दर्शनानि
मनुष्यः स्वभावतो मननशीलः प्राणी विद्यते । मत्वा कर्माणि सीव्यतीति तन्निरुक्तिरपि पूर्वोक्तानुकूला । स हि कोऽहं कस्मादहमित्यादिसमस्याः सततं भावयित्वा ' आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ' इति दर्शनबीजमुद्भावितवान् । आत्मदर्शनायैव सर्वाणि दर्शनानि प्रवृत्तानि । आत्म दर्शन दुःखनिवृत्तयेऽपेक्षितं , दुःखनिवृत्तिरेव च सर्वरभीप्सिता ।
पाश्चात्त्यदेशेषु आचारविचारयोः किमपि सामञ्जयस्य नासाद्यते । दर्शनानि कण्ठस्थीकृत्यापि नाटकेषु पात्राणां प्रसाधने व्याप्रियन्ते तत्रत्याः । तत्रत्यं दर्शनं ज्ञानमात्रम् । फिलासफी ' ( Philosophy ) शब्दस्य मौलिकोऽर्थोऽपि तदनुकूल एव ।
भारतवर्षे तु विचारस्यानुसारेणैव आचारोऽपि नियम्यते प्रायशः । भारतस्य विचारप्रधानदेशत्वं सर्वेरभ्युपगतम् । अन्येषां देशानां जीवनसंग्राम एव तथा भीषणो यत् तत्रत्या जना जीवनसाधनेष्वेव सर्व समयं यापयितुं बाधिता भवन्ति । भारतीयास्तु प्रकृतिप्रवत्ताना जीवनसाधनानां सौलभ्येन ऐहिकी चिन्तां विमुच्य पारलौकिकी चिन्तामेव सततमाचरन्ति । सर्वप्रधानमत्र देशे अध्यात्मज्ञानमेव । भगवानपि ' अध्यात्मविद्या विद्यानाम् ' इत्युक्त्वा विद्यामिमा प्रधानतया योजितवान् ।
भारते दमनस्योदयो वेदकाल एवाजायत । ऋग्वेदे प्रजापतिपरमेष्ठी जगतो मूलतत्त्वं मीमांसमानः प्राप्यते । स हि - ' आनीदवातम् , इत्यादिमन्त्रेषु तदेव तत्त्वं विमुशन दृश्यते । अपरोऽपि संवनन आङ्गिरसो नामर्षिः ' सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम् ' इत्यादिमन्वेस्तस्यैव तत्त्वस्यान्वेषणाय लोकान् प्रेरयन् प्रतिभाति । अनयोः ऋष्योश्चिन्ता धारयोयी दिशा - प्रथमा चिन्तनप्रवृत्तिः , द्वितीया तर्कप्रवृत्तिः । इमे द्वे अपि मिलित्वा दर्शनान्यङ्करयितुं प्राभवताम् ।
वेदसंहितायामङ्कुरितस्य दर्शनद्रुमस्य उपषित्काले पल्लवितत्वं जातम् । ' तत्त्वमसि ' इति मन्त्रेण तदेव तत्त्वं प्रकटं प्रतिपादितम् । तदनन्तरं सूत्रकाले दर्शनगुमस्य शाखा विभक्ताः ।
सोऽयं दर्शनद्रुमः शाखाभेदेन बहुधा विभक्तः । तत्र स्थूलरूपेण प्रथमं द्वौ भागौ - वैदिकानि दर्शनानि अवैदिकानि च दर्शनानि । अवैदिकानि दर्शनानि नास्तिकदर्शनपदेन व्यवह्रियन्ते वैदिकानि च आस्तिकपदेन व्यवह्नियन्ते । तत्र अवैदिकदर्शनानि - चार्वाकदर्शनम् , बौद्धदर्शनम् , जैनदर्शनञ्च । वैदिकदर्शनानि च - न्यायदर्शनम् , वैशेषिकदर्शनम् , सांख्यदर्शनम् , योगदर्शनम् , मीमांसादर्शनम् , वेदान्तदर्शनश्च ।
वैदिकदर्शनानि च -