🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

रस सम्प्रदायः

https://www.sanskritgyan.com/2022/06/blog-post_762.htm

रससम्प्रदायः 

सम्प्रत्युपलभ्यमानो रससिद्धान्तो भरतेन प्रवर्तितः । तदीयम् - ' विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः ' इति सूत्रमेव रसस्वरूपनिर्णायकेष्वादिम प्रसिद्धम् । ततः प्राचीनानां नन्दिकेश्वरप्रभृतीनां मतं नोपलभ्यते । भरतेन स्वीयनाट्यशास्त्रस्य पष्ठे सप्तमे चाध्याये रसस्य विषये स्वमतं प्रकाशितम् ।
' विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः ' 
इति भरतसूत्रं बहुभिया ख्यातम् । तत्र मतभेदोऽभ्युत्पन्नः । भट्टलोल्लटप्रभृतयः संयोगादित्यस्य जन्य जनकभावरूपात्सम्बन्धादित्यर्थं कृत्वा रसं विभावादीनां कार्यमाहुः । 
रससम्प्रदायः
    शकुकादयस्तु संयोगादित्यस्य अनुमाप्यानुमापकसम्बन्धादित्यर्थं कृत्वा विभावादिभिः रसस्यानुमानं स्वीकृतवन्तः । भट्टनायकादयश्च संयोगादित्यस्य भोज्यभोजकभावरूपात्सम्बन्धादित्यर्थमभिप्रयन्तः अभिधातोऽन्यद्भावकत्यभोज कत्वनामक व्यापारद्वयं कल्पयन्तश्च विभावादिभी रसो भोज्यत इत्याहुः । 

    अभिनवगुप्तादयश्च व्यङ्गथव्यनकभावं सम्बन्ध मन्यमाना रसं व्यङ्गयमभिदधते । रससम्प्रदायमनुसरताम-प्याचार्याणां मध्ये रससंख्याविषये मतभेदो दृश्यते । भरतो धनञ्जयश्च शान्तभिन्नानष्टावेव रसान्नाट्ये स्वीकुर्वन्ति , काव्ये तु शान्तोऽपि नवमो रसो मन्तव्य एव । रुद्रटेन ' प्रेयान ' रसोऽप्यङ्गीकृतः । 

    विश्वनाथभट्टाचार्यास्तु चमत्कारितया वत्सलमपि दशमं रसं विदुः । गौडीयवैष्णवा मधुररसं सर्वप्रधानमातिष्ठन्ते , स चायं मधुररसो भक्तिरसनाम्नापि परैव्यवलियते । ये तु करुणमेवैकं रस कथितवन्तः शृङ्गारमेव बेक रसमिष्टवन्तस्ते तत्वाधान्यप्रत्यायनायैव तथा कृतवन्तो नेतररसप्रतिषेधायेति मदीयो विश्वासः ।


मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

إرسال تعليق

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )