चार्वाक दर्शनम्
चार्वाकदर्शनस्य बीजं वेदेषु वर्तमानमासीत् - ' न प्रेत्य संज्ञाऽस्ति ' - मरणात् परतः किमपि नास्ति ।
' भस्मीभूतस्य देहस्य पुनरागमनं कुतः ? '
इयमेव पूर्व पक्षोयविचारधारा चार्वाकदवानस्य मूलम् ।
इमे चार्वाकाः परलोकं न मन्यन्ते , शरीरमेवात्मानं स्वीकुर्वन्ति । इदमेव दर्शनं लोके बाहुल्येन प्रचरितत्वात् लोकायतदर्शननाम्नाऽपि व्यवहृतम् । बुद्धिवाद एवामी आस्थाभाजः , वितण्डेव चैषां कथासाधनम् । तथा चोक्तं जयन्तभट्टेन-
' नहि लोकायते किञ्चत् कर्त्तव्यमुपदिश्यते ।
वैतण्डिककथेवासौ न पुनः कश्चिदागमः ।। '
चारुः वाक् ' इति निर्वचनं चार्वाकशब्दस्य । बृहस्पतिप्रणोतमिदं दर्शनम् । बार्हस्पत्यानि सूत्राणि वेदान्तसूत्रीयभाष्ये श्रीधरो नीलकण्ठीप्रभूतिगीताटीकासु चोपलभ्यन्ते तथा
' अथ लोकायतम् । '
' पृथिव्यप्तेजोवायुरिति तत्त्वानि । '
' तत्समुदाये शरीरेन्द्रियविषयसंज्ञा '
' तभ्यश्चैतन्य '
' किण्वादिभ्यो मदशक्तिवद् विज्ञानम् । '
' चेतन्यविशिष्टः कायः पुरुषः । '
' काम एवेकः पुरुषार्थः । '
' मरणमेवापवर्गः । '
एतानि सूत्राणि बृहस्पतेराचार्यस्य प्राचीनतां गमयन्ति , तदीयं सिद्धान्तं स्थिर यन्ति च । अयमर्थशास्त्र-प्रणेतुबृहस्पतेरभिन्न एव ।
भासेन स्वीये प्रतिमानाटके बृहस्पतेरर्थशास्त्रस्योल्लेखः कृतः । बृहस्पति मर्थशास्त्रप्रणेतारं कौटिल्योऽपि स्वस्थार्थशास्त्र स्मरति स्म । तदेवमस्य बृहस्प त्युपज्ञस्य दर्शनस्य प्राचीनत्वं समथितं भवति ।
कतिचिद् अस्य दर्शनस्य मुख्याः सिद्धान्ताः-
प्रत्यक्षमेव केवलं प्रमाणम् , इन्द्रियार्थसन्निकर्पोत्पन्नं ज्ञानं हि तत् । शरीरमेव जीवः , श्यामोऽहं गौरोऽहम् इत्यादिकाः स्वरसवाहिन्यः प्रतीतयोऽपि देहमेव जीवत्वेन ग्राहयन्ति । सृष्टिः स्वभावत एव जायते , न तत्रेश्वरापेक्षा । ईश्वरो नास्त्येव ।
" यावज्जीवेत्सुखं जीवेदणं कृत्वा घृतं पिबेत् ।
भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ '
' त्याज्यं सुखं विषयसङ्गमजन्म पुंसां
दुःखोपसृष्टमिति मूर्खविचारणेषा ।
ब्रीहीन जिहासति सितोत्तमतण्डुलाख्यान
को नाम भोस्तुवकणोपहितान् हितार्थी । '
इत्यादिभिर्लोकहृदयावजकेस्तरवलम्बितस्यास्य दर्शनस्य प्रचारे जाते जातुचित समाजेऽव्यवस्था प्रसज्येतेति विभाव्यैव बृहस्पतिनाऽर्थशास्त्र प्रणीय लोक व्यवस्थाऽपि कर्त्तमीहितेति तन्मतसमर्थकाः ।
चार्वाकदर्शनग्रन्थाः सम्प्रति नोपलभ्यन्ते । आस्तिकदर्शनकाररस्य दर्शनस्य तथा निन्दा कृता यथा दर्शनमिदमस्तङ्गतम् । प्रागत्र दर्शन ग्रन्था आसन् , कालेन ते कवलोकृताः । पतञ्जलिसमये अस्मिन् दर्शने ग्रन्थाः प्राप्यन्ते स्म । ३।२०५३ सूत्रस्य भाष्ये पतञ्जलिना उक्तम् - ' वणिका - भागुरी लोकायतस्य' वणिका व्याख्यात्री , भागुरी टीकाविशेष इति तद्भाष्योपरि कैयटः । एतेन तत्काले चार्वाकदर्शनगन्यानां प्रचारः सिद्धयति । सम्प्रति तु दर्शनग्रन्थेषु यत्र तत्रोद्धरणमात्र पूर्वपक्षरूपेण दृश्यते ।