संस्कृतसाहित्य का उपसंहार
संस्कृतसाहित्यस्य प्रारम्भतः सम्प्रति यावज्जातस्य विकासस्यात्र सक्षिप्य चर्चा कृता । पाठकाः शक्नुवन्ति भावयितुं यथा धारा वैदिकसाहित्यहिमवतो निर्गता प्रायेण ५०० ई ० पू ० समये , सा प्रवहन्तीवायाता द्वादशं पातकं यावत् ।
एवं हि दृश्यते नदीष्वपि , कुतोऽपि पर्वतादवतरन्ती काचन नदी यदा तुङ्गाददिशिखरादवनीमवरोहति तृषितानाप्याययितुञ्च पुर उपसर्तुमिच्छति , तदा गण्डौलासममहीप्रभृतिप्रभवप्रतिबन्धेन रुद्धप्रसरेव भूत्वा भूयो वेगेन प्रवति , पुनश्च क्वचन् प्रदेशे केनापि महीरुहा उन्नतभूखण्डेन वा कियन्तं कालं यावनिरुध्यते , परं पूरोत्सेचे जाते कुतोऽपि मार्गान्तराद् भूयः सा पुरस्स रति , एवमोऽपि ।
तथैव वेदहिमवतो निर्गताया अस्याः संस्कृतसाहित्यस्य पावनधारायाः प्रवाहेऽपि पश्यामः ५०० ई ० पू ० समये या काव्यधारा निर्गता सा संवत्सरशतद्वयं यावदवरुद्धप्रसरेव स्थित्वा महता वेगेन कालिदासाश्व घोषादिकाव्यधाराभावेन जगन्ति प्लावयितुं प्रवृत्ता ।
ततः केनापि कारणेन निरुद्धप्रसरा सा घारा माघभारविवाणसुबन्धुभवभूतिप्रभूतिकवितारूपेण षष्ठशतकादष्टमं शतकं यावदविच्छन्नधारं वहति स्म । पुनरपि मन्दीभूतबंगाया विततस्वरूपाया रीतिरूपतटवेष्टितायाश्च तस्या धाराया वेगः स्तमित्यमिव यावद्याति तावदेव श्रीहर्षस्य कविता तां धारां द्विगुणवेगतामनयत् ।
ततः पुनरपि तस्या वेगः स्थिरीभूत इव जातः । यथा कनखलादाविभूताया गङ्गाया वेग उपपाटलिपुत्रं मन्दायते , काम तरङ्गा अधिकता भजन्ता , तथैवास्याः कविता बाराया वेगो मन्दतां गतः । अत्रावसरे जाता महतो काव्यसृष्टिः प्लावितं समधिकं क्षेत्र पर मुग्रा गतिरखरुदेव ।
ततः पुनरेकदा घोडाशतकसमीपेऽस्यां धारायां वेग इवायातो यदा पण्डितराजजगन्नाथ नीलकण्ठदीक्षितादयो दाक्षिणात्याः स्वकाव्यानि प्रकटयामासुः । सोऽयं प्रवाहः शिथिलतां गतोऽपि तत्रैव समाप्त इति नाशङ्खनीयम् । तदनन्तरमपि समये समये काव्यान्यसृज्यन्त । यवनराजगणकाले पोडशशतकादष्टादशशतकं यावदपि बहवः कवयः संस्कृतसरस्वत्याः सेवायां सावधानतां प्रकटीकृतवन्तः तेषु जवान्नाथस्य विषये प्रागेव लिखितम् । तदन्येऽपि सन्ति बहवः उल्लेखयोग्याः यथा- .
१. भानुमिश्रः भानुदत्तमियो वा ( षोडशशतकम् ) -अयं मिथिलास्था कविराजो रसमजरोरसतरङ्गिणोनामको नायिका भेदग्रन्थो , गीतगौरीशं नाम गीतिकाव्यञ्च प्रणीय सरस्वत्या आराधनां कृतवान् । एतत्सन्ततिः सम्प्रत्यपि मिथिलायां जीवति । इदमीयमेकमेव पद्यमस्य कविताशैली गमयितुं पर्याप्त भविष्यति
' आत्मीयं चरणं दधाति पुरतो निम्नोन्नतायां भुवि
स्वोयेनेव करेण कर्षति तरोः पुष्पं श्रमाशङ्कया ।
तल्पे किश मृगत्वचा विरचिते निद्राति भागेनिजे
रन्तःप्रेमभरालसा प्रियतमामङ्ग दधानो हरः ॥
सप्तदशशतके सगृहीतेषु सुभाषितग्रन्येषु भानुदत्तमिवस्य सार्धशतश्लोकाः प्राप्यन्ते येन तदीयकाव्यलोकप्रियता प्रतीता भवति ।
२. अकबरोय - कालिदासो गोविन्दभट्टः - १५५२-१५९ २ ई ० समये वर्तमानस्य रीवानरेशस्य रामचन्द्रस्य प्रशंसायां लिखितं गोविन्दभट्टस्य ' रामचन्द्रयश : प्रशस्ति ' नामकं काव्यमपूर्णमेव प्राप्तं भवति । इदमपूर्णमपि काव्यमस्य कवेमहा कवित्वं गमयितुमलयम् । अकबरस्याश्रये स्थितिरप्यस्य कवेमहत्वं सूचयति । अनेन स्फुटपद्यान्यपि बहूनि प्रणीतानि ।
३. पुण्डरीकविठ्ठलः ( १५७६ ई . ) - अनेन रागमञ्जरोरागमालानामको ग्रन्थो खानदेशाधिपस्य , नवाब - बुरहानशाहस्याश्रये स्थित्वा लिखिती ।
४. हरनारायणमिथः वंशीधरमिथश्च - इमौ ' शाहजहाँ ' नामकस्य यवन सम्राजः समये प्रसिद्धौ तदाश्रितौ च कवी आस्ताम् । अनयोः कृतयस्तु नोपलभ्यन्ते ।
औरङ्गजेबनाम्नः प्रसिद्धस्य यवनसम्राजो मातुलस्य सेनापतेश्च शाइ स्ताखांमहोदयस्य प्रसन्नतायै चतुर्भुजकविः रसकल्पदुमन्नाम ग्रन्थं प्रणीतवान् । अस्य ग्रन्थस्य प्रणयनं १६४५-१६८९ ई ० जातम् ।
औरङ्गजेबस्य पुत्र महम्मदशाहे शासनाधिरूढे सति लक्ष्मीपति म कवि लिपिमालिकां नाम चम्पूग्रन्थ प्रणीतवान् , यत्र मुहम्मदशाहस्य राज्यारोहण प्रारम्भिकघटनावल्यः साधु वर्णिताः । अत्र ग्रन्थे ऐतिहासिकसामग्रो अपि प्रचुर मात्रायां लभ्यते ।
राधावल्लभसम्प्रदायाचार्येण हितहरिवंशेन राधासुधानिधिनामकगीति काव्यस्य प्रणयनमत्रव काले कृतम् ।
दक्षिणभारतेऽप्यस्मिन् शतके साहित्यसृष्टिर्जाता । तंजोरनामकस्थानस्य राज्ञः शाहजोप्रथमस्य शासनकाले १६८४-१७११ ई ० समये राजभद्रदीक्षित चोक्कनाथप्रभृतयः कवयः काव्यानि जग्रन्थुः । तस्यैव शतकस्य प्रारम्भ बेकटकृष्णदीक्षितेन नटेशविजयं रामचन्द्रविजयञ्चेति काव्यद्वयम् , महादेव कविना अद्भुतदर्पणः शुकसन्देशञ्चेति काव्यद्वयम् , नल्लादीक्षितेन सुभद्रा परिणयशृङ्गारसर्वम्वे नाम नाटकभाणगन्थी , यज्ञनारायणदीक्षितेन साहित्य रत्नाकरः , उद्दण्डकविना मल्लिकामारुतम् , शिङ्गभूपालेन रसाणवसुधाकरः कृष्णरायराजेन जाम्बवतीकल्याणम् , शरभोजिना राघवचरितम् , वामनभट्टेन शृङ्गारभूषणम् , भूमिनायेन धर्मविजयचम्पूः च प्राणायिषत ।
छत्रपतिशिवाजीमहोदयस्य राजत्वकाले हरिकविना शम्भुराजचरितं नाम काव्यं १६८५ खीष्टाब्दे प्रणीतम् । तदनन्तरं भारते साम्राज्यपरिवर्तनमजायत , वैदेशिक शासनम् प्रारभत , ईस्टइण्डियाकम्पनी स्वं शासनं प्रचारयामास । तत्रापि काले बाणेश्वरभट्टा चार्येण विवादाणबसेतुनामक पुस्तकं प्रणीतं येन अंग्रेजन्यायाधीशाः शासने उपकृता बभूवन् । अस्मिन्नेव समये विश्वेश्वरेण पर्वतीयेनार्यासप्तशत्यपरा प्रणीता ।
इतः परतो विक्टोरिया नामकशासिकायाः काले कविताक्षेत्रस्यापेक्षया व्यवस्थितशाखाध्ययनाध्यापनक्षेत्रे महती उन्नतिरजायत । कलकत्ता - वाराणसी लाहौरप्रभृतिस्थानेषु संस्कृतमहाविद्यालयाः स्थापिता येषु शास्त्रीयमध्ययन विधिवद् व्यधीयत अस्मिन् समये उत्तरभारते बहवो विद्वांसः काव्यशास्त्रप्रणेतारोऽभवन् , येषु दुःखभञ्जनशुक्ल - गुमानीपन्तप्रभूतयो मुख्याः ।
तदनन्तरं विशशतकस्यारम्भकाले बहवः कवयस्तानि तानि काव्यानि प्रणीतवन्तो येषु बच्चाझापामणः सुलोचनामाधवम् , हर्षनाथशर्मणो राधानयन द्विशतीखण्डकाव्यम् , बङ्गीयस्य पञ्चाननस्यामरमङ्गल नाम नाटकम् , झोपा ह्वस्व जीवनाथस्य प्रभुनारायणचरितम् , चन्द्रशेखरस्य राजीचरितप्रकाशकाव्यम् , गङ्गाधरशास्त्रिणोऽलिविलासि संलापकाव्यम् इत्यादिकानि काव्यानि प्रथन्ते ।
तदनन्तरभवेषु कविषु जयपुरीयो मथुरानाथशास्त्री , मैथिलो बदरीनाथझा , वङ्गीयो हरिदाससिद्धान्तबागीयाः , महाराष्ट्रीया क्षमारावमहोदया च प्रसिद्धाः कवयः ।
सेयं संस्कृत काव्यधाराऽविच्छिन्ना चिरायानुवृत्ताऽग्रेऽपि सततं शतधार तामुपेतु । शमिति
यथा वसन्तः पुष्पाणि विकासयति सर्वतः ।
सश्चिन्त्य तानि कुरुते मालाकारः नजं शुभाम् ।।
तथैव पण्डितैरन्यैर्भाषासु विविधास्वपि ।
अथितं वृत्तमादाय ग्रन्थोऽयं रचितो मया ।।
यच्च क्वचिद् वस्तु नूनंन्यासि तत् सूत्रमात्मनः ।
मालाकारस्य मन्येऽहं किमितोऽधिकमुच्यताम् ।।