जयदेवः एवं गीतगोविन्द
' जयदेवः मधुरकोमलकान्तपदावलीनिर्माणरसिकः जयदेवो लक्ष्मणसेननामकस्य बङ्गीयस्य राज्ञः सभायामासीत् । लक्ष्मणसेनस्य संवत् वङ्गदेशे विहारप्रान्ते च सर्वत्र प्रचरति । लक्ष्मणसंवत्स्त्रीष्टाब्दयोरन्तरं ११० ९ मितं विद्यते , अतो लक्ष्मणसेननृपतेादशशतकप्रारम्भ एवं कालः ।
स एव कालो जयदेवस्थापि मन्यते । १२७५-१३२० ई ० समये समुद्भूतेन महाराष्ट्रभाषाया महनीयकीतिना भास्करभट्टबोरीकरमहाशयेन निर्मिते शिशुपालवधनामके महाराष्ट्रभाषाकाव्ये गीतगोविन्दस्य बहूनि पद्यानि भावतोऽनुकृतानि विद्यन्त इत्यपि जयदेवस्य पूर्वोक्तं समयं समर्थयति । गुर्जरप्रान्तशासकस्य शाङ्ग देवस्यैकत्र शिलालेखे मङ्गल प्रलोकतया गीतगोविन्द - प्रथमसर्गस्थ एकः श्लोकः उल्लिख्यते , शाङ्ग देवस्य समयश्च १३४८-१३९ १ मितोऽतोऽपि पूर्वोक्तसमयवत्तिता पुष्यति जयदेवस्य । जयदेवो वङ्गीयोऽच च केन्दुबिल्वनामकग्रामवासी आसीत् । प्रसन्नराघवचन्द्रा लोकादिप्रणेतारो गीतगोविन्दकाराज्जयदेवाद्भिन्ना एव ।
जयदेवस्य गीतगोविन्दम्
गीतगोविन्दं द्वादशसर्गात्मक खण्डकाव्यम् । यद्यपि सर्वथेदं काव्यकोटी नायाति यतोऽत्र चरितं न वयतेऽथापि वर्णनपरकखण्डकाव्यत्वमस्य स्वोकर्तव्य- मेव । केचिदाधुनिकास्तु गीतगोविन्दं गीतिनाटयम् मन्यन्ते , यथाह
मैक्डोनेल ( Macdonell ) महोदयः -
The transitional stage between pure lyric and pure drama , a lyrical drama though dating from the twelfth - century is the earliest literary specimen of primitive type of play that still survives in Bengal and must have preceded the regular drama . The poem contains no dialogue in the proper sense .
अर्थात् -
गीतगोविन्दं शुद्धगीतिकाव्यशुद्धनाट्ययोरन्तरे वर्तते , यद्यपोदं द्वादशशताब्द्यां निरमीयत , अथापोदं पक्वतामुपयास्यतो नाट्यस्योदाहरणस्वरूप तया प्रथमं निदर्शनं मन्तव्यम् , यदीया परम्परा वङ्गषु सम्प्रत्यपि जोवति । इदं शुद्धनाट्यस्यानुगामि मन्तुं शक्यते यद्यपि संवादोऽत्र नास्ति
गीतगोविन्दस्य द्वादशापि सर्गाः गीतमयाः । सर्गाणां कथां परस्परं याजयितु कतिचन श्लोका अपि सन्ति । सरसमधुरकवितायाः पराकाष्ठाऽत्र निदर्शिता । भक्तेः सरसकवितायाश्चैकत्र समावेशो यया गीतगोविन्दे न तथा क्वापि परत्रेति कथनं नानुपयुक्तम् स्वयमुक्तं जयदेवेन
यदि हरिस्मरणे सरस मनो यदि विलासकलासु कुतूहलम् ।
..
मधुरकोमलकान्तपदावलि शृणु तदा जयदेवसरस्वतीम् ॥ '
अपूर्वाणामुपमानामुत्प्रेक्षाणां च प्रयोगोऽत्र ग्रन्ये विलक्षण :
' बहति च वलितविलोचनजलभरमाननकमलमुदारम् ।
विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ '
कतिचन विद्वांसोऽत्र ग्रन्थे – ' गोपीपीनपयोधरमर्दनचधलकरयुगशाली ' इत्यादिश्चङ्गारप्रधानपद्यानि दृष्ट्वाऽश्लीलता वदन्ति । वस्तुतस्तु अत्र ग्रन्थे श्रीकृष्णो नाम परमात्मतत्त्वं गोपिकाश्च जीवतत्त्वानि , तयोर्मेलनमत्र वर्णित मिति परे । केचित् गाः पातीति गोपः शरीरम् , गोपी शरीरी आत्मा , पीनः पयोधरोऽज्ञानमेषो ज्ञानावरकत्वात् तस्य मदने करयुग सालम्बननिरालम्बन समाधिरूपं प्रकाशक्षमम् , तच्छालीत्येवंविधमर्थ कृत्वाऽस्याश्लीलतामपनुन्दति ।
वयं तु पश्यामः - श्रीकृष्णस्य गोपोभिः सह लौकिक्यः क्रीडा एवं यदि वणितास्तदात्र काऽश्लीलता ? कुमारसम्भवेष्टमे सगे , माघे एकादशादी सर्गे , षषष्टादशेऽन्यत्र च महाकाव्ये तत्र तत्र कामसूत्रमनुसृत्य वणिताः सम्भोग प्रकारा यदि क्षम्यन्ते तदाऽत्रत्यः शृङ्गारः कथं न क्षम्येत । ये पुनः शृङ्गार स्थामात्र एव कमपि विरस गन्वमनुभवन्ति तेषां कथनमेव कि मूल्यं रक्षति ?
गीतगोविन्दस्य प्रभावो न केवलमुत्तरभारतीयसाहित्येऽपि तु गुर्जरकन्न डादिदक्षिणप्रान्तसाहित्येऽपि प्रकटमुपलक्ष्यते । चण्डीदासविद्यातिप्रभृतयस्तु कवयो गीतगोविन्दमुपजीव्येव विश्ववन्धं पदमवापुः ।
महाप्रभुश्चेतन्यदेवोऽस्य गीतगोविन्दस्य परमभक्त आसीत् । तच्छिष्या न्यतमो षोडशशताब्दीसम्भूतो राजा प्रतापरुद्रः उत्कलीयमन्दिरेषु गीतगोविन्दस्य नियमितगानार्थ भूमिदानं कृतवान् ।
अस्य ग्रन्थस्यानुकारे गीतगोपालगीतगोपीपतिप्रभृतयो बहवो ग्रन्था अरचिषत , इत्यप्यस्य लोकप्रियत्वे प्रमाणम् ।
अत्रत्यानि गीतानि रागतालशुद्धानि परिष्कृतपदानि नितान्तमधुराणि च
' चिन्तयामि तदाननं कुटिल रोषभरेण ।
शोणपनमिवोपरि भ्रमताऽकुलं भ्रमरेण । '
' निन्दति चन्दनमिन्दुकिरणमनुविन्दति खेदमधीरम् ।
व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥ '
इत्यादीनि गोतानि सरसकविताया असमानि निदर्शनानि । न केवलं गीतनिर्माणेऽपि त पद्यनिर्माणेऽपि परा प्रौढिरत्र प्रकाशिता -
' अत्रान्तरे च कुलटाकुलवमपातसञ्जातपातक इव स्फुटलाञ्छनधीः ।
वृन्दावनान्तरमदीपयदंशुजालेदिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ।।