेयसाधिगमः । '
 जीवात्मा ज्ञानस्वरूप एवात्रापि दर्शन न तु ज्ञानगुणका । ज्ञानस्वरूपस्यापि तस्य ज्ञानाश्रयत्वं प्रमारूपस्य सूर्यस्य प्रमाश्रयत्ववदुपपाद्यते । परमात्मा तु ईश्वरापरनामा जीवात्मनो भिन्न एव । स हि सर्वशो विभुनित्यशुद्धमुक्तस्वभाव ।। जीवात्मा पुनः सुखदुःखानुभवोपेतो जन्ममरणादिजालपतितः । 
    अनादिवासनया देहमेवात्मानं मन्यमानो जीवो विषयेषु रज्यति , ततस्तत्र प्रवर्तते , अवर्तमानः शुभाशुभकर्माणि सञ्चिन्त्य सुखदुःखे अनुभवति । तत्त्वज्ञानेन मिथ्यावासनायाँ निवत्तितायां रागाभावात् प्रवृत्यभावे कर्माभावात् सुखदुःखापगमः , स एव च मोक्ष इति शाखस्यास्य तत्त्वम् ।