संस्कृत कवयित्र्यः
बहोः कालादेव क्रमः प्रचरति यत् स्त्रियो मधुरान् कलात्मकांश्च भावाना द्रियन्ते । यदि क्वचन पर्वतशिखरे दम्पतो गच्छतस्तदा पुरुषो भीषणं प्रारभार वन्यकरिणः अन्यान्यांश्च विस्मयावहान् पदार्थान् प्रति दत्तमना जायते , तदा तत्र वनिताः कलकलनादेषु निझरेषु , पक्षिणां मधुरेषु कूजितेषु च बद्धभावा भवन्ति । अत एव कोमला कान्तपदावली स्वोत्पत्तये स्त्रीणां वदनानि लभते स्थानानि । हेतोरस्मात् संस्कृतसाहित्येऽपि प्रारम्भकालत एवं स्त्रीकवयः प्रयन्ते । ऋग्वेदे बहुभिः स्त्रीभिः कृता मन्त्राः प्रसिद्धा ये ऋषिकानाम्ना व्यवह्नियन्ते । कवितादृष्ट्या ऋचामासां भूयसी प्रतिष्ठा ।
वेदानन्तरकालभाविनि पालीसाहित्ये सांसारिक विलासमवधूय धार्मिकी शान्तिमाश्रिताभिः ललनाभिः कृता गाथा: थेरोगाथानाम्ना प्रसिद्धाः ।
संस्कृतसाहित्येऽपि सूक्तिसंग्रहेषु चत्वारिंशतोऽन्यूनां रमणीकवीनां कविताः सङ्ग्रहीताः सन्ति , यासु कतिचन प्रधानलोकवयोऽत्र निदिश्यन्ते ।
विज्जिका संस्कृत कवयित्री
मम्मटाचार्येण स्वीये शब्दव्यापारविचारे काव्यप्रकाशे च
' दृष्टि हे प्रति वेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि ' ,
' धन्यासि या कथयसि प्रियसङ्गमेऽपि ' इति पद्यद्वयमुद्धृतम् ।
अनयोः प्रथमं पर्व धनिकेन दशरूपकावलोके मुकुलभटेन अभिधावृत्तिमातृकायां चोद्धृतम् । अतश्च तत्पद्यरचयिन्याः समयः ८५० ई ० मितः कथयितुं शक्यते ।
विज्जिकाया एक पद्यं प्रसिद्धम्
' नीलोत्पलदलश्यामां विज्जिका मामजानता ।
वृथैव दण्डिना प्रोक्ता सर्वशुक्ला सरस्वती ॥ '
अनेनापि दण्डिकालात्पूर्वकालिकत्वमस्याः प्रतीयते । एतदपि पूर्वकथित समयकत्वमस्याः साधयति ।
विज्जिकायाः विजया - नामककर्णाटराजप्रियया सह ऐक्यमपि कतिपणे पर्यवस्यति वर्णयन्ति । तथा सति तस्या गर्वोक्तिरियं विज्जिकाया एव गर्वोक्तिरूपतया -
' एकोऽभून्नलिनात्परश्च पुलिनाद्वल्मीकतश्चापर स्ते
सर्वे कवयो भवन्ति गुरवस्तेभ्यो नमस्कुर्महे ।
अर्वाचो यदि गयपद्यरचनश्चेतश्चमत्कुर्वते
तेषां मूनि दधाति वामचरणं कर्णाटराजप्रिया । '
विज्जिकया स्फुटमुक्तकान्येव प्रणीतानि , न किमपि प्रबन्धकाव्यमनया भावुककवीनां वर्णने प्रोक्तम् रचितम् । मुक्तककाव्यप्रणयनेनैव तस्याः प्रतिभाप्रकर्षः परिचीयते । विज्जिकया
' कबेरभिप्रायमशब्दगोचरं स्फुरन्तमार्टेषु पदषु केवलम् ।
वद्भिरङ्गैः कृतरोमविक्रियैर्जनस्य तूष्णीं भवतोऽयमञ्जलिः ।। '
सुभद्रा संस्कृत कवयित्री
सुभद्रायाः पद्यानि भूयसा न प्राप्यन्ते । यस्या एकमेव पद्यं बल्लभदेवस्य सुभाषितावल्यां प्राप्यते । अवापि सुभद्राया बहूनि पद्यानि प्रागप्रथन्तेति निश्च येन वक्तुं शक्यते , यतो राजशेखरेण तद्विषयेऽभिहितम्
' पार्थस्य हृदये स्थान लेभे खलु सुभद्रया ।
कवीनां च वचोवृत्तिचातुर्येण सुभद्रया । '
यदि सा प्रसिद्धकवयित्री नाभविष्यत्तदा राजयोखरः कथमपि तत्स्तुति निर्णीतप्राय एव । नाकरिष्यदतस्तस्याः कवित्वमसन्दिग्धम् । राजशेखरपूर्ववत्तितया समयोऽपि
फल्गुहस्तिनी संस्कृत कवयित्री
आत्मन एकेनेन पद्येनानेव कवयित्रीय कीतिमधिकरोति
' सृजति तावदशेषगुणाकरं पुरुषरत्नमल कुरणं भुवः ।
तर्दपि तत्क्षणगि करोति चेदहह कष्टमपण्डितता विधेः ॥ '
अस्याः पद्यान्तराण्यपि यापलब्धान्यभविष्यंस्तदाऽस्या वास्तविक गौरवं प्रकाशमासासादयिष्यत् ।
' त्रिनयनजटावल्लीपुष्पम् '
इत्याद्येकं पद्यमपि फल्गु हस्तिनीकृतित्वेन शाङ्गधरपद्धतौ समुद्धृतम् ।
मोरिका इन्दुलेखा - मारुला - विकटनितम्बा - प्रभृतीनामन्यान्यस्त्रीकवीनामपि पद्यानि सुभाषितावलि - सूक्तिमुक्तावलि - शाङ्ग घरपद्धति - प्रभृतिषु संग्रहग्रन्थेषु प्राप्यन्त इति तासां प्रसिद्धताऽनुमीयते ।
उपरि यासां नामानि निदिष्टानि ताः स्फुटपद्यानि प्रणीतवत्यः , प्रबन्धप्रणेतृ स्त्रीकवीनां ग्रन्थास्तत्र तत्र परिचयं प्रापिता एव । यथा - रामभद्राम्बाविर चितं रघुनाथाभ्युदयकाव्यम् , गङ्गादेव्या वीरकम्परायचरितच
कतिपया अन्याः स्त्रियो याः कवयन्ति स्म
नाम
१. लखिमा - चतुर्दशशतकम् - स्फुटकाव्यानि
२. वैजयन्ती - सप्तदशशतकम् - स्फुटकाव्यानि
३. त्रिवेणी - १८१७-१८८३ ई ० - स्फुटकाव्यानि
४.क्षमारावा - विंशशतकम् - सत्याग्रहगीता
५. इन्दुलेखा - षोडशशतकम् - स्फुटकाव्यानि