संस्कृत श्लेषकाव्यानि
6/14/2022 08:15:22 am
संस्कृत श्लेषकाव्यानि
श्लेषकाव्यानि
सन्ध्याकरनन्दिनो ' रामचरितम् ' अयं सन्ध्याकरनन्दी बंगतिपुण्ड्रवर्धनस्थस्य पिनाकिनन्दिनः पुत्रः प्रजापति गन्दिनश्च पौत्रोऽवतंत । अस्य काव्यस्य पूतिः कविनानेन एकादशशतकान्त भागोत्पन्नस्य राज्ञो मदनपालस्य समये कृतेति अस्य समयो निश्चितः । अत्र काव्ये पालवंशोद्भवस्य रामपालस्य भगवतो रामस्य च वर्णनं श्लेषमयभाषया कारि । वंगदेशस्य मध्ययुगीनमितिहासं ज्ञातुमिदं काव्यमुत्तमं साधनम् ।
धनञ्जयस्य ' राघवपाण्डवीयम् '
अस्य कवेः समयः ११२३-११४० खीष्टीयो मन्यते । अत्र अष्टादशसु सर्गेषु रामायणमहाभारतयोः कथे महता चातुर्येण निबद्धे ।
एतादृशानि अन्यकाव्यानि ग्रन्थाः कर्तारः
- राघवपाण्डवीयम् - कविराजमाधवभट्टः - द्वादशशतकान्तभागः
- राघवनेषधीयम् - हरदत्तसूरिः - अष्टदशशतकम् -
- पार्वतोरुक्मिणीयम् - विद्यामाधवः - द्वादशशतकमध्यम्
- यादवराघवीयम् - वेङ्कटाध्वरो - सप्तदशशतकम्
- राघवपाण्डवयादवीयम् - चिदम्बरकविः - १५८६-१७१४ ई ० .
- रामकृष्णविलोमकाव्यम् - दैवज्ञसूर्यः - षोडशर्शतकपूर्वाद्धम् समयः