बौद्ध दर्शनम्
जैनदर्शनादुत्तरकाले प्रचरितमभवत् । बौद्धदर्शनग्रन्थेषु जैना नामन्तिमतर्थङ्करस्य नाटपुत्तस्य नामोल्लेखः सिद्धान्तालोचनं च दृश्यते । जैनग्रन्थेषु बौद्धदर्शनविषयकः कोऽपि तादृश उल्लेखो न विद्यते , अतो बौद्ध दर्शनस्य जैनदर्शनोत्तरकालिकत्वं प्रतीयते ।
बौद्धदर्शनस्य भागद्वयं धार्मिको भागः दार्शनिकश्च भागः । तत्र धार्मिकभागे आध्यात्मिकतत्त्ववर्णनम् आचारनिरूपणं च प्रपञ्चितम् , दार्शनिकभागे तु ताकिकदृष्ट्या बौद्धसिद्धान्तस्य सूवर्म विवेचनं प्रस्तुतम् ।
गौतमबुद्धस्य चरितं सर्वविदितम् । तेन ५२८ ई ० पू ० समय ज्ञानोदयं प्राप्य बुद्धपदवी प्राप्ता । ततः स सारनाथनामके स्थाने भिक्षुभ्यः उपदेशं प्रदाय धर्मचक्र प्रवर्तयामास । आयुषोशीतितमे वर्षे मल्लगणतन्त्रस्य राजधान्यां कुशीनगरे निर्वाण प्राप्तः । एतस्य जन्म बुद्धत्वप्राप्तिनिर्वाणञ्चेति तिस्रोऽपि घटना वैशाखपूणिमायामेव जाता इति महत्कुतूहलायहम् ।
बौद्धदर्शनस्य प्रधानविषयाः - रूपविज्ञानवेदनासंज्ञासंस्कारनामकस्कन्ध पञ्चकमेवात्मा न तदन्यः । सोऽयं बौद्धानां नैरात्म्यवादो मिलिन्दप्रश्ने साधु निरूपितः । बौद्धानां मते जीवो जगच्चेत्युभयमपि अनित्यं प्रतिक्षणपरिणामशालि च । यथा दीपशिखाऽनुपले परिणमन्तो अपि एकव प्रतीयते तथैव जीवा जगच्च परिणमति । प्रतिक्षणपरिणामिनो हि भावाः ।
बौद्धदर्शन मुख्यतया चतुर्षा विभज्यते वैभाषिक - सौत्रान्तिक - योगाचार-माध्यमिकप्रभेदात् । वैभाषिका बाह्यार्थप्रत्यक्षमङ्गोकुर्वन्ति , सौत्रान्तिका बाह्यार्थमनुमेयमाहुः , योगाचारा विज्ञानवादिनः , माध्यमिकाश्च शून्यवादिनः । सङ्ग्रहीतोऽयमर्यो मानमेयोदये
' मुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगद्
यागाचारमते तु सन्ति मतपस्तासां श्वित्तोऽखिलः ।
अर्थोऽस्ति क्षणिकस्त्स्वसावनु मितो बुयेति सौत्रान्तिकः
प्रत्यक्ष क्षणभङ्गुरच सकलं वैभाषिको भाषते ॥ '
एषु चतुर्ष वैभाषिकाणां हीनयानं सम्प्रदायः , त्रयाणामन्येषां महायानं सम्प्रदायः । वैभाषिकाः संसारनिर्वाणयोरुभयोरपि सत्यत्वम् , माध्यमिकाः , उभयोरप्यसत्यत्वम् , सौत्रान्तिका संसारस्य सत्यत्वं निर्वाणस्य पुनरसत्यत्वम् , योगाचारास्तु संसारस्यासत्यतां निवणिस्य च सत्यत्वमाहुः ।
चतुर्था भिन्नोऽयं बौद्धधर्मः सुमहान्तं ग्रन्थराशि धत्ते ।
वैभाषिकप्रस्थाने अभिधर्मज्ञानप्रस्थानशास्त्रनामको विशालकायो ग्रन्थः कात्यायनीपुत्रप्रणीतो बुद्धनिर्वाणात् शतत्रयाब्दानन्तरं प्रथते स्म । मूलरूपेणा प्राप्यस्याप्यस्य ग्रन्थस्य सप्तमशताब्द्यां जातश्चीनभाषानुवादः प्राप्यते । कनिष्क शासनकाले ग्रन्थस्यास्य अभिधर्मविभाषाशास्त्रनामा व्याख्या प्रणीता । सोऽय मपि व्याख्याग्रन्थः संस्कृते दुर्लभतां गतोऽपि तिब्बतभाषायामासाद्यते ।
वसुबन्धोः अभिधर्मकोशः चतुर्थशतके लिखितो यं बाणभट्टः कादम्बर्या स्मरति - ' शुकैरपि शाक्यशासनकुशलैः कोशं समुपदिशद्भिः ' इति । अभिधर्मकोशस्य बहबष्टीकाग्रन्था विद्यन्ते । यथा स्थिरमतेस्तत्त्वाख्या , दिङ्नागस्य मर्मप्रदी पाख्या , यशोमित्रस्य स्फुटार्था च ।
सौत्रान्तिका बुद्धरचितत्वाभावाद् अभिधर्मकोशस्य प्रामाण्यं नाभ्युप गच्छन्ति । ते तु सुत्तपिटकमाद्रियमाणाः सूत्रान्तप्रामाण्यवादित्वात्सौत्रान्तिका इति ख्याताः । सौत्रान्तिकसम्प्रदायो वैभाषिकसम्प्रदायाद् पश्चात्कालिकः । सौत्रान्तिकसम्प्रदायस्थापकाश्चत्वारः - कुमारलातः , श्रीलातः , धर्मत्रातः बुद्ध देवश्च । एषु प्रथमस्य कुमारलातस्य समयो द्वितीयं शतकम् । ' कल्पनामण्डि तिका ' इति नाम्नाऽस्यका रचना प्रसिद्धा ।
योगाचारसम्प्रदायस्याद्यः प्रवत्तंको मैत्रेयनाथो , यो मध्यान्तविभागं नाम ग्रन्थं निर्मितवान् । असनेनात्र गद्यमयी व्याख्या कृता । वसुबन्धुनाऽत्र भाष्यम् , स्थिरमतिना च तद्भाष्यटीका कृता । असङ्गाचार्यों राज्ञश्चन्द्रगुप्तस्य समये वत्तंत । अस्यासङ्गस्य भ्रातैव वसुबन्धुर्येन बहवो ग्रन्थाः प्रणीताः । तदीय एको ग्रन्थो ' लेवी ' महाशयेन त्रिशिकानाम्ना प्रकाशितः । दिङ्नागधर्मकीत्तिधर्मपाला अप्येतन्मतपोषका आसन् ।
माध्यमिकमतं शून्यवादनाम्नाऽपि प्रसिद्धम् । अस्य मतस्याचार्येषु नागार्जुनः मुख्यः । अस्य माध्यमिकशास्त्रनामा ग्रन्यो नितान्तख्यातः । बुद्धस्य बहवः सिद्धान्ता उपनिषत्सिद्धान्तेन सह समानाः । यथा - ' ऋते ज्ञानान्न मुक्तिरिति सिद्धान्तः । बौद्धदर्शने त्रीणि रत्नानि - शील , समाधिः , प्रज्ञा चेति ।