संस्कृत खण्डकाव्यं
संस्कृत खण्डकाव्यं
खण्डकाव्यं
महाकाव्यस्यैकदेशानुसारि भवति । अस्य काव्यप्रभेदस्पति हासः कदा आरभते इति चिन्तायाम् ऋग्वेदकाल एव खण्डकाव्यस्य बीजमु समिति सविश्वासं वक्तुं शक्यते । मनोहारिणी उषः सूक्ते वीररसप्रधाने विपाशा शुतुदीसूक्ते सुदासविजयसूक्ते च खण्डकाव्यस्य प्राणूपं निहितमिव प्रतीयते ।
' अनातेव पुंस एति प्रतीचो गहिगिव सनये धनानाम् ।
जायेव पत्ये उशती सुवासा उषा हस्रव नि रिणोते अप्सः ।। '
इयम् उषःसुन्दरो भ्रातृहोना भगिनोव स्वदायभागाय पितृस्थानीय सूर्यमुपतिष्ठते , कदाचिच्च पति प्रेमपाशे बन्धुमध्यवसिता सुन्दरपरिधाना सुन्दरीव सूर्यस्य समीपमायाति ।
अत्र एवं विज्यत्र च मन्त्रसमुदये यदाख्यानजातं निहितं तत्खण्ड काव्यस्यादिम रूपं मन्तुं शक्यत एव । कालिदासेन तु मेघदूततुसंहारौ प्रणीय खण्डकाव्यपरम्परायाः शिलान्यास इव कृतः ।
अग्रवालमहोदयाः खण्डकाव्यस्य पञ्चप्रकारकतामातिष्ठन्ते
१. ऋग्वेदकालिक खण्डकाव्यम् । अत्र खण्डकाव्यानुकारः सूकैऋषयो ऽव्याजमात्मभावान् व्यञ्जयामासुः , यथोषःसूक्तादिषु । उपनिषत्सु च प्राप्यन्ते ।
२. भक्तिरसमयं खण्डकाव्यम् । यस्य प्रभेदस्य निदर्शनानि बौद्धग्रन्थेषु
३. ऐतिहासिक खण्डकाव्यम् । अस्य प्रभेदस्योदाहरणं रामायणे भारते वा कृतं प्रकृतिवर्णनं बोध्यम् ।
४. रूपकान्तर्गत खण्डकाव्यम् । रूपकेषु यत्र तत्र पात्राणां वस्तुवर्णन पराणि प्रेमप्रकाशनपराणि वा पद्यानि एतदुदाहरणतया स्वोकत्तुं शक्यन्ते ।
५. उत्तरकालभवाना कवीनां शृङ्गारप्रधान सङ्कीर्ण वा खण्डकाव्यम् ।
एषु पचास प्रभेदेषु पञ्चमः प्रभेद एव सर्वोत्कर्ष गतः , कालिदासामरुक भत्तृहरिजगन्नाथादिभिरस्य प्रभेदस्य साहित्यमूजितं कृतम् । अन्ये प्रभेदा बीजभावेन स्थिता अपि पोषकसाहित्याभावात्सुप्तकल्पा एवं
इदमेव खण्डकाव्यमत्याधुनिकाः गोतिकाव्यम् ( Lyric ) इति नाम्ना व्यपदिशन्ति । अत्र गीतिकाव्यप्रभेद एवं दूतकाव्यमुक्तककाव्यवर्णनप्रधानकाव्या न्यायान्ति , तेन खण्डकाव्यनामाऽयं प्रकारो मेघदूत संहारगीतगोविन्दभत्त हरि शतकत्रयामरुकशतकभल्लटशतकभामिनीविलासादीन् अन्यान्यानि दूतकाव्यानि चाङ्गोकरोति ।
तत्र