वेदान्त दर्शनम् (उत्तरमीमांसा)

वेदान्त दर्शनम् (उत्तरमीमांसा) 

    वेदान्तो वेदस्य अन्तः अवसानभागः इति विग्रहेण उपनिषद उच्यन्ते । उपनिषद एव प्राचीनैवेदान्तशब्देनोक्ताः । उपनिषदोऽनेकाः , तासु क्वचिदापाततो विरोधोऽपि प्रतिभासते । तस्येव विरोधस्य दूरीकरणाय व्यासेन ब्रह्मसूत्राणि रचितानि । एतानि सूत्राणि पाणिनेरपि प्राचीनानि , यतः पाणिनिस्तानि ' पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ' इत्यत्र सूत्रे भिक्षुसूत्राणि इति पदेन सस्मार । 
वेदान्तदर्शनम् (उत्तरमीमांसा)
' ब्रह्मसूत्रपदैश्चैव ' इति गीतायां ब्रह्मसूत्रपैदेन तान्येववेदान्तसूत्राणि स्मृतानीति श्रीधरस्वामी । तदेवं तानि सूत्राणि ६०० ई ० पू ० समयतः पूर्वमेव तत्रैव वा सममे निमितानि । एषामेव ब्रह्मसूत्राणां व्याख्याभेदेन बहवो वेदान्तस्य शाखाः प्रचलिताः । 

१. शङ्कराचार्यस्य अद्वैतमतप्रतिपादक भाष्यं ७०० ख्रीष्टाब्दे सम्पन्नम् । 
२. भास्करस्य भेदाभेदमतप्रस्थानकं भाष्यं १००० खीष्टाब्दे जातम् । 
३. रामानुजस्य विशिष्टाद्वैतोपपादक भाष्य ११४० बीष्टाब्दे सम्पन्नम् । 
४. मध्वाचार्यस्य द्वैतमतप्रवत्तंक पूर्णप्रजभाष्यं १२३८ स्त्रीष्टाब्दे सञ्जातम् । 
५. निम्बार्कस्य द्वैताद्वैतसमर्थकं वेदान्तपारिजातभाष्य १२५० खोष्टाब्दे जातम् । 
६. श्रीकण्ठस्य शैवविशिष्टाद्वैतभाष्यम् १२७० खोष्टाब्दे प्रादुभूतम् । 
७. श्रीपतेः वीरशैवविशिष्टाद्वैतभाष्यं १४०० खोष्टाब्दे निर्मितम् । 
८. वल्लभाचार्यस्य शुद्धाद्वैतप्रकाशकम् अणुभाष्यम् १५०० खीष्टाब्दे जातम् । 
९ . विज्ञानभिक्षोः अविभागातवादि विज्ञानामृतभाष्यम् १६०० खोष्टाब्दे उत्पन्नम् । 
१०. बलदेवस्य अचिन्त्यभेदाभेदबोधक गोविन्दभाष्यम् १७२५ स्त्रीष्टाब्दे सञ्जातम् । 

    तदित्यं वेदान्तसूत्राणि स्वस्वमतसमर्थनायाचार्याख्यातानि स्वमत पोषणायोपनिषदो गीतां भागवतञ्चापि तथैव व्याख्यातवन्तस्ते ते आचार्याः ! रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषामाचार्याणां सिद्धान्तान् व्याख्यातुं तदनुयायिनोऽपि प्रावतन्त , तेनायं वेदान्तोऽतिविस्तृतः समजनि । एषु भष्पिं सांख्यपक्षपाति । प्रागुल्लिखितेषु भाष्येषु श्रीकण्ठश्रीपत्योर्भाष्ये शेवमतं पोषयतः । विज्ञानभिक्षो बलदेवबल्लभाचार्यनिम्बार्कमध्वरामानुजाचार्याणां भाष्याणि तानि तानि वैष्णवमतानि प्रवर्तयन्ति । भास्करस्य भाष्यं सम्प्रदाया सम्पूक्तम् । शङ्करस्यापि तथैव । सोऽयं वेदान्तद्रुमोऽतिविततशाखो नितान्तदुरा रोहशिखरञ्च सज्जातः । 

इमे सर्वेऽपि वेदान्ता निम्नलिखितविषयेसु मतैक्यं धारयन्ति 

( क ) अनादिरनुवर्तमानोऽयं संसारोऽपास्य एव ।
( ख ) ज्ञानापेक्षया कर्मणो गौणत्वम् , कर्मणां चित्तशुद्धिजननद्वारा ज्ञाने सहायकत्वमात्रम् , व्यवहारे कमपिक्षा । 
( ग ) ब्रह्मादीन्द्रियातीतवस्तुनिरूपणे वेदाः प्रधानतया प्रमाणानि , तदनु मोदिता एव तस्तित्र प्रसरभाजः । 
( घ ) उपनिषदो गीता ब्रह्मसूत्राणि चेति प्रस्थानत्रयो मतसाधनायाव लम्बनम् । 
( ङ ) ब्रह्मव्यापकं नित्यञ्बेतनच । 
( च ) बाँव जगज्जन्मस्थितिप्रलयकारणं नान्यदचेतनं प्रकृत्यादि । 

    इयति साम्ये सत्यपि वेदान्तेष्ववान्तरसिद्धान्ता भिद्यन्ते । तेषामेवा वान्तरसिद्धान्तानां पोषणासार्याः परस्परं विप्रतिपद्यमाना दृश्यन्ते । शङ्करमते मायावादः प्रधानम् । वैष्णववेदान्ता मायाया भक्तिविरुद्धवान्मा यावादस्य विरोधिनः सजाताः । 

    सोऽयं मायावादः संहितास्वपि बीजभावेनावस्थितः , शङ्करभगवत्पादस्य परमगुरुणा गौडपादाचार्येण माण्डूक्यकारिकायां निर्धारितस्वरूपता प्रापितः शङ्करेण च प्रपधितः । शङ्करमते ब्रह्मसत्यं जगन्मायाकल्पितमत एव चानि वचनीयम् । सत्ता त्रिविधा - पारमार्थिकी , व्यावहारिकी , प्रातिभासिकी च । परमार्थसत्त्वं ब्रह्मण एवं जगतः सत्त्वं व्यावहारिकम् । शुक्तिरजतादेश्च सत्त्वं प्रातिभासिकम् । ब्रह्मणो द्वयो विधा , निर्गुणं सगुणच तत् मायाशबलं ब्रह्म सगुणं तदेवेश्वरः , निर्गुण ब्रह्म तु माययाऽदृष्टपूर्वम् । शङ्करमते ज्ञानादेव मुक्तिः कर्माणि चित्तशुद्धावुपयोगीनि । वैष्णववेदान्तास्तु - ईश्वर एव सर्वगुणशाली , स एव ब्रह्मापि । जीवो जगच्च तस्यैव प्रकारौ । जीवजगद्रूपप्रकारद्वयविशिष्ट ईश्वर एक एवेति विशिष्टाद्वैतमतम् । 

    निम्बार्कमते - जीवेश्वरी व्यवहारकाले भिन्नो , अत एवेदं द्वैताद्वैतमतमुच्यते । माध्वमते जीवेश्वरयोरेक्यं कदापि नोप पद्यते । यत्रान्यमतानि अवस्थाभेदेनेक्यं स्वीकुर्वन्ति जीवेश्वरयोस्तत्र माध्याः सदा भेदवादिनः । माध्वा ईश्वर जगतो निमित्तकारणमध्युपगच्छन्ति नोपादान कारणम् । अत एवेद द्वेतमतम् । 

    बल्लभाचार्या मायावाद प्रतिषेधन्तोऽपि अद्वैत स्वोकुर्वन्ति अतस्तदीयं मतं . मायामिश्रितवरहिततया शुद्धाद्वैतमतमुच्यते । 
    चैतन्यसम्प्रदायो माघ्वसम्प्रदायस्यैवाङ्गभूतः , परन्त्वनयोमंतयोदर्शनयोर्महान् ' भेदः । चैतन्यमते ईश्वरजीक्योर्भेदोऽभेदश्चेत्युभयं विद्यते परन्तदचिन्त्यम् । अत एवायं वादोऽचिन्त्यभेदाभेदवादनाम्ना व्यपदिश्यत । 

सर्वेषामेव वैष्णवदर्शनानां निम्नलिखिता समता .

१. भक्तिरेव मोक्षसाधनम् । 
२. अनन्तगुण ईश्वर एव ब्रह्म ।
३. चेतनजीवजडजगतोः सत्यता तथैव यथेश्वरस्य । 
४. जीवेश्वरभेदः सनातनः । 
५. जीवोऽणुरनन्तसंख्यश्च । 
६. विष्णुरेवेश्वरः अत एव तदवतारपूजां वैष्णवदार्शनिकाः प्रचारितवन्तः । 

रामानुजाचार्यः प्राचीनमानसम्प्रदायरच लक्ष्मीनारायणोपासनां पोषयतः । निम्बार्कवल्लभचैतन्यसम्प्रदायाः राधाकृष्णोपासनासमर्थकाः । 

शङ्कराचार्यस्य परमगुरखो गौडापादाचार्याः माण्डूक्यकारिकानामके ग्रन्थे पढीजमवाप्सुस्तदेव शाङ्करभाष्यनाम्ना व्यकसत् , ७०० खोटाब्दे शङ्कराचार्यण तहाष्यं प्रणीतम् । अत्र मते सुरेश्वराचार्यस्य वात्तिकग्रन्यः , पद्मपादाचार्यस्य पचपादिका , प्रकाशात्मयतिप्रणीतो विवरणग्रन्थः पचपादिकाव्याल्यात्मकः , सर्वज्ञात्ममुनेः सपिशारीरकम , श्रोहस्य खण्डनवायञ्चेत्यादयो बहवो ग्रन्थाः प्रसिद्धा नव्यन्यायभाषायां लिखिता अढे तसिद्धयादयो ग्रन्या अपि शास्त्रस्यास्य तत्त्वं सूक्ष्मतां नयन्ति । 

वैष्णवदर्शनेषु रामानुजदर्शने रामानुजप्रणीतं श्रीभाष्यम् , सुदर्शनस्य श्रीभाष्यटोका श्रुतप्रकाशिका , वेङ्कटनाथस्य तत्त्वटीकातत्त्वमुक्ताकलाप , गीतातात्पर्यायंचन्द्रिका चेत्यादयो ग्रन्थाः प्राचोनाः , शतदूषणीप्रभूतमश्च नवीन पढत्या रचिता अन्याः । 

निम्बाकाचार्यमते तदीयं पारिजातभाष्यम् , श्रीनिवासाचार्यस्य वेदान्त कौस्तुभनाम्नी तट्टीका , केशवभट्टस्य कौस्तुभप्रभानाम्नी तट्टीका च प्रसिद्धाः । पुरुषोत्तमाचार्यकृतः श्रुत्यन्तसुरमः , देवाचार्यस्य सिद्धान्तजाह्नवी चात्र दर्शने प्रौढतमो पन्यो ।

 माध्वमते - मध्वाचार्येण स्वयं प्रस्थानत्रयीभाष्यं लिखितं , तद्व्याख्या जयतीर्थेन कृता । व्यासतीर्थस्य न्यायामृतमप्यत्र दर्शने नितान्तमोलिको ग्रन्थः । 

वल्लभमते वल्लभाचार्यस्याणभाष्य , भागवतस्य सुबोधिनी , विठ्ठलनाथस्य विद्वन्मण्डनम् , कृष्णचन्द्रस्य भावप्रकाशिका , गिरिधरस्प शुद्धा तमार्तण्डायो अन्याः प्रथिताः । 

चैतन्यसम्प्रदाये बलदेवविद्याभूषणस्य गोविन्दभाष्यम् , श्रीरूपगोस्वामिनः लघुभागवतामृतम् , उज्ज्वलनीलमणिः , भक्तिरसामृतसिन्धुएच , सनातनगोस्वा मिनः वृहद्भागवतामृतवेण्णवतोषिणीहरिभक्तिविलासाः , जीवगोस्वामिनः षट् सन्दर्भः , इति ग्रन्थाः स्तम्भभूताः । 

तदेवं सङ्क्षिप्य वणितो वेदान्तसमुदयः । भारतीय दर्शनं वेदान्तपर्य वसायि , यतोऽत्र सर्वत्र दर्शनेषु क्रमविकास इव प्रतीयते । प्रथम कणादस्या रम्भवादः तदनन्तरं गौतमस्य परमाणुवादः , तत्परतोऽपि सांख्यस्य परिणाम बादः , सर्वान्ते वैदिको विवर्त्तवादः । सोऽयं विकासो वेदान्तपर्यवसायितां बोधयति दर्शनानाम् ।