मेघदूतम् एक खंडकाव्य

मेघदूतम्

अस्य मेघदूतम् रचयितुः कालिदासस्य परिचयादिकं प्रकरणान्तर उक्तम् । 

मेघदूतस्य मौलिकता 

कालिदासेन मेघदूते विरहिणो लोकस्य मनःस्थितेवर्णना कृता , पूर्वमेधे आदितोऽवसानपर्यन्तं बाह्यप्रकृतिश्चित्रिता , एवमेव उत्तरमेचे अन्तःप्रकृतिः । 
सन्देशप्रेषणस्य प्रवृत्तिस्तदाधारेण काव्यप्रणयने प्रवृत्तिश्चयं पुराणेषु रामायणे महाभारते चापि प्राप्यते । नलचरिते हंसेन संवादप्रेषणे उपकृतम् , युधिष्ठिरेण कृष्णद्वारा संवादः प्रेषितः , रामेण हनूसता संवादः प्रापितः । तदत्र कालिदासेन रामायणमनुसृत्व मेघदूतं प्रणीतमिति कथनं नासत्यम् । कालिदासः स्वयमपि तथ्यमिदं गोपयितुं नैच्छत् । यद्यसो तथ्यमिदं गोपयितुमैषिष्यत् , तदा स्वकाव्ये - ' इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा ' इति पद्यं कथमपि नायोजयिष्यत् । 
मेघदूतम् एक खंडकाव्य
रामायणाधारेण कृतमपीदं खण्डकाव्यं स्वीयां मौलिकतां न जहाति मौलिकता हि कथायाः प्रकारस्य वाऽनुकरणमात्रेण नापहीयते , सा हि पद्यानां निर्माणे कथाया उपस्थापने नवीनां पद्धतिमपेक्षते । माघेनापि पुराणेतिहास प्रथितं वृत्तमादायैव शिशुपालवधं प्रणीतमथापि तस्य मौलिकत्वमक्षतमेव , तथैव मेघदूतस्यापि मौलिकता शैल्या नवीनतायां मनोभावानां चित्रणे नूतनतायां च निहिता । 
कालिदासेन मेघो द्रुततां गमितस्तद्विषये भामहेनापत्तिः कृता 

' अयुक्तिमद्यथा दूता जलभृन्मारुतेन्दवः । 
तथा भ्रमरहारीतचक्रवाकशुकादयः ।। 
अवाचोऽयुक्तवाचश्च दूरदेशविचारिणः । 
कथं दूत्यं प्रपद्येरनिति युक्त्या न युज्यते ॥ 

अत्र प्रसङ्ग उत्तरमपि स्वयमेव तेन दत्तम् 

' यदि चोत्कण्ठया यत्तदुन्मत्तं इव भाषते । 
तथा भवतु भूम्नेदं सुमेधोभिः प्रयुज्यते ॥ ' 

कालिदासेनापि - ' कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ' इति कथयित्वा सकलाप्येतद्विषयाऽपत्तिः परिहता ।

 मेघदूतस्यापरकविभिरनकरणम् 

मेघदूतं निर्माय कालिदासेन मन्ये एको मार्ग इव प्रवत्तितः । प्रसिद्धकवि भवभूतिरपि मालतीमाधबे नाम स्वरूपके मेघ दूतं कृत्वा 
' दैवात्पश्येजगति विचरन् मस्त्रियां मालती चेद् 
आश्वास्यादौ तदनु कथयेर्माधवीयामवस्थाम् ।। 
इति संवादं प्रेषितवान् ।

घटसर्परनामा कविरपि घट खपरकाव्यनाम्नैव प्रथिते खण्डकाव्य मेयमेव दूतं कृत्वा स्वप्रियासमीपे संवाद प्रेषितवान -

' निचितं समुपेत्य नीरदैः प्रियहीनाहृदयावनीरदैः । 
सलिलनिहित रजः क्षिती रविचन्द्रावपि नोपलक्षिती । '

     एवमन्येऽपि कवयो मेघदूतानुकरणेन खण्डकाव्यानि दूतकाव्यनाम्ना प्रथ यितुं प्रावर्तन्त । एवं संस्कृतसाहित्ये सन्देसकाव्यस्यैका श्रेणी एवं समजायत । सन्देशकाव्येषु धोयीकविप्रणीतं ' पवनदूतम् ' मेघदूतस्यानन्तरकनिष्ठम् । अर्य भोपीकविरेव गीतगोविन्दकृता जयदेवेन कविश्मापतिशब्देन स्मर्यते । वेदान्त देशिक - वामनभट - वाण - रूपगोस्वामिप्रभूतयः कतिपये परे कवयः हंसतनामकानि काव्यानि रचितवन्तः । चातकदूत - कोकिलदूतादयोऽपि ग्रन्थाः प्रथन्ते । भागवता धारक भ्रमरदूतास्य काव्यं तु स्वगुणगौरवख्यातमेव । 
    परवत्तिनो जैनकवयो मेघदूतस्य चरणानि समस्यारूपेणावलम्ब्य दूत काव्यानि कृतवन्तः । तदयं सम्प्रदायः कालिदासप्रवत्तित एवेति कालिदासस्य परमं गौरवस्थानम् । 

मेघदूतस्य काव्यशैली 


प्रायः क्लोकशातकमितोऽयं ग्रन्थः किमपि अलौकिकं मादकं तत्त्वं रक्षति येन लोको ' माघेमेधे गतं वयः ' इति माभिमानं वक्तुमुत्सहते । मम विचारे मेघदूते विरहशालिनो युवजनस्य मनःस्थितेस्तादृश व्यक्तं चित्रं प्रस्तुतं तदधीयानो जनः स्वचित्रमिव प्रदश्य॑मानः कामपि आत्मविस्मृतमिव प्रतिपद्यते । इदमेव हि मेघदूतस्य वैशिष्ठयू ' यत्तत्र वर्णनप्रवृत्तानि पद्यान्यपि मनोगतान विरहिजन भावीनभिव्यञ्जयन्ति - 

वेणीभूतप्रतनुसलिलासाबतीतस्य सिन्धुः
पाण्डुच्छायातटरुहतरभ्रशिभिर्जीणपर्णः । 
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती 
काश्य येन त्यजति विधिना स त्वयैवोपपाद्यः ।। 

 पद्येऽत्र सिन्धोर्दशा दूरं गच्छति , विरहिण्या दर्शव पुर उपेत्य विरहिणो हृदये कामपि पीडामवतारयति , याऽध्येतरसिकानां हृदये विप्रलम्भशृङ्गार प्रवाहयति । कालिदासेन मेघदूते सौन्दर्य सृष्टेः पराकाष्ठा प्रकाशिता- 

' तन्वी श्यामा शिखरिदाना पक्वबिम्बाधरोष्ठी । ' 

इति सर्वाणि विशेषतान्युपन्यस्याप्यपरितुष्यता ' या तत्र स्यायुवतिविषये सृष्टिरायेव धातुः ' इत्युक्त्वा प्रकर्षः प्रकटीकृतः नेतावदेव , भौगोलिकं ज्ञानं वैज्ञानिकं च ज्ञानमत्र ग्रन्थे स्थितमित्यप्याधुनिका अभिप्रयन्ति । 

कालिदासेन रामायणं दृष्ट्वैव मेघदूतमुद्भावितमिति प्रागवोचाम् । वाल्मी किना कथितोऽप्यर्थोऽनेन कथं चमत्कारिौल्या प्रकाशित इति निदश्यते-
रामायणे वाल्मीकिना सोतां सन्तोषयितुं धैर्य धारयितुध 

' कल्याणी बत गायेयं लौकिकी प्रतिभाति में । 
एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ '

 इत्युक्तम् । अयमेवार्थः कालिदासेन कया पद्धत्योच्यते ? तद् दृश्यताम् -


इत्यात्मानं बहु विगणयन्त्रात्मनैवावलम्बे 
तत्कल्याणि त्वमपि सुतरां मा गमः कातरत्वम् । 
कस्यात्यन्तै सुखमुपनतं दुःखमेकारततो वा 
नीचेगच्छत्युपरि च दशा चक्रनेमिक्रमेण ।। 
मूलकमेवेति स्कूल काव्ये हि कङ्कालाङ्गयपि युवतिरूपतां यातीति कथनमेतादृगुक्तिदर्शन 

ऋतुसंहारकाव्यम्

    अत्र काव्ये लघुकायाः षट् सर्गा यत्र संहत्य १५३ श्लोकाः षड्तुवर्णने निवडाः । प्रकृतेः सर्वावस्थासु परिवत्तितानि तानि तानि चित्राण्यत्र प्रस्तुतानि यानि प्रत्यक्षदृष्टानीव हृदयं रञ्जयन्ति । कालिदासीयमेवेदमपि काव्यम् । 

    केचिदत्र मल्लिनाथस्य टीकामनालोक्यास्य कालिदासप्रणीतत्वं न स्वी कुर्वन्ति । केचित्पुनरत्र ग्रीष्मं प्रथमं वर्ण्य मानमपि दृष्ट्वा किगपि वितृष्णत्वमिव प्रकाशयन्ति । उभयमपोदं न युक्तम् , यतो मल्लिनाथः सर्वानेव ग्रन्थान् विवृणु यादेवेति कुतस्त्या नियमः ? किञ्च वर्षादौ वसन्तस्य निपातेन तद्वर्णनं प्राथम्य महतीति पञ्चाङ्गयुज्यते , न पुनः काव्ये । काव्ये हि कविचिः प्राधान्यं भजते । अतो नानया पद्धत्याऽस्य ग्रन्थस्य कालिदासकृतित्वं प्रतिषेधुं शक्यते । वस्तुतोऽयं ग्रन्थः कस्यचिदन्यस्य कालिदासस्य कोटिजिदपरनाम्नः । बहवो हि बभूवुः कालिदासाः शृङ्गारतिलक - ज्योतिर्विदाभरण - पुष्पबाणविलासादिकर्तारः । 
        तदयं ग्रन्थोऽपि तदन्यतमस्यैव कस्यापि कृतिः स्यादिति सम्भवदुक्तिम् । कीथ ( Keith ) महाशयोऽप्यर्थमिममुक्तवान् । कविताशैली पुनरस्य ग्रन्थस्य सरसा सरला च प्रतिभाति 

' मन्दानिलाकुलितचारुतरानशाखः 
पुष्पोद्गमप्रचयकोमलपल्लवानः । 
मत्त द्वरेफपरिपीतमधुप्रसेकश्चित्तं 
विदारयति कस्य न कोविदारः ॥ 
' गृहीतताम्बूलविलेपनस्रजः 
पुष्पासवामोदितवक्त्रपङ्कजाः । 
प्रकामकालागुरुधूपवासितं 
विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ।।